________________ जोइसिय 1566 - अभिधानराजेन्द्रः - भाग 4 जोइसिय "ता कहं ते' इत्यादि / 'ता' इति पूर्ववत् / कथं केन प्रकारेण चन्द्राऽऽदीनामनुभावः स्वरूपविशेष आख्यात इति वदेत् ? एवमुक्ते भगवानाह - एतद्विषये द्वे प्रतिपत्ति / ते उपदर्शयात - "तत्थ खलु'' इत्यादि / तत्र चन्द्राऽऽदीनामनुभावविषये खल्विमे द्वे प्रतिपत्ती परतीर्थिकाभ्युपगमरूपे प्रज्ञप्ते। तद्यथा-"तत्थेगे'' इत्यादि। तत्रा तेषां द्वयानां परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः- (ता इति) तेषां परतीर्थिकानां प्रथमं स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थ | चन्द्रसूर्याः, णमितिवाक्यालङ्कारः, नो जीवा जीवरूपाः, किं त्वजीवाः। तथा नो घनानि निविडप्रदेशोपचमाः, किं तु शुषिराः / तथा बादरवोन्दिरधराः प्रधानसुजीवसुव्यक्तावयवशरीरोपेताः, किं तु कलेवराः कलेवरमात्रास्तथा नास्ति, णमिति वाक्यालङ्कारे, तेषां चन्द्राऽऽदीनाम्, उत्थानमूर्तीभवनम्, इतिरुपदर्शने, वाशब्दो विकल्पे, समुचये वा। कर्म उतक्षेपणावक्षेपणादि, बलं शारीरप्रमाण, वीर्यमान्तरोत्साहः, (पुरिसक्कारपरक्कमे इति) पुरुषकारः पौरुषाभिमानः, पराक्रमः स एवासाधिताभिमतप्रयोजनः / पुरुषकारश्च पराक्रमश्च पुरुषकारपराक्रममिति। वाशब्दः सर्वत्रापि पूर्ववत्। तथा ते चन्द्राऽऽदित्याः (नो विजुयं लवंति ति) न विद्युतं प्रवर्त्तयन्ति, नाप्यवशनि विद्युद्विशेषरूपं, नापि गर्जितं मेघध्वनि, किं तु ''अहे णं' इत्यादि / चन्द्राऽऽ दित्याऽऽदीनामधो, णमिति पूर्ववत् / बादरो वायुकायिकः संमूर्च्छति, अधश्च बादरो वायुकायिकाः संमूच्छर्य, (विजु पिलवइत्ति) विद्युतमपि प्रवर्तयन्ति, अशनिमपि प्रवर्तयन्ति, गर्जितमपि प्रवर्तयन्ति, विद्युदादिरूपेण परिणमन्ति इति भावः / अत्रोपसंहारमाह - (एगे एवमाहसु)१। एके पुनरेवमाहुः-'ता' इति प्राग्वत्। चन्द्रसूर्याः, णमिति वाक्यालङ्कारे, जीवा जीवरूपाः, न पुनरजीवाः, यथाऽऽहुः परतीर्थिकाः, तथा घनाः, न शुषिराः, तथा बादरवोन्दिधराः, न कलेवरमात्राः, तथा अस्ति तेषाम्, "उट्ठाणे इति वा' इत्यादि पूर्ववत् व्याख्येयम् / (ते वि विजु पि लवंति) विद्युतमपि प्रवर्त्तयन्ति, अशनिमपि प्रवर्त्तयन्ति, गर्जितमपि प्रवर्तयन्ति। किमुक्तं भवति ? विद्युदादिक सर्वचन्द्राऽऽदित्याः प्रवर्तन्त इति। अत्रोपसंहारमाह-(एगे एवमाहंसु)२॥ एवं परतीर्थिकप्रतिपत्तिद्वयमुपदी संप्रति भगवान् स्वमतं कथयति - "वयं पुण'' इत्यादि। वयं पुनरेवं वदामः / कथं वदथ? इत्याह - 'ता' इति पूर्ववत्, चन्द्रसूर्याः, णमिति वाक्यालाङ्कारे, देवा देवस्वरूपाः, न सामान्यतो जीवमात्राः / कथंभूतास्ते देवाः ? इत्याह-महर्द्धिकाः महती ऋद्धिर्विमानपरिवाराऽऽदिका येषां ते तया (०जाव महाणुभावा इति) यावत्करणात् - ''महज्जुइया महाबला महाजसा महेसक्खा'' इति द्रष्टव्यम् / तत्र महती द्युतिः शरीरा ऽऽभरणविषया येषां ते महाद्युतयः। तथा महद् बलं शारीरप्रमाणं येषां ते महाबलाः, तथा महद् यशः ख्यातिर्येषां ते महायशसः, तथा महेश इति महान् इश ईश्वर इत्याख्या येषां ते महेशाख्याः / क्वचित्, "महासोक्खा' इति पाठः / तत्र महत्सौख्यं येषां ते महासौख्याः / तथा महाननुभावो विशिष्टवैक्रियकरणाऽऽदिविषया अचिन्त्या शक्तिर्येषां ते महानुभावाः, वरवस्वधराः वरमाल्यधरा वराभरणधारिणः, अव्यवच्छित्तिनयार्थतया द्रव्यास्तिकनयमतेन, अन्ये पूर्वोत्पन्ना स्वायुःक्षयं व्यवन्ते, अन्ये तूत्पद्यन्ते। सू० प्र०२०पाहु०। (ज्योतिष्काणां कामभोगौ कामभोग' शब्दे तृतीयभागे 442 पृष्ठे द्रष्टव्यौ) (28) संप्रति चन्द्रसूर्ययोः संस्थानमभिधिस्तुः क्रबं श्वेततायाः संस्थितिराख्यातेति ततस्तद्विषयं प्रश्नसूत्रामाहता कहं ते सेअआए संठिती आहिता ति वदेज्जा ? तत्थ खलु इमा दुविहा संठिती पण्णत्ता। तं जहा-चंदिमसुरियसंठिती,य तावक्खेत्तठितीय।ता कहं ते चंदिमसूरियासंठिती आहिता ति वदेज्जा ? तत्थ खलु इमातो सोलस पडिवत्तीओ पण्णत्ताओ। तत्थेगे च एवमाहंसु-ता समचउरं ससंठिता चंदिमसूरियसंठिती पण्णत्ता, एगे एवमाहंसु 1 / एगे पुण एवमाहंसु-ता विसमचउरं ससंठिता चंदिमसूरियसंठिती पन्नत्ता / एवं समचउक्कोणसंठिता 3 विसमचउक्कोणसंठिया 4 समचकवालसंठिता 5 विसमचकवालसंठिता 6 चक्कद्दूचक्कवालसंठिता, एगे एवमाहंसु 7 / एगे पुण एवमाहंसु-ताछत्तागारसंठिता चंदिमसूरियसंठिती पण्णत्ता 8, गेहसंठिता 6, गेहावणसंठिता 10, पासादसंठिता 11 गोपुरसंठिया 12 पेच्छाघरसंठिता 13 वलभीसंठिता 14 हम्मियतलसंठिता 15 बालग्गपोत्तियासंठिता चंदिमसूरियसंठिती पण्णत्ता 16 / तत्थ जे ते एवमाहंसु -ता समचउरंससंठिता चंदिमसूरियंठिती पण्णत्ता, एतेणं णएणं णेतव्या, णो चेवणं इतरेहिं। "ता कहं ते सेअआए संठिई आहिया ति वदेजा?" 'ता' इति पूर्ववत् / कथं भगवन् ! त्वया श्वेततायाः संस्थितिराख्याता इति भगवान् वदेत् ? एवं भगवता गौतमेनोक्ते वर्द्धमानस्वामी भगवानाह- "तत्थ" इत्यादि। तत्र श्वेतताया विषये खल्वियं वक्ष्यमाणस्वरूपा द्विविधा संस्थितिः प्रज्ञप्ता। तामेव तद्यथेत्यादिनोपदर्शयति। तद्यथेत्यत्रा तच्छन्दोऽव्ययम्। ततोऽयमर्थः- सा श्वेतता यथा येन प्रकारेण द्विविधा भवति तथोपदय॑ते - चन्द्रसूर्यसंस्थितिस्तापक्षेत्रसंस्थितिश्च / इह श्वेतता चन्द्रसूर्यविमानानामपि विद्यते, तत्कृततापक्षेत्रस्य च, ततः श्वेततायोगादुभयमपि श्वेतताशब्देनोच्यते / तेनोक्तप्रकारेण श्वेतता द्विविधा भवति / तत्र चन्द्रसूर्यसंस्थितिविषये प्रश्नयति- "ता कहं ते " इत्यादि। 'ता' इति प्राग्वत्। कथं ते त्वया भगवन् ! चन्द्रसूर्यसंस्थितिराख्याता इति वदेत् ? इह चन्द्रसूर्यविमानाना संस्थानरूपा संस्थितिः प्रागेवाभिहिता, तत इह चन्द्रसूर्याणा संस्थितिश्चतुर्णामपि अवस्थानरूपा द्रष्टव्या / एवमुक्ते भगवानेतद्विषये यावन्त्यः परतीथिकानां प्रतिपत्तयस्तावतीरुपदर्शयति - "तत्थ" इत्यादि। तत्रा चन्द्रसूर्यसंस्थितौ विचार्यमाणायां खल्विमाः षोडश प्रतिपत्तयः प्रज्ञप्ताः / तद्यथा-एके वादिन एवमाहु :समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता। समचतुरस्र संस्थितं संस्थान यस्याश्चन्द्रसूर्यसंस्थितेः सा तथा। अौवोपसंहार वाक्यमाह - ''एगे एवमाहसु 1" / एवं सर्वत्रापि प्रत्येकमुपसंहारवाक्यं द्रष्टव्यम्। एकेपुनरेवमाहुः-विषमचतुरस्त्रसंस्थिता चन्द्रसूर्यस्थितिराख्याता / अत्रापि विषमचतुरस्र संस्थितं संस्थानं यस्याः सा तथेति विग्रहः 2 / (एवं समचउक्कोणसंठिय त्ति) एवमुक्तेन प्रकारेणापरेषामभिप्रायेण समचतुष्कोणसंस्थिता चन्द्रसूर्यसंस्थितिर्वक्तव्या। सा चैवम् 'एग पुण एवमाहसुसमचउकोणसंठिया चेदिमसुरियसठिई पण्णत्ता, एगे एवमाहंसु।"