________________ जोइसिय 1562- अभिधानराजेन्द्रः - भाग 4 जोइसिय च (ता जंबुद्दीवे ण दीवे दो चंदा इत्यादि) जंबूद्वीपे द्वौ चन्द्रौ प्रतिभासितवन्तौ प्रतिभास्थेते, प्रतिभासिष्येते, द्रव्यास्तिकनयमतेन सकलकालमेवंविधाया एव जगत्स्थितेः सद्भावात् / तथा द्वौ सूयौं तापितवन्तौ, तापयतस्तापयिष्यतः / तथा एकैक स्य शशिनोऽष्टाविंशतिनक्षत्राणि परिवारो, जम्बूद्वीपे च द्वौ शशिनौ, ततः षट्पञ्चाशन्नक्षत्राणि, जम्बूद्वीपे चन्द्रसूर्याभ्यां सहयोग युक्तवन्तः, युक्तवन्ति, योक्ष्यन्ति वा / तथा एकैकस्य शशिनोऽष्टाशीतिम्रहाः परिवारतः, ततः शशिद्वयसत्कग्रहमीलने सर्वसंख्यया षट्सप्तत्यधिक ग्रहशतं भवति, ततो जम्बूद्वीपे चारं चरितवान, चरति, चरिष्यति च / तथा एकैकस्य शशिनस्तारापरिवारः कोटाकोटीनां षट्षष्टिः सहस्राणि, नवशतानि पञ्चसप्तत्यधिकानि, जम्बूद्वीपे च द्वौ राशिनौ, तदेतत् ताराप्रमाणं द्वाभ्यां गुण्यते, तत एक शतसहस्रं त्रयस्त्रिंशत्सहस्राणि नवशतानि पञ्चाशदधिकानितारागणकोटीनां भवन्ति / एतावत्प्रमाणास्तारा जम्बूद्वीपे शोभितक्त्यः, शोभन्ते, शोभिष्यन्ते / सु० प्र० 16 पाहु०। जी० / जं०। भ०। (6) संप्रति विनेयजनानुग्रहाय यथोक्तजम्बूद्वीपगत चन्द्राऽऽदिसंख्यासंग्राहिके द्वे गाथे आहदो चंदा दो सूरा, णक्खत्ता खलु हवंति छप्पण्णा। वावत्तरं गहसतं, जंबुद्दीवे वियारीणं / / 1 / / एगं च सयसहस्सं, तित्तीसं खलु भवे सहस्साई। णव य सता पण्णासा, तारागणको डिकोडीणं / / 2 / / एते चढे अपि सुगमे, नवर (जंबुद्दीवे बियारी णं) णमिति वाक्यालङ्कारे, ततो 'वियारीति विभक्तिपरिणामेन चन्द्रादिभिः सह सामानाधिकरण्येन योजनीयमिति॥सु०प्र०१६ पाहु०। (लवणसमुद्रगतचन्द्राऽऽदिसंख्यापरिमाणम् 'लवणसमुद्द' शब्दे वक्ष्यते) (धातकीखण्डद्वीपचन्द्राऽऽदिसंख्या 'धायईखंडदीव' शब्दे प्रतिपादयिष्यते) (कालोदसमुद्रचन्द्रा5ऽदिसंख्या 'कालोद' शब्दे तृतीयभागे 504 पृष्ठे गता) (पुष्करवरद्वीपचन्द्राऽऽदिसंख्या, आभ्यन्तरपुष्करार्द्धगतचन्द्राऽऽदिवक्तव्यता च 'पुक्खरवरदीव' शब्दे वक्ष्यते) इह सर्वातारापरिमाण चिन्तायां कोटी कोट्य :-- कोटीकोट्य एव द्रष्टव्याः, तथा पूर्वसूरिव्याख्यानात्। अपर उच्छ्याङ्गुलप्रमाणमनुश्रित्य कोटीकोटीरेव समर्थयन्ते। उक्तं च - "कोडाकोडीसत्तं, तरंतु मन्नंति केइ थोवतया। अन्ने उस्सेहंगुलमाणं काऊण ताराणं / / 1 / / " इति। जी०३ प्रति०। (7) संप्रति मनुष्यक्षेत्रगतसमस्तचन्द्राऽऽदिसंख्या परिमाणमाहमणुस्सखेत्ते णं भंते ! कइ चंदा पभासेंसु वा, पभासिंति वा, पभासिस्संति वा, कइ सूरा तवइंसु वा, तवेंति वा, तविस्संति वा? गोयमा!"बत्तीसं चंदसयं, बत्तीसं चेव सूरियाण संयं। सयलं मगुस्सलोयं,चरंति एए पगासेंता॥१।। एक्कार सय सहस्सा, छप्पिय सोला महग्गहाणं तु / छच्च सया छण्णउया, णक्खत्ता तिण्णि स सहस्सा ||2|| अट्ठासीइ सतसहस्सा, वायालीसं सहस्स मणुयलोगम्मि। सत्त य सया अणूणा, तारागणकोडिकोडीणं" ||3|| सोभंसु वा, सोभंति वा, सोभिस्संति वा!। "मणुस्सखेत्ते णं' इत्यादि पाठसिद्धम् / उक्तं चैवंरूपं परिमाणमन्यत्रापि / (बत्तीस मित्यादि गाथाठायम्) तत्र द्वात्रिशं चन्द्रशतम्, एवं द्वौ चन्द्रौ जम्बूद्वीपे, चत्वारो लवणोदे, द्वादश धातकीखण्डे, द्वाचत्वारिशत्कालोदे, द्वासप्ततिरभ्यन्तरपुष्कराद्धे, सर्वसंख्यया द्वात्रिंशं शतम्। एवं सूर्याणामपि द्वाणिसंशतं परिभावनीयम् / नक्षत्राऽऽदिपरिमाणम् अष्टाविंशत्यादिसंख्यानि नक्षत्राऽऽदीन द्वात्रिंशेन शतेन गुणयित्वा परिभावनीयम्। जी०३ प्रति०। मतभेदेनाहअट्ठासीतिं चत्ता-इसतसहस्साई मणुयलोयम्मि। सत्त य सता अणूणा, तारागणकोडिकोडीणं / / 3 / / (अट्ठासीइंचत्ताइ त्ति) अष्टाशीतिः सहस्राणि चत्वारिंशत् शताधिकानि, शेष गतार्थम्। सु०प्र०१६ पाहु०। चं० प्र०। भ०। द०प०। संप्रति सकलमनुष्यलोकगततारागणस्योपसंहारमाह - एसो तारापिंडो, सव्वसमासेण मणुयलोयम्मि। बहियं पुण-ता तारा, जिणेहिँ भणिआ असंखेज्जा / / 1 / / एवतिय तारगणं, जं भणियं माणुसम्मि लोगम्मि। चारं कलंबुयापु-फसंठितं जोतिसं चरति / / 2 / / एषोऽनन्तरोक्तगाथोक्तस्तारापिण्डः सर्वसंख्यया मनुष्यलोके, आख्यात इति गम्यते / वहिः पुनर्मनुष्यलोकाद् यास्तारास्ताजिनैः सर्वहस्तीर्थकृगिर्भणिता असंख्याताः, द्वीपसमुद्राणाम संख्यातत्वात्। प्रतिद्वीपं प्रतिसमुद्रं च यथायोगं संख्येयनामसंख्येयानां च ताराणं सद्भावात् // 1 / / "एवइयं" इत्यादि / एतावत्संख्याकं तारापरिमाणं यदनन्तरं भणितं मानुषे लोके, तज्जयोतिष्कं ज्योतिष्कदेवविमानरूपं कदम्बपुष्पसंस्थितं कदम्बपुष्पवत् अधःसंकुचितं उपरि विस्तीर्णमुत्तानी -कृताईकपित्थसंस्थानसंस्थितमित्यर्थः / चार चरति चार प्रतिपद्यते, तथा जगत्रवाभाव्यात् / ताराग्रहणं चोपलक्षणं, तेन सूर्यादयोऽपि यथोक्तसंख्याका मनुष्यलोके तथा जगत्स्वभावात् चार प्रतिपद्यन्ते इति द्रष्टव्यम् ॥शा संप्रत्येतद्गतमेवोपसंहारमाहरविससिगहणक्खत्ता, एवतिया आहितामणुयलोए। जेसिंणामागोत्तं, न पागता पण्णवेहिति / / 3 / / रविशशिग्रहनक्षत्राणि, उपलक्षणमेतत्, तारकाणि च एवाव -- न्त्येतावत्संख्यानि आख्यातानि सर्वज्ञैर्मनुष्यलोके, येषां किमित्याह - येषां सूर्याऽऽदीना यथोक्तसंख्याकानां सकलमनुष्यलोकभाविताना. प्रत्येक नामगोत्राणि, इहान्वर्थ युक्तं नाम सिद्धान्तपरिभाषया नामगोत्रमित्युच्यते। ततोऽयमर्थः-नामगोत्राणि अन्वर्थयुक्तानि, यदि वा नामानि च गोत्राणि नामगोत्राणि, प्राकृता अनतिशायिनः, पुरुषाः न कदाचनापि प्रज्ञापयिष्यन्ति, केवलं यदा तदा वा सर्वज्ञा एव, तत इदमपि सूर्याऽऽदिसंस्थानं प्राकृतपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेमिति // 3 // (8) छावद्धिं पिडगाई, चंदादिचाण मणुयलोयम्मि।