________________ जोइसिय 1597 - अभिधानराजेन्द्रः - भाग 4 जोइसिय से कहमिदाणिं पकरेंति, ताजाव चत्तारि पंच सामाणिया देवा तं ठाणं तहेव० जाव छम्मासे / ''ता बहिया ण' इत्यादि प्रश्नसूत्रामिद प्राग्वव्याख्येयम्। भगवानाह - "ता ते णं'' इत्यादि / 'ता' इति पूर्ववत् / ते मनुष्यक्षेत्राद् बहिर्वर्तिनश्चन्द्राऽऽदयो देवा नोझैपपन्नाः, नापि कल्पोपन्नाः, किं तु विमानोपपन्नाः। तथा नो चारोपपन्नाश्चारयुक्ताः, किंतु चारस्थितिकाः। अत एव नो गतिरतयो, नापि गति समापन्नकाः, पकेष्टकासंस्थानसंस्थितिभिर्योजनशतसाहसिकैरातपक्षेत्रौर्यथा पकेष्टका आयामतो दीर्घा भवति, विस्तारतस्तु स्तोका, चतुरस्रा च, तथा तेषामपि मनुष्यक्षेत्रावहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतोऽनेकयोजनशत सहस्रप्रमाणानि, विस्तरत एकयोजनशतसहस्राणि, चतुरस्राणि चेति / तैरित्थंभूतैरातपक्षेत्रौः शतसाहस्रिकाभिरनेकसहससंख्याभिर्वाह्याभिः पर्षद्भिः, अत्रापि बहुवचनं व्यक्तयपेक्षया / महतेत्यादि पूर्ववत् / दिवि भवान् दिव्यान्, भोगभोगान् भोगार्हान् शब्दाऽऽदीन् भोगान्, भुञ्जाना विरहन्ति / कथंभूताः ? इत्याह शुभलेश्याः। एतच विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः, किं तु सुखोत्पादपरमलेश्याका इत्यर्थः / मन्दा लेश्या रश्मिसंघातो येषां ते तथा / कथंभूताश्चन्द्राऽऽ दित्याः ? इत्याह-चित्रान्तरलेश्याःचित्रामन्तरं लेश्या च येषां ते तथा / भावार्थश्चास्य पदस्य प्रागेवोपदर्शितः / तत इत्थंभूताश्चन्द्राऽऽदित्याः परस्परमवगाढाभि लेश्याभिः / तथाहि-चन्द्रमसा सूर्याणां च प्रत्येक लेश्या योजनशतसहस्रप्रमाणं, विस्तारश्चन्द्रसूर्याणां च सूचीपङ्क्तया व्यवस्थितानां परस्परमन्तरं पञ्चाशयोजनसहस्राणि। ततश्चन्द्रप्रभासंमिश्राः सूर्यप्रभाः, सूर्यप्रभासंमिश्राश्चन्द्रप्रभाः, इत्थं परस्परमवगाढाभिर्लेश्याभिः, कूटानि च पर्वतोपरि व्यवस्थितशिखराणीव स्थानस्थिता सदैव एकत्र स्थाने स्थिताः, तान् प्रदेशान् स्वस्वप्रत्यासन्नान् अवभासयन्ति, उद्योतयन्ति, तापयन्ति, प्रकाशयन्ति।" ता तेसिंण जाहे इंदे चयति' इत्यादि प्राग्वद् व्याख्येयम् / सू० प्र० 16 पाहु० / जी०। चं० प्र०। (24) संप्रति चन्द्रसूर्यायोंश्च्यवनोपपातौ वक्तव्याविति ततस्त द्विषयं प्रश्नसूत्रमाहता कइंते चवणोववाते आहिए ति वदेज्जा? तत्थ खलुइमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ। तत्थ एगे एवमाहंसु ता अणुसमयमेव चंदिमसूरिया अण्णे चयंति, अण्णे उववज्जंति, आहिय त्ति वएज्जा, एगे एवमाहंसु / एगे पुण एवमाहंसु-ता अणुमुहुत्तमेव चंदिमसूरिया अण्णे चयंति, अण्णे उववअंति, आहिय त्ति वएज्जा, एगे एवमाहंसु जहेव हेट्ठा तहेव० जाव ता एगे पुण एवमाहंसुता अणु ओसप्पिणीउस्सप्पिणीमेव चंदिमसूरिया अण्णे चयंति, अण्णे उववज्जंति, एगे एवमाहंसु / वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्डिया महाजुईया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थमल्लधरा वरगंधधरा वराभरणधारी अव्वोच्छि-त्तिणयट्ठआए अण्णे चयंति, अण्णे उववजंति, आहिय त्ति वएज्जा। "ता कहं ते' इत्यादि। 