________________ जोइसिय 1563 - अभिधानराजेन्द्रः - भाग 4 जोइसिय दो चंदा दो सूरा, य हुंति एक्के क्कए पिडए / / 3 / / इह द्वौ चन्द्रौ द्वौ सूर्यावकं पिटकमुच्यते। इत्थंभूतानि चन्द्राऽऽदित्याना पिटकानि सर्वसंख्यया मनुष्यलोके भवन्ति षटषष्टिसंख्याकानि / अथ किंप्रमाणं पिटकम् ? इति पिटक -प्रमाणमाह-एकैकस्मिन् पिटके द्वी चन्द्रौ, द्वौ सूर्यां च भवतः / किमुक्तं भवति ? - द्वौ चन्द्रौ द्वी सूर्यावित्येतावत्प्रमाणमेकैकं चन्द्राऽऽदित्यानां पिटकमिति / एवंप्रमाणं च पिटकं जम्बूद्वीपे एकम, जम्बूद्वीपेद्वयोरेव चन्द्रमसोयोरेव सूर्ययोर्भावात्। द्वे पिटके लवणसमुद्रे, तत्रा चतुर्णा चन्द्रमासां चतुर्णा च सूर्याणां भावात्। एवं षट् पिटकानिधातकीखण्डे, एकविंशतिः, कालोदे, पशिदभ्यन्तरपुष्कराद्धे, इति भवन्ति सर्वमीलने चन्द्राऽऽदित्यानां षट्षष्टिः पिटकानि // 3 // छावर्द्वि पिडगाइं,णक्खत्ताणं तु मणुयलोयम्मि। छप्पण्णं णक्खत्ता, हुंती एक्कक्कए पिडए / / 4 / / (छावट्ठीत्यादि) सर्वस्मिन्नपि मनुष्यलोके सर्वसंख्यया नक्षत्राणां पिटकानि भवन्ति षट्षष्टिः / नक्षत्रपिटक्यमाणं च शशिद्वयसंबन्धिनक्षत्रास ख्यापरिमाणम् / तथा धाह-एकैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पञ्चाशत्रसंख्याकानि / किमुक्तं भवति? - षट्पञ्चाशन्नक्षत्रसंख्याकमेकैकं नक्षत्रपिटकं भवति। अत्रापि षट्पष्टिसंख्याभावना, एवमेकं नक्षत्रपिटकं जम्बूद्वीपे, द्वे लवणसमुद्रे, षड़ धातकी खण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करार्द्ध इति // 4 // छावढेि पिडगाई, महग्गहाणं तु मणुयलोयम्मि। छावत्तरं गहसतं, होई एक्के क्कए पिडए।।५।। महाग्रहाणामपि सर्वस्मिन्नमनुष्यलोके सर्वसंख्यया पिटकानि भवन्ति षट्षष्टिः / ग्रहपिटक्प्रभाणं च शशिद्वयसंबन्धिग्रहसंख्यापरिमाणम्। तथा चाऽऽहएकैकरिमन् पिटके ग्रहपिटके भवति षट्सप्ततिशत षट्सप्तत्यधिक ग्रहशतं, सप्तत्यधिकग्रहशतपरिमाणमेकैकं ग्रहपिटकमिति। ततः पट्पष्टि -संख्य भावना च प्राग्वत्कर्तव्या // 5 // ! (6) प्रथ चन्द्रसूर्याणा कियत्यः पतयः कथं च स्थिताः ? इत्याह चत्तारिय पंतीओ, चंदाइचाण मणुअलोयम्मि। छावढेि छावढेि, च होइ एक्किक्किया पंती॥६॥ (चत्तारि य इत्यादि) इह मनुष्यलोके चन्द्राऽऽदिस्यानां पड़ - क्तयश्चतस्रो भवन्ति। तद्यथा-द्वे पक्ती चन्द्राणां, द्वे सूर्याणाम्, एकैका च पक्तिर्भवति षट्षष्टिः 2 / सूर्याऽऽदिसंख्या तद्भावना चैवम् - एकः किल सूर्या जम्बूद्वीपे मेरोदक्षिणभागे चार चरन वर्तते, एक उत्तरभागे, एकश्चन्द्रमा मेरोः पूर्वभागे, एकोऽपरभागे / तत्र यो मेरोदक्षिणभागे सूर्यश्चारं चरन् वर्तते तत्सम श्रेणिव्वस्थिती द्वौ दक्षिणभागे सूर्यो, लवणसमुद्रे, षट् धातकीखण्डे, एकविंशतिः कालोदे, षटत्रिशत् अभ्यन्तपुष्कराः अस्यां सूर्यपङ्क्तौ षट् षष्टिः सूर्याः / योऽपि च मरोरुत्तरभागे व्यवस्थितः सूर्यश्चारं चरन् वर्तते तस्यापि समश्रेण्या व्यवस्थिती द्वावुत्तरभागे सूर्यालवणसमुद्रे, धातकीखण्डेषट्, एकविंशतिः कालोदे, षट् शिदभ्यन्तरपुष्कराढ़ें इति / अस्यामपि पडतो सर्वसंख्यया षट् षष्टिः सूर्याः / तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्तते चन्द्रमा स्तत्सम श्रेणिव्यवस्थितौ द्वौ पूर्वभागे एव चन्द्रमसौ लवणसमुद्रे, षट् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करार्द्ध इति। अस्यां चन्द्रपङ्क्ती सर्वसंख्यया षट्पष्टिश्चन्द्रमसः / एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पङ्क्तौ षट्षष्टिश्चन्द्रमसो वेदितव्याः // 6 // (10) अथ नक्षत्राणां पङ्क्तिस्वरूपमाहछप्पन्नं पंतीओ, गक्खत्ताणं मणुयलोयम्मि। छावढि छावर्द्वि, हवई इक्किक्किया पंती॥