________________ जोइसिय 1607 - अभिधानराजेन्द्रः भाग - 4 जोइसिय कविंशतिसहस्त्राणि नवशतानिषष्ट्यधिकानि। २१९६०।ततस्त्रै-राशिक यदि मुहूर्तगतसप्तषष्ट्यधिकत्रिंशद्भागानामेकविंशत्या सहस्त्रैर्नवभिः शतैः षष्ट्यधिकैरक शतसहस्रमष्टानवतिशतानि मण्डलभागानां लभ्यन्ते, तत एकेन मुहूर्तेन किं लभामहे ? राशित्रयस्थापना-२१६६०।१०६८००। 1 / अत्राद्यो राशिर्मुहूर्तगतसप्तषष्ट्यधिकत्रिंशद्भागरूपः, ततोऽन्त्योऽपि राशिस्विभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते, जातानि त्रीण्येव शतानि सप्तषष्ट्यधिकानि 367 / तैर्मध्ये राशिगुण्यते, जाताश्चतस्रः कोटयो द्वे लक्षे षण्णवति-सहस्राणि षट्शतानि / 40266600 / तेषामाद्येन राशिनैक-विंशतिः सहस्रणि नवशतानि षष्ट्यधिकानीत्येवंरूपेण भागो हियते, लब्धान्यष्टादशशतानि पञ्चत्रिंशदधिकानि। 1835 / एतावतो भागान्नक्षत्रं प्रतिमुहूर्त गच्छति, तदेवंयतश्चन्द्रो यत्रतत्र वा मण्डले एकैकेन मुहूर्तेन मण्डलपरिक्षेपस्य सप्तदशशतान्यष्टषष्ट्यधिकानि भागानां गच्छति, सूर्योऽष्टादशशतानि त्रिंशदधिकानि नक्षत्रम् , अष्टादशशतानि पञ्चत्रिंशदधिकानि। ततश्चन्द्रेभ्यः शीघ्रगतयः सूर्याः, सूर्येभ्यः शीघ्रगतीनि नक्षत्राणि, ग्रहास्तु वक्रानुवक्राऽऽदिगतिभावतोऽनियतगतिप्रस्थानाः, ततो न तेषामुक्तप्रकारेण यति-प्रमाणप्ररूपणा कृता। उक्तंच" चंदेहिं सिग्धयरा, सूरा सुरेहिँ होति नक्खत्ता। अणियवगइपत्थाणा, हवंति सेसा गहा सव्वे / / 1 / / अट्ठार स पणतीसे, भागसए गच्छइ मुहत्तेणं। नक्खत्तं चंदो पुण, सत्तरस सए छ अट्टऽट्ट।। 2 / / अट्टारसभागसए, तीसे गच्छइ रवी मुहूत्तेण। नक्खत्तसीमछेदो, सो चेव इह पि नायव्यो।।३।।" इदं गाथात्रयमपि सुगमम् / नवरं नक्षत्रसीमाच्छेदः स एवात्रापि ज्ञातव्य इति। किमुक्तं भवति? अत्रापि मण्डलमेकेन शतसहस्रेणा-ष्टानवत्या च शतैः प्रविभक्तव्यमिति। (38) संप्रत्युक्तस्वरूपमेव चन्द्रसूर्यनक्षत्राणां परस्परं मण्डलभागविषयविशेषं निर्धारयतिता जया णं चंदं गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति? वायट्ठिभागे विसेसेति। ता जताणं चंदंगतिसमावण्णणक्खत्ते गतिसमावण्णे भवइ से णं गतिमाताए केवतियं विसेसेति ? सत्तहिँ भागे विसेसेति / ता जता णं सूरं गतिसमावण्णणक्खत्ते गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति? ता पंचभागे विसेसेति। ता जता णं चंदगतिसमावण्णं अभिईणक्खत्तं णं गतिसमावण्णे पुरच्छिमाते भामाते समासादिन्ना णवमुहूत्ते सत्तावीसे च सत्तट्ठिभागे मुहूत्तस्स चंदेण सद्धिं जोएति, जोअंजोएत्ता जोअं अणुपरियट्टति, जो विजेति, विजहति, विप्पजहति, विगतजोईयावि भवति। ताजताणं चंदगतिसमावण्णं समावण्णे णक्खत्ते गतिसमा-वण्णे पुरच्छिमा तिभागा देसमासादेति, पुरच्छिमाते भागाते समासादेत्ता तीसं मुहूत्ते चंदेणं सद्धिं जोअंजोएति, जोअंजोएत्ता जो अणुपरिअट्टति, जो जोएत्ता विजेति, विजहति, विप्पजहति, विगतजोई यावि भवति / एवं एएणं अभिलावेणं / णेतव्वं पणरस मुहूत्ता राई, तिसतीमुहुत्ताई भाणियव्वाइं० जाव उत्तरासाढा। " ता जया णं " इत्यादि।' ता ' इति पूर्ववत् / यदा णमिति वा क्यालङ्कारे / चन्द्रगतिसमापन्नमपेक्ष्य सूर्यो गतिसमापन्नो विवक्षितो भवति / किमुक्तं भवति? प्रतिमुहूर्तचन्द्रगतिमपेक्ष्य सूर्यगतिश्चिन्त्यते, तदा सूर्यो गतिमात्रया एकमुहूर्तगतगतिपरिमाणेन कियन्तो भागान्मुहूर्तान् विशेषयति? एकेन मुहूर्तेन चन्द्रोक्तभितेभ्यो भागेभ्यः कियतोऽधिकतरान् भागान् सूर्य आक्रामतीति भावः / भगवानाह-द्वाषष्टिभागान् विशेषयति / तथाहि-चन्द्र एकेन मुहूर्तेन सप्तदशभागशतान्यष्टषष्ट्यधिकानि गच्छति / 1768 / सूर्योऽष्टादशशतानि त्रिंशदधिकानि / 1830 / ततो भवति द्वाषष्टिभागकृतः परस्परविशेषः।" ता जयाणं " इत्यादि।' ता ' इति प्राग्वत् / यदा चन्द्रगतिसमापन्नमपेक्ष्य नक्षत्रं गतिसमापन्न विवक्षितं भवति, तदा नक्षत्रं गतिमात्रया एकमुहूर्तगतगतिपरिमाणेन कियन्तं विशेषयति ? चन्द्राक्रमितेभ्यो भागेभ्यः कियतो भागानधिकानाक्रामतीति भावः / भगवानाह-सप्तषष्टिभागान्नक्षत्रं ह्येकेन मुहूर्तेन अष्टादशभागशतानि पञ्चत्रिंशदधिकानि गच्छति / चन्द्रस्तु सप्तदशभागशतान्यष्टषष्ट्यधिकानि: तत उपपद्यते सप्तषष्टिभागकृतो विशेषः / " ता जया णं " इत्यादि प्रश्नसूत्रं प्राग्वद् भावनीयम् / भगवानाह-" ता पच " इत्यादि / पञ्च भागान् विशेषयति, सूर्याऽsक्रान्तभागेभ्यो नक्षत्राऽऽक्रान्तभागानां पञ्चभिरधिकत्वात्। तथाहि-सूर्य एकेन मुहूर्तेनाष्टादशभागशतानि त्रिंशदधिकानिगच्छति। नक्षत्रमष्टादशभागशतानि पञ्चत्रिंशदधिकानि / ततो भवति परस्परं पञ्चभागकृतो विशेषः।" ता जया णं" इत्यादि।' ता ' इति पूर्ववत् / यदा णमिति वाक्यालङ्कारे, चन्द्रगतिसमापन्नमपेक्ष्याभिजिन्नक्षत्रं गतिसमापन्नं भवति, तदा पौरस्त्याभागात्प्रथमतोऽभिजिन्नक्षत्रं चन्द्रमसं समासादयति / एतच्च प्रागेव भावितम्। समासाद्य च नव मुहूर्तान्, दशमस्य च मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागान् चन्द्रेण सार्द्ध योगयुनक्ति, करोति, एतदपि प्रागेव भावितम्। एवंप्रमाणं च कालं योगं युक्त्वा पर्यन्तसमये योगमनु परिवर्तयति। श्रवणनक्षत्रस्य योगं समर्पयतीति भावः / योगं च परावर्त्य तेन सह योग विजहाति। किंबहुना? विगतयोगी चापि भवति।" ता जया णं " इत्यादि। 'ता' इति प्राग्वत्। यदा चन्द्रं गतिसमापन्नमपेक्ष्य श्रवणनक्षत्रं समापन्नं भवति, तदा तच्छ्रवणनक्षत्रं प्रथमतः पौरस्त्याद्भागात्पूर्वेण भागेन चन्द्रमसं समासादयति, समासाद्य चन्द्रेण सार्द्ध त्रिंशन्मुहूर्तान् यावद्योगं युनक्ति, एवंप्रमाणं च कालं यावद्योग युक्त्वा पर्यन्तसमये योगमनु परिवर्तयति। धनिष्ठानक्षत्रस्य योग समर्पयितुमारभते इत्यर्थः। योगमनुपरिवर्त्य च तेन सह योग विप्रजहाति। किंबहुना ? विगतयोगी चाऽपि भवति।" एवं " इत्यादि। एवमुक्तेन प्रकारेणैतेनानन्तरोपदर्शितेनाभिलापेन यानि पञ्चदश मुहूर्तानि शतभिषक्प्रभृतीनि नक्षत्राणि, यानि त्रिंशन्मुहूर्तानि धनिष्ठाप्रभृतीनि, यानि च पञ्चचत्वारिंशन्मुहूर्तान्युत्तरभद्रपदाऽऽदीनि, सर्वाण्यपि क्रमेण तावद्भणितव्यानि यावदुत्तराषाढा / तत्राभिलापः सुगमत्वात्स्वयं भावनीयः, गन्थगौरवभयान्न लिख्यत इति। (36) संप्रति ग्रहमधिकृत्य योगचिन्तां करोतिता जया णं चंदगतिसमावण्णं गहगतिसमावण्णे पुरच्छि