'ता' इति पूर्ववत्। कथं केन प्रकारेण भगवन् ! | त्वया चन्द्राऽऽदीनां च्यवनोपपातौ व्याख्याताविति वदेत ? सूत्रो च द्वित्वेऽपि बहुवचनं प्राकृतत्वात्। उक्तं च-"बहुवयणेण दुवयणं" इति। एवं प्रश्ने कृते भगवानेतद्विषये यावन्त्यः प्रतिपत्तयः सन्ति तावतीरुपदर्शयति - "तत्थ'' इत्यादि / तत्रा च्यवनोपपातविषये खल्विमा वक्ष्यमाणस्वरूपाः पञ्चविंशतिः प्रतिपत्तयः परतीर्थकाभ्युपगमरुपाः प्रज्ञप्ताः। तद्यथा-"तत्थेगे' इत्यादि। तेषां पञ्चविंशतिपरतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः- 'ता' इति / तेषां प्रथम स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थम्, अनुसमयमेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्च्यवन्ते च्यवमानाः, अन्ये अपूर्व उत्पद्यन्ते उत्पद्यमाना आख्याता इति वदेत् / अत्रोपसंहारमाह - 'ता' एके एवमाहुः / एके पुनरेवमाह :-- अनु मुहूर्तमेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्च्यवन्ते च्यवमानाः, अन्येऽपूर्वा उत्पद्यन्ते उत्पद्यमाना आख्याता इति वदेत्। उपसंहारमाह - "एगे एवमाहसु जहा हिट्टा तहेव० जाव'' इत्यादि। एवमुक्तेन प्रकारेण यथा अधस्तात् षष्ठे प्राभृते ओजः संस्थिती चिन्त्यमानायां पञ्चविंशतिप्रतिपत्तय उक्तास्तथैवात्रापि वक्तव्याः / ता अणुओसप्पिणिउस्सप्पिणीमेव'' इत्यादि चरमसूत्राम् / ताश्चैव भणितव्याः - "एगे पुण एवमाहसु--ता अणुराइदियमेव चंदिमसूरिया अन्ने चयंति, अन्ने उववजंति, आहिया इति वएजा, एगे एवमाहसु 3 / एगे पुण एवमासु-साणुपक्खमेव चंदिमसूरिया अन्ने चयंति, अन्ने उववजंति, आहिया इति वएज्जा, एगे एवमाहंसु ४ाएगेपुणएवमाहंसु-ता अणुसमयमेव चदिमसूरिया अन्ने चयंति, अन्ने उववजंति, आहिय त्ति वएज्जा, एगे एवमाहसु 5 / एगे पुण एवमाहंसु--ता अणुउउमेव चंदिमसूरिया अन्ने चयंति, अन्ने उववजति, आहिय त्ति वएज्जा, एगे एवमाहंसु६।एवंता अणुअयणमेव 7 / ता अणुसंवच्छरमेव च / ता अणुजुगमेव / ता अणुवाससयमेव 10 / ता अणुवाससहस्समेव 11 / ता अणुवाससयसहस्समेव 12 / ता अणुपुव्वमेव 13 / ता अणुपुव्वसयमेव 14 / ता अणुपुव्वसहस्समेव 15 / ता अणुपुव्वसयसहस्समेव 16 / ता अणुपलिओवममेव 17 / ता अणुपलिओवमसयमेव 18 | ता अणुपलिओवमसहस्समेव 16 / ता अणुपलिओवमसयसहस्समेव 20 / ता अणुसागरोवममेव 21 / ता अणुसागरोवमसयमेव 22 ता अणुसागरोवमसहस्समेव 23 / ता अणुसागरोवमसयसहस्समेव 24 / ' पञ्चविंशतितमप्रतिपत्तिसूत्रं तु साक्षादेव सूत्रकृता दर्शितम्। तदेवमुक्ताः परतीर्थिकप्रत्तिपत्तयः। एताश्च सर्वा अपि मिथ्यारूपाः। तत एताभ्यः पृथग्भूतं स्वमतं भगवानुपदर्शयति - "वयं पुण'' इत्यादि / वयं पुनरुत्पन्नकेवलज्ञाना एवं वक्ष्यमाणेन प्रकारेण वदामः / तमेव प्रकारमाह - "ता चंदिम'' इत्यादि। 'ता' इति पूर्ववत् / चन्द्रसूर्याः, णमितिवाक्यालङ्कारे / देवा महर्द्धिकाः, महती ऋद्धिर्विमानपरिवाराऽऽदिका येषां ते तथा / तथा महती द्युतिः शरीराऽऽभरणाऽऽश्रिता येषां ते महाद्युतयः, तथा महद् बलं शारीरप्रमाणं येषां ते महाबलाः, तथा महद् विस्तीर्ण सर्वस्मिन्नपि जगति, विस्तृतत्वाद् यशः, श्लाघा येषां ते महायशसः। तथा महान् भवनपतिव्यन्तरेभ्योऽतिप्रभूत, तदपेक्षया तेषां प्रशान्तत्वात, सौख्यं येषां ते महासौख्याः तथा महान् अनुभावो वैक्रियकरणाऽऽदि विषयोऽचिन्त्यः शक्तिविशेषो येषां ते महानुभावाः / वरवस्त्रमाल्यधरा वरगन्धधरा वराऽऽभरणधरा अव्यवच्छिन्ननयार्थतया द्रव्यास्ति कनयमतेन कालं वक्ष्यमाणप्रमाणं स्वस्वा