SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ जोइसिय 1606 - अभिधानराजेन्द्रः भाग - 4 जोइसिय च्छति? ताजं जं मंडलं उवसंकमित्ता चारं चरति तस्स तस्स मंडलपरिक्खेवस्स सत्तरस अट्ठठे भागा सते गच्छति, मंडलं सतसहस्सेणं अट्ठाण उतीए सतेहिं छेत्ता / ता एगमेगेणं मुहुतेणं सूरिए केवतियाइं भागसताइं गच्छति / ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स तस्स मंडलपरिक्खेवस्स अट्ठारस तीसे भागसते गच्छति, मंडलसतसहस्सेणं अट्ठाणउतिसतेहिं छेत्ता / ता एगमेगेणं मुहुत्तेणं णक्खत्ते केवतियाई भागसातइं गच्छति ? ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स तस्स मंडलस्स परिक्खेवस्स अट्ठारसपणतीसे भागसते गच्छति, मंडलं सतसहस्सेणं अट्ठाणवतिसतेहिं छेत्ता। " ता एगमेगेणं " इत्यादि।' ता' इति पूर्ववत्। एकैकेन मुहूर्तेन चन्द्रः कियन्ति मण्डलस्य भागशतानि गच्छति ? भगवानाह-" ताजं जं" इत्यादि यद्यमण्डलमुपसंक्रम्य चन्द्रश्चारं चरति, तस्य तस्य मण्डलस्य संबन्धिनः परिक्षेपस्य परिधेः सप्तदशशतान्यष्टषष्ठ्याधकानि भागाना गच्छति, मण्डलं मण्डलपरिक्षपमेके न शतसहस्रेणाष्टानवत्या च शौपिछत्त्वा विभज्य / इयमत्र भावना-इह प्रथमतश्चान्द्रमसो मण्डलकालो निरूपणीयः, तदनन्तरं तदनुसारेण मुहूर्तगतपरिमाणं भावनीयम् / तत्र प्रथममण्डलकालनिरूपणार्थमिद त्रैराशिकं यदि सप्तदशभिः शतैरष्टषष्ट्यधिकैः सकलयुगवर्तिभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानिलभ्यन्ते, ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकेन (मण्डलेनेतीति भाव) कति रात्रिन्दिवानिलभ्यन्ते ? राशित्रयस्थापना१७६८ | 1830 / 2 / अत्रान्त्येन राशिना द्विकलक्षणेन मध्यस्य राशेर्गुणनं, जातानिषटत्रिंशच्छतानिषष्ट्यधिकानि। 3660 / एतेषामाद्येन राशिना भागहरणं, लब्धे द्वे रात्रिन्दिवे, शेषं तिष्ठति चतुर्विशत्यधिक शतम्। 124 / तत्रैकैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्ता इति, तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि। 3720 / तेषां सप्तदशभिः शतैरष्टषष्ट्यधिकैर्भागे हृते लब्धौ द्वौ मुहूर्ता, ततः शेषश्छेद्यच्छेदकराश्योरष्टकेनापवर्तना, जातश्छेद्यो राशिस्त्रयोविंशतिः, छेदकराशि· शते एकविंशत्यधिके, आगता मुहूर्तस्यैकविंशत्यधिकशतद्वयभागास्त्रयोविंशतिः। एतावता कालेन द्वेऽर्द्धमण्डले परिपूर्ण चरति। किमुक्तं भवति ? एतावता कालेन परिपूर्णमक मण्डलं चन्द्रश्वरति। तदेवं मण्डलकालपरिज्ञानं कृतम् / साम्प्रतमेतदनुसारेण मुहूर्तगतिपरिमाणं चिन्त्यते-तत्र ये द्वे रात्रिन्दिवेते मुहूर्तकरणार्थं त्रिंशता गुण्येते, जाताः षष्टिमुहूर्ताः। ६०।तत उपरितनौ द्वौ मुहूर्ती प्रक्षिप्तौ, जाता द्वाषष्टिः / 62 / एषा सवर्णनार्थ द्वाभ्या / शताभ्यामेकविंशत्यधिकाभ्यां गुणयते, गुणयित्वा चोपरितना त्रयो विंशतिः क्षिप्यते, जातानि त्रयोदशसहस्राणि सप्तशतानि पञ्चविंशत्यधिकानि। 13725 / एतदेकमण्डलकालगतमुहूर्तसत्कैकविंशत्यधिकशतद्वयभागानां परिमाणं, ततस्त्रैराशिककर्मावसरः-यदि त्रयोदशभिः सहसैः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मण्डलभागा एकं शतसहस्रमष्टानवतिशतानि लभ्यन्ते, तत एकेन मुहूर्तेन किलभामहे ? राशित्रयस्थापना-१३७२५ / 106800 / 1 / इहाऽऽद्यो राशिमुहूर्तगतैकविंशत्यधिकशतद्वयभागरूपस्ततः सवर्णनार्थमन्त्यो राशिरेकलक्षणो द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, जाते द्वेशते एकविंशत्यधिके।२२१। ताभ्यां मध्यराशिगुण्यते, जाते द्वे कोटी द्विचत्वारिंशल्लक्षाः पञ्चषष्टिः सहस्राण्यष्टौ शता-नि। 24265800 / तेषां त्रयोदशभिः सहस्रैः सप्तभि शतैः पञ्चविंशत्यधिकै र्भागो ह्रियते, लब्धानि सप्तदशशतान्यष्टषष्ट्यधिकानि / 1768 / एतावतो भागान् यत्र तत्र एकमण्डले चन्द्रो मुहूर्तेन गच्छति।" ता एगमेगेणं इत्यादि' ता' इति पूर्ववत्। एकैकेन मुहूर्तेन सूर्यः कियन्ति भागशतानि गच्छति? भगवानाह-" ताजं जं' इत्यादि। यद्यन्मण्डलमुपसंक्रम्य सूर्यश्चारं चरति तस्य तस्य मण्डलसंबन्धिनः परिक्षेपस्य परिधेरष्टादशभागशतानि त्रिंशदधिकानि गच्छति, मण्डलं शतसहसेणाष्टानवत्या च शतैश्छित्त्वा / कथमेतदवसीयत इति चेत् ? उच्यतेवैराशिकबलात् तथाहि-यदि षष्ट्या मुहूर्तरिक शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते, तत एकैकेन मुहूर्तेन कति भागान् लभामहे ? राशित्रयस्थापना-६०।१०६८००।१।अत्रान्त्येन राशिना एकलक्षणेन मध्य-स्य राशेर्गुणनं, जातः सतावानेव।" एकेन गुणितं तदेव भवति " इति वचनात् / ततस्तस्याऽऽद्येन राशिना षष्टिलक्षणेन भागो ह्रियते, लब्धान्यष्टादशशतानि त्रिंशदधिकानि। 1830 / एतावतो भागान् मण्डलस्य सूर्य एकैकेन मुहूर्तेन गच्छति।" ता एगमेगेणं " इत्यादि।' ता ' इति पूर्ववत् / एकैकेन मुहूर्तेन क्रियतो भागान्मण्डलस्य नक्षत्रं गच्छति / भगवानाह- " ताज जं" इत्यादि / यद्यदात्मीयमाकालप्रतिनियतमण्डलमुपसंक्रम्य चारं चरति तस्या तस्याऽऽत्मीयस्य मण्डलसंबन्धिनः परिक्षेपस्य परिधेरष्टादशभागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैपिछत्त्वा / इहापि प्रथमतो मण्डलकालो निरूपणाव ततस्तदनुसारेणैव मुहूर्तगतपरिमाणभावना / तत्र मण्डलकालप्रमाणचिन्तायामिदं त्रैराशिकम् , यद्यष्टादशभिः शतैः पत्रिंशदधिकैः सकलयुगभविभिरर्द्धमण्डलैरष्टादशशतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते, ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकैकेन परिपूर्णेन (मण्डले-नेति भावः) किं लभामहे ? राशित्रयस्थापना- १८३५॥१८३०।२।अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातानिषट्त्रिंशच्छतानि षष्ट्यधिकानि।३६६०१तत आद्येन राशिना भागहरणम्। १८३५शलब्धमेकं रात्रिन्दिवम्। १।शेषाणि तिष्ठन्त्यष्टादशशतानि पक्षविंशत्यधिकानि / 1825 / ततो मुहूर्ताऽऽनयनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि चतुष्पञ्चाशत्सहस्राणि सप्तशतानि पञ्चाशदधिकानि। 54750 / तेषाभष्टादशभिः शतैः पञ्चत्रिंशदधिकै भाग हृते लब्धा एकोनत्रिंशन्मुहूत्तोः / 26 / ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्त्तनाः,जात उपरितनो राशिः, त्रीणि शतानि सप्तोत्तराणि। 307 / छेदकराशिः त्रीणि शतानि सप्तषष्ट्यधिकानि। 367 / तत आगतमेकं रात्रिन्दिवम् , एकस्य च रात्रिन्दिवस्यैकोनत्रिंशन्मुहूर्ताः, एकस्य च मुहूर्त्तस्य सप्तषष्ट्यधिकत्रिंशद्भागानां त्रीणि शतानि सप्तोत्तराणि / 26 / 307 / इदानीमेतदनुसारेण मुहूर्तगतिपरिमाणं चिन्त्यतेतत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः।३०। तेषूपरितना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते, जातानि एकोनषष्टिमुहूर्ताना, ततः सा सवर्णनाथ त्रिभिः शतैः सप्तषष्ट्यधिकैर्गण्यते, गुणयित्वा चोपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते, जातान्य -
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy