SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ जोइसिय 1605 - अभिधानराजेन्द्रः भाग - 4 जोइसिय अष्टानवत्यधिकसहस्रभागमानः 1068 / ततः सर्वाभ्यन्तरे मण्डले वर्तमान एकोऽपि सूर्यः षट्त्रिंशच्छतसंख्याना भागानामष्टानवत्यधिक सहस्रं प्रकाशयति, द्वितीयोऽप्यष्टानवत्यधिकं सहस्रम् , उभयमीलने एकविंशतिशतानि षण्णवत्यधिकानि 2166 प्रकाश्यमानानिलभ्यन्ते, तदा च द्वौ पञ्चचक्रवालभागौ रात्रिः / तद्यथा-एकतोऽपि पचमो भागो द्वात्रिंशदधिकसप्तशतभागसंख्या रात्रिः, परतोऽपि एकः पञ्चमो भागो द्वात्रिंशदधिकसप्तशतभागसंख्यौ रात्रिः, उभयमीलने चतुर्दशशतानि चतुःषष्ट्यधिकानि भवन्ति / 1464 / षष्ट्यधिकषत्रिंशच्छतभागाना रात्रिः, सर्वभागभीलने षट्त्रिंशच्छतानि षष्ट्यधिकानि भवन्ति। संप्रति तत्र दिवसरात्रिप्रमाणमाह- " तया णं " इत्यादि / तदाऽऽभ्यन्तरमण्डलचारकाले उत्तमकाष्ठां प्राप्तः परमप्रकर्षप्राप्त उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति / जद्यन्या द्वादश मुहूर्ता रात्रिः / ततो द्वितीये अहोरात्रे द्वितीयमण्डले वर्तमान एकोऽपि सूर्यो जम्बूद्वीपस्यैकं पञ्चमं चक्रवालभागं सार्द्धषष्ट्यधिकषत्रिंशच्छतभागसत्कभागद्वयहीनं प्रकाशयति / अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं सार्द्धषष्ट्यधिकषट्विंशच्छतभागद्वयहीनं प्रकाशयति / तृतीये अहोरात्रे तृतीये मण्डले वर्तमान एकोऽपि सूर्य एकं पञ्चमं चक्रवालभाग साढ़ें षष्ट्यधिकषत्रिंशच्छतभागसत्कभागचतुष्टयन्यूनं प्रकाशयति / अपरोऽप्येकं पञ्चमं चक्रवालभाग सार्द्धषष्ट्यधिकषत्रिंशच्छतभागसत्कभागचतुष्टयन्यून प्रकाशयति / एवं प्रत्यहोरात्रमेकैकः सूर्यः षष्ट्यधिकषट्त्रिंशच्छतभागसत्कभागद्वयमोचनेन प्रकाशयत् तावदवसेयो यावत्सर्वबाह्य मण्डलं सर्वाभ्यन्तरान्मण्डलात्परतस्त्र्यशीत्यधिकशततम, ततः प्रतिमण्डलं भागद्वयमोचनेन यदा सर्वबाह्ये मण्डले चरति, तदा त्रीणि शतानि षट्षष्ट्यधिकानि भागानां त्रुटयन्ति, त्र्यशीत्यधिकस्य शतस्य द्वाभ्यां गुणने एतावत्याः संख्याया भावात्। त्रीणि शतानि षट्षष्ट्यधिकानि पञ्चमचक्रवालभागस्य द्वात्रिंशदधिकसप्तशतभागप्रमाणस्यार्द्ध परिपूर्ण तत्र मण्डले त्रुट्यतीति एक एव परिपूर्णः पञ्चमचक्रवालभागस्तत्र प्रकाश्यः / तथा चाह-" ता जया ण " इत्यादि। तत्र यदा, णमिति पूर्ववत्। एतौ प्रवचनप्रसिद्धौ द्वावपि सूर्यो सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतः, तदा तौ समुदितौ जम्बुद्वीपस्य द्वौ चक्रवालपञ्चमभागौः अवभासयत उद्द्योतयत-स्तापयतःप्रकाशयतः। तद्यथा-एकोऽपि सूर्य | एकं पञ्चमं चक्रवालभागं प्रकाशयति / एकोऽपि अपरोऽपि, द्वितीयोऽपीत्यर्थः / एकं पञ्चमं चक्रवालभाग प्रकाशयति।" तया णं " इत्यादि। तदा सर्वबाह्यमण्डलचारकाले उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादश- / मुहूर्त्ता रात्रिः, जघन्यतो द्वादशमुहूर्तप्रमाणो दिवसः / इह यथा निष्क्रामतोः सूर्ययोर्जम्बूद्वीपविषयप्रकाशविधिः क्रमेण हीयमान उक्तः, तथा सर्वबाह्याद् मण्डलादभ्यन्तरं प्रविशतोःक्रमेण वर्द्धमानो वेदितव्यः / तद्यथा-द्वितीयस्य षण्मासस्य द्वितीये अहोरात्रे सर्वबाह्यान्मण्डलादक्तिनेऽनन्तरे द्वितीये मण्डले वर्तमान एकोऽपि सूर्य एकं जम्बूद्वीपस्य पञ्चमं चक्रवालभाग षष्ट्यधिकषट्त्रिंशच्छतसंख्यभागसत्कभागद्वयाधिकं प्रकाशयति। अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागंषष्ट्यधिकषटत्रिंशच्छतसंख्यभागसत्क-भागद्वयाधिकं प्रकाशयति / द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान् मण्डलादक्तिने तृतीये मण्डले वर्तमान एकं पञ्चमं चक्रचालभागषष्ट्यधिकषट्त्रिंशच्छतसंख्यभागसत्कभागचतुष्टयाधिकं प्रकाशयति / अपरोऽपि सूर्यः परत एक पशम चक्रवालभागं यथोक्तभागचतुष्टयाधिकं प्रकाशयति / एवं प्रतिमण्डल- | मेकैकः सूर्यः षष्ट्यधिकषत्रिंशच्छतभागसत्कभागद्वयवर्द्धनेन प्रकाशयत् तावदवमेयो यावत्सर्वाभ्यन्तरं मण्डलम्। तस्मिश्च सर्वाभ्यन्तरे मण्डले द्वितीयस्य पञ्चमचक्रवालभागस्यार्द्ध परिपूर्ण भवति / तत एकोऽपि सूर्यस्तत्र मण्डले एकं पञ्चमे चक्रवालभागं सार्द्ध जम्बूद्वीपस्य प्रकाशयत्यपरोऽप्येकं पञ्चमं चक्रवालभार्ग सार्द्धम् / तथा जम्बूद्वीपस्य दश भोगान् परिकल्प्यान्यत्राप्युक्तम्"छचेव चउदसभागे, जम्बूदीवस्स दो वि दिवसयरा। ताविति दित्तलेसा, अभिंतरमंडले संता॥ 1 // चत्तारिय दसभागे, जम्बूदीपस्स दो वि दिवसयरा। ताविति संतलेसा, बाहिरए मंडले संता॥२॥ छत्तीसे भागसए, सड्ढे काऊण जंबुदीवस्स। तिरियं तत्तो दो भा-गे वड्डइ व हायइ वा।। 3 / / " सू० प्र० 3 पाहु०। चं० प्र०1 (चन्द्रसूर्ययोर्दक्षिणोत्तरचाराः 'अ-यण' शब्दे प्रथमभागे 750 पृष्ठे द्रष्टव्याः) (34) अथ जम्बूद्वीपे चन्द्राऽऽदीनां चारक्षेत्रविष्कम्भ मानमाह- : दीवे असिइसयं जो-अणाण तीसहिअ तिन्नि सय लवणे। खित्तं पणसय दसऽहि अ, भागा अडयाल इगसट्ठी॥ 8 // द्वीपे जम्बूद्वीपे चन्द्रयोः सूर्ययोश्च क्षेत्रंचारक्षेत्रं विष्कम्भतोऽशीत्यधिक शतंयोजनानां 108, लवणे च त्रिंशदधिकानि त्रीणि शतानि योजनानाम 330 / उभयोर्मीलने दशाधिकानि पञ्चशतानि योजनानामष्टचत्वारिशचैकषष्टिभागा योजनस्य 510 / 48/61 / नक्षत्राणामपि चारक्षेत्रमेतदेव, सर्वाभ्यन्तरसर्वबाह्यमण्डलयोः परस्परं दशाधिकपञ्चशतयोजनप्रमाणान्तरालस्योक्तत्वात् / ग्रहाणां तारकाणां च चारक्षेत्रविष्कम्भमान व्यक्त्या शास्त्रेषु नोपलभ्यत इति। मं०। (35) (ज्योतिष्काणामल्पबहुत्वं' अप्पाबहुय' शब्दे प्रथमभागे 641 पृष्ठे जम्बूद्वीपप्रज्ञप्तिपाठतो गतार्थम् , न तत इह ग्रन्थान्तरपाठो वितन्यतेऽतस्तत एवावधार्यम्) / (36) संप्रति चन्द्रसूर्यग्रहनक्षत्रताराणां कः शीघ्रगतिर्भगव नाख्यात इति, ततस्तद्विषयं प्रश्नसूत्रमाहता कहं ते सिग्घगती वत्यु आहिते ति वदेज्जा ? ता एतेसि णं चंदिमसूरियग्गहगणनक्खत्ततारारूवाणं चंदेहिंतो सुरा सिग्घगती, सूरेहिंतो गहा सिग्घगती, गहेहिंतो णक्खत्ता सिग्घगती, णक्खत्तेहिंतो तारा सिग्घगती, सव्वऽप्पगती चंदा, सव्वसिग्धगती तारा। 'ता कह ते ' इत्यादि। 'ता' इति पूर्ववत् / कथं भगवन् ! त्वया चन्द्रसूर्याऽऽदिकं वस्तु शीघ्रगत्यात्मकं शीघ्रगति आख्यात इति वदेत् ? भगवानाह-" ता एएसिणं " इत्यादि। एतेषां चन्द्रसूर्यग्रहनक्षत्रतारकाणां पञ्चानां मध्ये चन्द्रेभ्यः सूर्याः शीघ्रगतयः, सूर्येभ्योऽपि ग्रहाः शीघ्रगतयः, ग्रहेभ्योऽपि नक्षत्राणि शीघ्रगतीनि, नक्षत्रेभ्योऽपि ताराः शीघ्रगतयः / अत एवैतेषां पञ्चानां सर्वाल्यगतयश्चन्द्राः, सर्वशीघ्रगतयस्ताराः। (37) एतस्यैवार्थस्य सविशेषपरिज्ञानाय प्रश्नं करोतिता एगमे गेणं मुहुत्तेणं चंदे के वतियाई भागसताइंग
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy