SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ जोइसिय 1604 - अभिधानराजेन्द्रः भाग - 4 जोइसिय के भेदेन प्रसिद्धो, यथा-सूर्यगत आतप इति, चन्द्रगतः प्रकाश इति, तथाप्यातपशब्दश्चन्द्रप्रभायामपि वर्तते / यदुक्तम्-" चन्द्रिका कौमुदी ज्योत्स्ना, तथा चन्द्रातपः स्मृतः।" इति। प्रकाशशब्दः सूर्यप्रभायामपि, एतच प्रायो बहुनां सुप्रतीतं, तत एतदर्थप्रतिपत्त्यर्थमुभवसाधारणं भूयोऽप्येकार्थिकद्यमाह-तापयन्ति प्रकाशयन्ति आख्याता इति / इहाऽऽर्षत्वात्तिवाद्यन्तपदेनापि सह नामपदस्य समन्वयो भवति। तत एवमर्थयोजना द्रष्टव्याकियत्क्षेत्रं चन्द्रसूर्या अवभासयन्त उद्द्योतय- / न्तस्तापयन्तः प्रकाशयन्त आख्याता भगवतेति भगवान् वदेत् ? एवं गौतमेनोक्ते भगवानेतद्विषयं परतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ता एवोन्यस्यति-"तत्थ "इत्यादि। तत्र चन्द्रसूर्याणां क्षेत्रावभासनविषये इमाः खलु द्वादश प्रतिपत्तयः परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः / तद्यथा-" तत्थ " इत्यादि / तत्र तस्या द्वादशानां परतीथिकानां मध्ये एक प्रथमास्तीर्थान्तरीया एवमाहुः-एक द्वीपमेकं समुद्र चन्द्रसूर्यो अवभासयन्तौ, उद्द्योतयन्तौ, तापयन्ती, प्रकाशयन्तौ। सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात्। उक्तंच-"बहुवयणे दुवयणं' इत्यादि। द्विवचनं चात्र तात्त्विकमवसेयम् , परतीर्थिकैरेकस्य चन्द्रमस एकस्य च सूर्यस्याभ्युपगमात् / संप्रति अस्यैव प्रथममतस्योपसंहारमाह- (एगे एवमाहसु) एवं सर्वाण्युपसंहारवाक्यानि भावनीयानि। 1 / एके द्वितीयाः पुनरेवमाहुः-त्रीन द्वीपान् त्रीन् समुद्रान् चन्द्रसूर्यो, अवभासयत उद्योतयतस्तापयतः प्रकाशयत इति। एवमुत्तरत्रापि द्रष्टव्यम् शतद्यथाएके पुनस्तृतीया एवमाहुः-(अद्धढे इति) अर्द्ध चतुर्थ येषां ते अद्धचतुर्थाः, त्रयः परिपूर्णाश्चतुर्थस्य चार्द्धमित्यर्थः। अर्द्धचतुर्थान् द्वीपान्, अर्द्धचतुर्थान् समुद्रात् चन्द्रसूर्याववभासयत इत्यादि प्राग्वत्। 3 / एके चतु-र्थाः पुनरेवमाहुःसप्त द्वीपान् सप्त समुद्रान् चन्द्रसूर्यायवभासयतः / 4 / एके पुनः पञ्चमाएवमाचक्षते-दश द्वीपान् दश समुद्रान् चन्द्रसूर्याववभासयतः / 5 / एके पुनः षष्ठा एवमभिदधतिद्वादश द्वीपान् द्वादश समुद्रान् चन्द्रसूर्याववभासयतः। 6 / एके पुनः सप्तमा एवं भाषन्तेद्विचत्वारिंशतं द्वीपान् द्विचत्वारिंशतं समुद्रान् चन्द्रसूर्या-ववभासयतः।७। एके पुनरष्टमा एवमाहुः-द्वासप्तति द्वीपान् द्वासप्ततिं समुद्रान्चन्द्रसूर्याववभासयतः। 8 / एके पुनर्नवमा एवमाहुः-द्विचत्वारिंशदधिकं द्वीपशतं द्विचत्वारिंशदधिक समुद्रशतं चन्द्रसूर्याववभासयतः / 6 / एके पुनदर्शमा एवं जल्पन्तिद्वासप्ततिं द्वासप्तन्यधिकं द्वीपशतं द्वासप्तत्यधिकं समुद्रशतं चन्द्रसूर्याववभासयतः।१०। एकेएकादशाः पुनरेवमाहुः-द्वाचत्वारिंशद्वाचत्वारिंशत्यधिक द्वीपसहसं द्वाचत्वारिंशत्यधिकं समुद्रसहसं चन्द्रसूर्याववभासयतः।११। एके द्वादशाः पुनरेवमाहुःद्वासप्ततिद्वासप्तत्यधिक द्वीपसहस्र द्वासप्तत्यधिकं समुद्रसहस्त्रं चन्द्रसूर्याववभासयतः / 12 / एताश्च सर्वा अपि प्रतिपत्तयो मिथ्यारूपाः, तथा च भगवानेता व्युदस्य स्वमतं भिन्नमेव कथयतिवयं पुण एवं वदामो-ता अयं णं जंबुद्दीवे दीवे सव्यदीवसमुदाणं० जाव परिक्खेवेणं पण्णत्ते / से णं एगाए जगतीए सव्वतो समंता संपरिक्खेवे साणं जागतीतहेव जहा जंबुद्दीवपन्नत्तीए० जाव एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोहससलिलासतसहस्सा छप्पन्नं च सलिलासहस्सा भवंतीति मक्खाता, जंबुहीवे णं दीवे पंच चक्कभागं संठिता आहिता ति वदेजा। ता कहं जंबुद्दीवे दीवे पंचचक्कभागसंठिते आहिता ति वदेज्जा ? ताजता णं एते दुवे सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरंति, तदा णं जंबुद्दीवस्स दीवस्स तिण्णि पंचचक्कभागे ओभासंति, उज्जोति,तवेंति, पभासेंति तं एगे वि एगं दिवळ पंचचक्कभार्ग ओभासेंति एके, एगे विएगंदीवन पंचचक्कभागं ओभासेत्ति एकं / तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवइ, ता जता णं एते दुवे सूरिया सव्वबाहिरमंडलं उवसंकमित्ता चारं चरति, तदा णं जंबुद्दीवस्स दीवस्सदोण्णि पंचचक्कभागं ओभासंति, उज्जोर्वेति, तवेंति, पगासेंति / तं एगे वि एणं पंचचक्कभागं ओभासति, उज्जोवेइ, तयेइ, पगासेइ, एगे वि एकं पंचचकभागं ओभासेइ एकं, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारस मुहुत्ता राई भवति, जह-प्रणए दुवालसमुहुत्ते दिवसे भवति। 'वयं पुण' इत्यादि / वयं पुनरुत्पन्नकेवलचक्षुषः केवलचक्षुषा यथाऽवस्थितं जगदुपलभ्य, एवं वक्ष्यमाणप्रकारेण वदामः / तमेव प्रकारमाह- "ता अयं णं " इत्यादि। अत्र (जहा जंबुद्दीवपन्नतीए त्ति) यथा जम्बूद्वीपप्रज्ञप्तौ- " अयं णं जंबुद्दीवे दीवे '' इत्यारभ्य यावत्" एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दससलिलासयसहस्साइंछप्पन्नंच सलिलासहस्सा भवंतीति मक्खायं " इत्युक्तम् / तथा एतावद्ग्रन्थसहस्रचतुष्टयप्रमाणमत्रापि वक्तव्यं, परं ग्रन्थगौरवभयान्न लिख्यते, केवलं जम्बूद्वीपप्रज्ञप्तिपुस्तकमेव निरीक्षणीयमिति / अयमेवरूपो जम्बूद्वीपः पञ्चसंख्योपेतैश्चक्रभागैश्चक्रबालभागैः संस्थित आख्यातो मया इति वदेत्स्वशिष्याणां पुरतः / एवमुक्ते भगवान् गौतमः स्वशिष्याणां स्पष्टावबोधार्थं भूयः पृच्छति-" ता कहं " इत्यादि / ' ता ' इति पूर्ववत् / कथं भगवन् ! त्वया जम्बूद्वीपो द्वीपः पञ्चचक्रभागसंस्थित आख्यात इति वदेत् ? भगवानाह-" ता जया णं " इत्यादि। 'ता' इति पूर्ववत्। यदा णमिति वाक्यालङ्कारे, एतौ प्रवचनवेदिनां प्रसिद्धौ द्वौ सूर्यो सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरतः, तदा तौ समुदितौ द्वावपि सूर्यो जम्बूद्वीपस्य त्रीन पञ्चचक्रवालभागान् अवभासयतः, उद्योतवतः, तापयतः, प्रकाशयतः / कथं प्रकाशयतः ? इति परप्रश्नावकाशमाशङ्कय एतदेव विभागत आह-" एगे वि" इत्यादि / एकोऽपि सूर्यो जम्बुद्वीपस्य द्वीपस्य एकं पञ्चमं चक्रबालभार्गव्य मिति द्वितीयमद्धेयस्य स व्यर्द्धः पूरणार्थो वृत्तावन्तर्भूतो, यथातृतीयो भागस्विभाग इत्यत्र, तम्। अयं च भावार्थ:- एकपञ्चमं चक्र बालभागं द्वितीयस्य पञ्चशमस्य चक्रबालभागस्यार्द्धन सहितं प्रकाशयति / तथा एकोऽपि अपरोऽपि, द्वितीयोऽपीत्यर्थः / एकं पञ्चमं चक्रयालभाग द्वयर्द्ध प्रकाशयतीति, उभयप्रकाशितभागमीलने परिपूर्ण भागत्रयं प्रकाश्यं भवति। इयमत्र भावना जम्बूद्वीपगतं प्रकाश्यं चक्रबालं षष्ट्यधिकषत्रिंशच्छतभागं कल्य्यते 3660 / तस्य पञ्चमो भागो द्वात्रिंशदधिकसप्तशतप्रमाणः 732, सार्द्धः सन्
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy