________________ जोइसिय 1600 - अभिधानराजेन्द्रः - भाग 4 जोइसिय अत्रा (समचउकोणसंठिय त्ति) समाश्चत्वारः कोणा यत्रा तत् समचतुष्कोणं, समचतुष्कोण संस्थितं संस्थानं यस्याः सा तथेति विग्रहः 3 / (विसमचउक्कोणसं ठिय त्ति) विषमाश्चत्वारः कोणा यत्र तद्विषमचतुष्कोणं, तत्संस्थितं संस्थानं यस्याः चन्द्रसूर्यसंस्थितेः सा | तथा, अन्येषमभिप्रायेण वक्तव्या। सा चैवम् - "एगे पुण एवमाहंसुविसमचउक्कोणसंठिया चंदमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु" 4 / (समचक्कवालसठिय त्ति) समचक्रवालं समचक्रवालरूपं संस्थितं संस्थान यस्याः सा तथा / अपरेषामभिप्रायेण चन्द्रसूर्यसंस्थितिर्वक्तव्या। सा चैवम्- 'एगे पुण एवमाहंसुसमचक्षवालसंठिया चंदिसूरियसंठिईपण्णत्ता, एणे एवमाहंसु" 5 / (विसमचक्कवालसंठिय त्ति) विषमचक्रवालं विषमचक्रवालरूपं संस्थितं संस्थानं यस्याः सा तथा। अन्येषां मतेन चन्द्रसूर्य संस्थितिर्वक्तव्या।सा चैवम् - "एगे पुण एवमाहंसुविसमचक्कवालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' 6 / (चक्कनचक्कवालसंठिय त्ति) चक्रस्य रथाङ्गस्य यदर्द्धचक्रवालं चक्रवालस्यार्द्ध तद्रूपं संस्थितं संस्थानं यस्याः सा तथा, अन्येषामभिप्रायेण वक्तव्या। सा चैवम् - "एगे पुण एवमासु चक्कद्धचक्कवालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु"७। “एगे पुण'' इत्यादि। एके पुनराहु :-छत्राऽऽकारसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता। अत्रैवोपसंहार :- ''एगे एवमाहंसु" 8 / (गेहसंठियत्ति) गेहस्येव वास्तुविद्योपनि बद्धस्येव संस्थितं संस्थान यस्याः सा तथा। अपरेषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्या। सा चैवम्"एगे पुण एवमाहंसु गेहसंठिया चंदमसूरिसंठिई पन्नत्ता, एगे एवमाहंसु" 6 / (गेहावणसंठिय ति) गृहयुक्त आपणो गृहाऽऽपणो वास्तुविद्या प्रसिद्धः, तस्येव संस्थितं संस्थानं यस्याः सा तथा। अन्येषामभिप्रायेण वक्तव्या। सा चैवम् - "एणेपुण एवमाहंसुगेहावणसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु" 10 / (पासायसंठिय त्ति) प्रासादस्येव संस्थितं संस्थान यस्याः सा तथा, अन्येषामभिप्रायेण वक्तव्या। सा चैवम् "एगे पुण एवमाहंसु पासायसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु“११ / (गोपुरसंठिय त्ति) गोपुरस्येव संस्थितं संस्थानं यस्याः सा तथा, अन्येषां मतेनाभिधातव्या / सा चैवम् - “एगे पुण एवमाहंसु - गोपुरसंठिया चंदिमसूरियसंठिई पन्नत्ता, एणे एवमाहसु' 12 / (पेच्छाघरसंठिय त्ति) प्रेक्षागृहस्येव वास्तुविद्याप्रसिद्धस्य संस्थितं संस्थानं यस्याः सा तथा, अपरेषां मतेनाभिधातव्या। तद्यथा- "एगे पुण एवमाहंसु पिच्छाघरसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु' 13 (बलभीसंठिय ति) वलभ्या इव ग्रहाणामाच्छादनस्येव संस्थितं संस्थानं यस्याः सा तथा / अन्येषां मतेनाभिधातव्या / साचैवम् - "एगे पुण एवमाहंसु-- वेलभीसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु" 14 / (हम्मियतलसंठियत्ति) हयं धनवतां गृहं, तस्य तलमुपरितनो भागस्तस्येव संस्थितं संस्थानं यस्याः सा तथा, अपरेषामभिप्रायेण वक्तव्या। सा चैवम् - “एगे पुण एवमासुहम्मियतलसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु 15 (बालग्गपोत्तियासंठियत्ति) बालाग्रपोतिकाशब्दो देशीशब्दत्वादाकाशे तडागमध्ये व्यवस्थितक्रीडास्थानलघुप्रासादमाह, तस्या इव संस्थितं संस्थानं यस्याः सा तथा, अपरेषां मतेन | अभिधानीया / तद्यथा - "एगे पुण एवमाहंसु बालग्गपोत्तियासंठिया चदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु 16 / तदेवमुक्ताः परतीथिकानां प्रतिपत्तयः, एतासां च मध्ये या प्रतिपत्तिः समीचीना तामुपदर्शयति- "तत्थ" इत्यादि। तत्रा तेषां षोडशानां परतीथिकानां मध्ये ये ते वादिन एवमाहु :- समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता इति, एतेन नयेन नेतव्यम् -एतेनाभिप्रायेणास्मिन्मतेऽपि चन्द्रसूर्यसंस्थितिरव-धायेंति भावः। तथाहि-इह सर्वेऽपि कालविशेषाः सुषमाऽऽदयो युगमूला युगस्य वा चाऽऽदौ श्रावणे मासि बहुलपक्षप्रतिपदि प्रातरुदयसमये एकः सूर्यो दक्षिणपूर्वस्यां दिशि वर्त्तते, तद् द्वितीयस्त्वपरोत्तरस्याम्, चन्द्रमा अपि तत्समये एको दक्षिणापरस्यां दिशि वर्त्तते, द्वितीय उत्तरपूर्वस्याम्, अत एते युगस्याऽऽदी चन्द्रसूर्याः समचतुरससंस्थिता वर्तन्ते, यत्वत्रा मण्डलकृतं वैषम्य, यथा-सूर्यो सर्वाभ्यन्तरे मण्डले वर्तेते, चन्द्रमसौसर्वबाह्ये इति तदल्पमिति कृत्वान विवक्ष्यते। तदेवं यतः सकलकालविशेषाणां सुषमसुषमाऽऽदिरूपाणामादिभूतस्य युगस्याऽऽदौ समचतुरस्रसंस्थिताः सूर्याचन्द्रमसौ भवन्ति, ततस्तेषां संस्थितिः समचतुरस्त्रसंस्थानोपवर्णिता, अन्यथा वा संप्रदाय समचतुर ससंस्थितिः परिभावनीयेति। (नो चेवणं इयरेहिं ति) नो चैवनैव, इतरैः शेषेर्नयैश्चन्द्रसूर्यसंस्थितितिव्या, तेषां मिथ्या रूपत्वात्। तदेवमुक्ता चन्द्रसूर्यसंस्थितिः / सू० प्र०४ पाहु० / चं० प्र० / जं०। जी० / (चन्द्रधिमानाऽऽदीनां संस्थानाऽऽदि 'जोइसियविमाण' शब्देऽग्रे वक्ष्यते) (26) संप्रति चन्द्राऽऽदित्यचारा वक्तव्या इति, ततस्तद्विषय प्रश्नसूत्रमाहता कहं ते चारा अहिता ति वदेजा ? तत्थ खलु इमा दुविहा चारा पण्णत्ता / तं जहा-आदिचचारा य, चंद चारा य। "ता कह ते'' इत्यादि / 'ता' इति पूर्ववत्, कथं केन प्रकारेण किंप्रमाणया संख्यया ? इत्यर्थः / चारा आख्याता इति वदेत् ? भगवानाह - "तत्थ'' इत्यादि। ता चारविचारविषये खल्विमे वक्ष्यमाणस्वरूपा द्विविधा द्विप्रकाराश्चाराः प्रज्ञप्ताः / द्वैविध्यमेवाह - तद्यथाआदित्यचाराश्चन्द्रचाराश्च / चशब्दौ परस्परसमुच्चये। तत्र प्रथमतश्चन्द्रचारपरिज्ञानार्थं तद्विषयं प्रश्नसूत्रामाहता कहं ते चंदचारा आहिते ति वदेञ्जा? तापंचसंवच्छरिए णं जुगे अभिइणक्खत्ते सत्तसहिचारे चंदेण सद्धिा जोयं जोएंति। "ता कह ते' इत्यादि। 'ता' इति प्राग्वत्, कथं केन प्रकारेण, कया संख्यया ? इत्यर्थः / त्वया भगवन् / चन्द्रचारा आख्याता इति वदेत् ? भगवानाह - "ता पंच'' इत्यादि। पञ्चसांवत्सरिके चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवद्धितरूप पञ्चसंवत्सरप्रमाणे, णमिति वाक्यालङ्कारे, युगेऽभिजिन्नक्षत्र सप्तषष्टिचारान् यावत् चन्द्रेण सार्द्ध योगं युनक्ति योगमुपपद्यते / किमुक्तं भवति ? चन्द्रोऽभिजिन्नक्षत्रोण सह संयुक्तो युगमध्ये सप्तषष्टिसंख्यान् चारान् चरतीति। कथमेतदवसीयते इति चेत् ? उच्यते - इह योगमधिकृत्य सकलनक्षत्रामण्डली परिसभाप्तिरेकेन नक्षत्रामासेन भवति, नक्षत्रामासाश्च युगमध्ये सप्तषष्टिः एतच्चाने भाव--