७।। नक्षत्राणां मनुष्यलोके सर्वसंख्यया पक्तयो भवन्ति षट् पञ्चाशत्। एकैका च पङ्क्तिर्भवति षट्षष्टिषट्षष्टिनक्षत्राप्रमाणा इत्यर्थः / तथाहिअस्मिन किल जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिनः परिवारभूतानि अभिजिदादीन्यष्टाविंशतिर्नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति, उत्तरताऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूतानि अष्टाविंशतिसंख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण व्यवस्थितानि, तत्रा दक्षिणतोऽर्द्धभागे यदभिजिन्नक्षत्रां तत्समश्रेणिव्यवस्थिते द्वे आभजिन्नक्षत्र लवणसमुद्रे, षट्धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्यरार्द्ध इति सर्वसंख्यया षट्षष्टिरभिजिन्नक्षत्राणि पडक्तया व्यवस्थितानि, श्रवणाऽऽदीन्यपि दक्षिणतोऽर्द्धभागे पड़तया व्यवस्थितानि षट्षष्टिसंख्याकानि भावनीयानि / उत्तरतोऽप्यर्द्धभागे यदभिजिन्नक्षत्रां तत्समश्रेणिव्यवस्थिते उत्तरभागे एव द्वे अभिजिन्नक्षत्रो लवणसमुद्दे, षट् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशत् पुष्कराः, एवं श्रवणाऽऽदिपक्तयोऽपि प्रत्येकं षट् षष्टिसंख्याकाः वेदितव्याः, इति भवन्ति सर्वसंख्यया षट्पञ्चाशन्नक्षत्राणां पतयः, एकैका च पङ्क्तिः षट्षष्टिसंख्येति!|७|| (11) अथ ग्रहाणां पङ्क्तिस्वरूपमाहछावत्तरं गहाणं, पंतिसयं हवति मणुयलोयम्मि। छावढिं छावडिं, च हवइ इक्किक्किया पंती||८|| ग्रहाणामङ्गारकप्रभृतीनां सर्वसंख्यया मनुष्यलोके षट्सप्तत्यधिकं शत भवति, एकका च पक्तिर्भवति षट्षष्टिषट्षष्टिग्रहसंख्या / अत्रापीय भावन-इह जम्बूद्वीपे दक्षिणतोऽर्द्ध भागे एकस्य शशिनः परिवारभूता अङ्गारकप्रभृतयोऽष्टशीतिर्ग्रहाः, उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूता अङ्गारकप्रभृतय एवाष्टाशीतिः / तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्समश्रणिव्यवस्थितोदक्षिणभागे एव द्वावङ्गारको लवणसमुद्रे, षड् धातकीखण्डे, एकविंशतिः कालोदे, षट्तिशद् अभ्यन्तरपुष्करा?, इति षट्षष्टिः। एवं शेषा अपि सप्ताशीतिम्रहाः पतया व्यवस्थिताः प्रत्येकं षट्षष्टिर्वेदितव्याः / एवमुत्तरतोऽप्यर्द्धभागे अङ्गारकप्रभृतीननामष्टाशीतिग्रहाणां पतयः प्रत्येकं षट्षष्टिसंख्याका भावनीयाः, इति भवति सर्वसंख्यया ग्रहाणां षट् सप्तत्यधिक पक्तिशतम्, एकैका च पङ्क्तिः षट्षष्टिसंख्याकेति॥८|| (12) अर्थतेषां चन्द्राऽऽदीनां भ्रमणस्वरूपमाह - ते मेरुमणु चरंती, पयाहिणाऽऽवत्तमंडला सव्वे / अणवट्ठियजोगेहिं, चंदा सूरा गहगणा य / / 6 / / "ते मेरुमणुचरंति' इत्यादि। ते मनुष्यलोकवर्तिनः सर्वे चन्द्राः, सर्वे सूर्याः सर्वे च ग्रहगणाः, अनवस्थितैर्यथायोगमान्यैरन्यैर्न - क्षत्रोण सह योगै रुपलक्षिताः (पयाहिणाऽऽवत्तमंडला इति)