________________ जोइसिय 1605 - अभिधानराजेन्द्रः भाग - 4 जोइसिय माते भागाते समासादेति, पुरच्छिमाते भागाते समासादेत्ता चंदेणं सद्धिं अद्धा जोगं जुजति, अद्धा जोगं जुजतित्ता अद्धा जोगं अणुपरियट्टति, अद्धा जोगं अणुपरियट्टतित्ता विजेति, विजहति, विप्पजहति, विगतजोईयावि भवति। "ता जया णं" इत्यादि / ' ता' इति पूर्ववत् / यदा णमिति वाक्यालङ्कारे, चन्द्र गतिसमापन्नमपेक्ष्य ग्रहो गतिसमापन्नो भवति, तदा स ग्रहः पौरस्त्याभागात्पूर्वेण भागेन प्रथमतश्चन्द्रमसं समा-सादयति, समासाद्य च यथासंभवं योग युनक्ति, यथासंभवं योग युक्त्वा पर्यन्तसमये यथासंभवं योगमनुपरिवर्त्तयति, यथासंभवमन्यस्य ग्रहस्य योगं समर्पयितुमारभते इति / भावयोगमनुवत्थं च तेन सह योग विजहाति, विप्रजहाति। किं बहुना ? विगतयोगी चापि भवति / (40) अधुना सूर्येण सह नक्षत्रस्य योगचिन्तां करोतिता जया णं सूरं गतिसमावण्णं अभिई णक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पुरच्छिमाते भागाते समासादेत्ता चत्तारि अहोरते छच्च मुहुत्ते सूरेणं सद्धिं जोयं जोएति, जोयं अणुपरियट्टति, अणुपरियट्टित्ता विजेति, विजहति, विप्पज-हति, विगतजोई यावि भवति। एवं अहोरताछ एकवीसं मुहुत्ताय, तेरस अहोरत्ता वारस मुहुत्ता य, वीसं अहोरत्ता तिण्णि मुहुत्ता य,ताव सव्वे भाणितव्वा जाव उत्तरासाढाणक्खत्ता। " ता जया णं'' इत्यादि।'ता' इति प्राग्वत्। यदा सूर्य गतिसमापनमपेक्ष्याभिजिन्नक्षत्रं गतिसमापन्नं भवति, तदाऽभिजिन्नक्षत्र प्रथमतः पौरस्त्याद्भागात्सूर्य समासादयति, समासाद्य चतुरः परिपूर्णानहोरात्रान्, पञ्चमस्य चाहोरात्रस्य षड्मुहूर्तान् यावत्सूर्येण सह योगं युनक्ति। एवंप्रमाणं च कालं यावद्योगं युक्त्वा पर्यन्तसमये योगमनुपरिवर्तयति। श्रवणनक्षत्रस्य योगं समर्पयितुमारभत इति भावः / अनुपरिवर्त्य च तेन सहयोगं विजहाति, विप्रजहाति, कि बहुना? विगतयोगी चापि भवति / ' एवं ' इत्यादि। एवमुक्तेन प्रकारेण पञ्चदशमुहूर्तानां शतभिषक्प्रभृतीनां षडहोरात्राः, सप्तमस्याहोरात्रस्यैकविंशतिमुहू स्त्रिंशन्मुहूर्तानां श्रवणाऽऽदीनां त्रयोदश अहोरात्राश्चतुर्दशस्याहोरात्रस्य द्वादश मुहूर्ताः, पाचत्वारिंशन्मुहूर्तानामुत्तरअद्धपदाऽऽदीनां विंशतिरहोरात्राः, एकविंशतितमस्य चाहोरात्रस्य त्रयो मुहूर्ताः, क्रमेण सर्वे तावद्भणितव्या यावदुत्तराषाढानक्षत्रम्। तत्रोत्तराषाढानक्षत्रगतमभिलापं साक्षाद्दर्शयतिताजता णं सूरं गतिसमावण्णं उत्तरासाढाणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पुरच्छिमाते भागाते समासादेत्ता वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएति, जोयं जोएत्ता जोयं अणुपरियट्टति, जोयं अणुपरियट्टित्ता विजेति, विजहित, विप्पजहति, विगतजोईयावि भवति। ' ता जया इत्यादि सुगमम् / एतदनुसारेण शेषा अप्यालापाः स्वयं वक्तव्याः, सुगमत्वात्तु नात्र दर्श्यन्ते।। (41) संप्रति सूर्येण सह ग्रहस्य योगचिन्तां करोतिता जता णं सूरं गतिसमावण्णं गहगतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पुरच्छिमाते भागाते समासादेत्ता सूरेण सद्धिं अद्धा जोयं जुजति, अद्धा जोयं जंजित्ता अद्धा जोयं अणुपरियट्टति, अद्धा जोयं अणुपरियट्टित्ता विजेति०जाव विगतजोईयावि भवति। "ता जया णं " इत्यादि सुगमम्। (42) अधुना चन्द्राऽऽदयो नक्षत्रेण मासेन कति मण्डलानि चरन्तीत्येतन्निरूपयितुकात आह.. ताणक्खत्तेणं मासेणं चंदे कति मंडलाइं चरति ? ता तेरस मंडलाइं चरति, तेरस य सत्तट्ठिभागे मंडलस्स। ता णक्खत्तेणं मासेणं सूरे कति मंडलाइं चरति ? ता तेरस मंडलाइं चरति, चोत्तालीसं च सत्तट्ठिभागे मंडलस्स। ताणक्खत्ते कति मंडलाई चरति ? ता तेरस मंडलाइं चरति, अद्धसीतालीसं च सत्तट्टिभागे मंडलस्स। " ताणक्खत्तेणं " इत्यादि।'ता' इति पूर्ववत्। नक्षत्रेण मासेन चन्द्रः कति मण्डलानि चरति ? एवं गौतमेन प्रश्ने कृते भगवानाह-" तातेरस " इत्यादि / त्रयोदश मण्डलानि, चतुदशस्य मण्डलस्य त्रयोदश सप्तषष्टिभागान्। कथमेतदवसीयते? इति चेत्। उच्यतेत्रैराशिकबलात्। तथाहि-यदि सप्तषष्ट्या नक्षत्रमासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते, तत एकेन नक्षत्रमासेन किं लभामहे ? राशित्रयस्थापना-६७।८८४।१।अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातः स तावानेव, तस्य सप्तषष्ट्या भागहरणं, लब्धानि त्रयोदश मण्डलानि, चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागाः।१३।१"ता णवखत्ते ण " इत्यादि सूर्यविषयं प्रश्नसूत्रं सुगमम् / भगवानाह- " ता तेरस " इत्यादि। त्रयोदश मण्डलानि, चतुर्दशस्य च मण्डलस्य चतुश्वत्वारिंशत सप्त- षष्टिभागात्। तथाहि-यदि सप्तषष्ट्या नक्षत्रैर्मासैनव शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते, तत एकेन नक्षत्रेण मासेन कति मण्डलानि लभामहे ? राशित्रयस्थापना-६७।६१५। 1 / अत्रान्त्येन राशिना मध्यराशेर्गुणनं,तत आद्येन राशिना भागहारः,लब्धानि त्रयोदश मण्डलानि, चतुर्दशस्य च मण्डलस्य चतुश्चत्वारिंशत्सप्तषष्टिभागाः / 13 // " / ता णखत्ते " इत्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमम् / भगवानाह-" तातेरस " इत्यादि।त्रयोदश मण्डलानि, चतुर्दशस्य च मण्डलस्य अर्द्धसप्तचत्वारिंशतं सार्धषट्चत्वारिंशतं सप्तषष्टिभागान् चरति। तथाहि-यदि सप्तषष्ट्या नक्षत्रैमास रष्टादशशतानि पञ्चत्रिंशदधिकानि अर्द्धमण्ड-लानि नक्षत्रस्य लभ्यन्ते, ततएकेन नक्षत्रेण मासेन किं लभामहे ? राशित्रयस्थापना-६७।१८३५ / 1 / अत्रान्त्येन राशिना मध्यराशेर्गुणनं, तत आद्येन राशिना भागहारः, लब्धानि सप्तविंशतिरर्द्धमण्डलानि, अष्टाविंशतितमस्य चार्द्धमण्डलस्य षड्विशतिः सप्तषष्टिभागाः 27 / 26 / ततो द्वाभ्यामर्द्धमण्डलाभ्यामेक मण्डल-मित्यस्य राशेर करणेन लब्धानि त्रयोदश मण्डलानि, चतुर्दशस्य मण्डलस्य सार्द्धषट् चत्वारिंशत्सप्तषष्टिभागाः।१३।। (43) संप्रति चन्द्रमासमधिकृत्य चन्द्राऽऽदीनां मण्डलनि रूपणां करोतिता चंदे ण मासेणं चंदे कति मंडलाइं चरति ? चोद्दस