________________ जोइसिय 1564 - अभिधानराजेन्द्रः - भाग 4 जोइसिय प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परि समन्ताच्चन्द्राऽऽदीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्ते मण्डलपरिभ्रमणरूपे स प्रदक्षिणः, प्रदक्षिण आवर्तमण्डलो येषां ते तथा, मेरुमनु लक्षीकृत्य चरन्ति / एतेनैतदुक्तं भवति-सूर्याऽऽदयः समस्ता अपि मनुष्य लोकवर्तिनः प्रदक्षिणाऽऽवतमण्डलगत्या परिभ्रमन्तीति // 6 // (13) इह चन्द्राऽऽदित्यग्रहाणां मण्डलानि अनवस्थितानि, यथायोगमन्यस्मिन्नन्यस्मिन् मण्डले तेषां संचारित्वात्, नक्षा ताराणां तु मण्डलान्यवस्थितान्येव। तथा चाऽऽहणक्खत्ततारगाणं, अवट्ठिता मंडला मुणेयव्वा / ते वि य पदाहिणाऽऽव--तमेव मेरुं अणु चरेंति / / 10 / / "णक्खत्त' इत्यादि। नक्षत्राणां तारकाणां च मण्डलान्यव स्थितानि ज्ञातव्यानि। किमुक्तं भवति? - आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च प्रत्येक मण्डलमिति / न चेत्थमनवस्थितमण्डलत्वोक्तावेवमाशजनीयम् - यथैतेषां गतिरेव न भवतीति / यत आह-"ते विय' इत्यादि / तान्यपि - नक्षत्राणि, तारकाणि च / सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात्। प्रदक्षिणाऽऽवर्तमव, इत्थं क्रियाविशेषणं, मेरुमनु लक्षीकृ त्य चरन्ति। एतच मेरुं लक्षीकृत्य प्रदक्षिणाऽऽवर्त्त, तेषां चरणं प्रत्यक्षत एवोपलक्ष्यत इति समवादि / / 10 / / (14) अय चन्द्रसूर्ययोर्मण्डलस्थानादूर्द्धमधश्च संक्रमणपरिनिषेधमाहरयणिकरदिणकराणं, उड्टुं च अहेव संकमो नऽत्थि। मंडलसंकमणं पुण, सब्भंतरबाहिरं तिरिए / / 11 / / "रयणिकर'' इत्यादि। रजनीकरदिनकराणां चन्द्राऽऽदित्यानामूर्द्धमर्द्धश्च संक्रमो न भवति, तथा जगत्स्वाभाव्यात् / तिर्यक पुनर्मण्डलेषुसंक्रमणे भवति। किंविशिष्टम् ? इत्याह-साभ्यन्तरबाह्यम्, अभ्यन्तरं च बाह्यमभ्यन्तरबाह्य, सहाभ्यन्तरं बाह्येन वर्तते इति साभ्यन्तरबाह्यम्। एतदुक्तं भवति - सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डलेषु संक्रमणं यावत्सर्वबाह्यं मण्डलं, सर्वबाह्याच मण्डलादर्वाक् तावन्मण्डलेषु संक्रमण यावत्सर्वाऽऽभ्यन्तरमिति॥१॥ (15) रयणिकरदिणकराणं, णक्खत्ताणं महागहाणं च / चारविसेसेण भवे, सुहदुक्खविधी मणुस्साणं / / 12 / / 'रयणिकर' इत्यादि / रजनीकरदिनकराणां चन्द्राऽऽदित्यानां, नक्षत्राणां च, महाग्रहाणां च चारविशेषेण तेन तेन चारेण सुखदुःखविधयो मनुष्याणां भवन्ति / तथाहि-द्विविधानि सन्ति सदा मनुष्याणां कर्माणि / तद्यथा-शुभवेद्यानि, अशुभवेद्यानि च / कर्मणां सामान्यतो विपाकहेतवः पञ्च। तद्यथा-द्रव्य, क्षेत्र, कालो, भवो, भावश्च। उक्तं च- "उदयवखयखउवसमोवसमाजं च कम्मणो भणिया। दव्वं खेत्तं काल, भयं य भावं च संपप्प' / / 1 / / शुभकर्मणां प्रायः शुभवेद्यानां कर्मणां शुभद्रव्यक्षेत्राऽऽदिसामग्री विपाकहेतुः, अशुभवेद्यानामशुभद्रव्यक्षेत्राऽऽदिसामग्री, ततो यदा येषां जन्मनक्षत्राऽऽदिविरोधी चन्द्रसूर्याऽऽदीनां चारो भवति, तदा तेषां प्रायो यान्यशुभवेद्यानि कर्माणि तानि ता तथाविधविपाक - सामग्रीमवाप्य विपाकमायान्ति, विपाकमागतानि शरीररोगोत्पादनेन, धनहानिकरणतो वा, प्रियविप्रयोगजनेन वा, कलहसंपादनतो वा दुःखमुत्पादयन्ति / यदा च एषां जन्मनक्षत्राऽऽद्यनुकूलश्चन्द्राऽऽदीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तां तथाविधा विपाकसामग्रीमधिगम्य विपार्क प्रतिपद्यन्ते, प्रतिपन्नाविधाकानि च तानि शरीरनीरोगता-संपादनतो, धनवृद्धिकरणेन वा, वैरोपशमनतः, प्रियसंप्रयोग-संपादनतो वा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमनुजनयन्ति। अत एव महीयांसः परमविवेकिनोऽल्पमपि प्रयोजन शुभतिथिनक्षत्रमुहुर्ताऽऽदावारभन्ते, न तुयथाकथञ्चन्। अत एव जिनानामप्याज्ञा प्रव्राजनाऽऽदिकमधिकृत्येत्थमवतिष्ठतेयथा शुभक्षेत्रो शुभाऽऽदिदिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्ताऽऽदी प्रव्राजनव्रताऽऽरोपणाऽऽदि कर्तव्यं, नान्यथा। तथा चोक्तं पञ्चवस्तुके"एसा जिणाणमाणा, खित्ताईयां य कम्मुणो भणिया। उदयाइकारणं जं, तम्हा सव्वत्थ जइयव्यं" ||1|| अस्या अक्षरगमनिका-एषा जिनानामाज्ञायथा शुभक्षेत्रो शुभदिशमभिमुखीकृत्य शुभे तिथिनक्षत्रामुहूर्ताऽऽदौ प्रव्राजनव्रताऽऽरोपणाऽऽदि कर्तव्यं, नान्यथा। अपि च-क्षेत्राऽऽदयोऽपि कर्मणामुदयाऽऽदिकारणं भगवद्भिरुक्ताः, ततोऽशुभद्रव्यक्षेत्राऽऽदिसामग्री प्राप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्योदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गाऽऽदिदोषप्रसङ्गः / शुभद्रव्यक्षेत्राऽऽदिसामग्यां तु प्रायो नाशुभकर्मविपाकसंभव इति निर्विघ्नं सामायिकपरिपालनाऽऽदि। तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्राऽऽदौ यतितव्यम्। ये तु भगवन्तोऽतिशयिनस्तेऽतिशयबलादेव निर्विघ्नं सविघ्नं वा सम्यगधिगच्छन्ति, ततोनशुभतिथिमुहूर्ताऽऽदिकमपेक्षन्ते इति न तन्मार्गानुसरणं छद्मस्थानां न्याय्यम् / तेन वे परममुनिपर्युपासितप्रवचनविडम्बका अपरिमितजिनशासनोपनिषद्भूतशास्त्रगुरुपरम्परापोतनिरवद्यविशदकालोचितसमाचारीप्रतिपन्थिनः स्वमतिकल्पितसामाचारीका अभिदधति-यथा न प्रद्राजनाऽऽदिषु शुभतिथिनक्षत्राऽऽदिनिरीक्षण कर्त्तव्यं, न खलु भगवान् जगत्स्वामी प्रव्राजनायोपस्थितेषु शुभतिथ्यादिनिरीक्षणं कृतवानिति / ते अपास्ता द्रष्टध्याः / / 12|| (16) अथ चन्द्रसूर्याणां केन प्रकारेण प्रकाशक्षेत्रं वर्द्धते, कथं च हीयते ? तदाहतेसिं पविसंताणं, तावक्खेत्तं तु वड्डते णिययं / तेण य कम्मेण पुणो, परिहायति निक्खमंताणं / / 13 / / 'तेसिं' इत्यादि / तेषां सूर्याचन्द्रमसां सर्वबाह्यान्मण्डलादभ्यन्तर प्रविशता तापक्षेत्र प्रतिदिवसं क्रमेण नियमादायामतो वर्द्धते, येन च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यन्तरान्मण्डलाद् वहिनिष्क्रामतां परिहीयते। तथाहि सर्वबाह्ये मण्डले चारं चरता सूर्याचन्द्रमसा प्रत्येक जम्बूद्वीपचक्रवालस्य दशधा प्रविभक्तस्य द्वौ द्वौ भागो तापक्षेत्रां, ततः सूर्यस्थाभ्यन्तरं प्रविशतः प्रतिमण्डल षष्ट्यधिकषट्त्रिंशच्छतप्रविभतस्य द्वौ द्वौ भागो तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषु प्रत्येक पौर्णमासीसंभवे क्रमेण प्रतिमण्डलं षड्विंशतिर्भागाः, सप्तविंशतितमस्य च एक सप्तभाग इति वर्द्धते / एवं च क्रमेण प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरे मण्डले चारं चरतः, तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य ठायः परिपूर्णा दश भागास्तापक्षेवं, ततः पुनरपि सर्वाभ्यन्तरमण्डलाद् बहिर्निष्क्रमणे सूर्यस्य प्रतिमण्डल षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रबालस्य द्रौद्वौभागैः परिहीयते, चन्द्रमसस्तु मण्डलेषु प्रत्येक पौर्णमासीसंभवक्रमेण प्रतिण्मण्डलं षड्विंशतिर्भागाः, सप्तविंशतितमस्य च भागस्य एकः सप्तभाग इति।