________________ (16) घण्टापथः। त्वार्येव भूतानि तत्त्वम्, न तु तद्व्यतिरिक्तो भवान्तरानुसरणव्यसनवानात्मेति चार्वाकचर्चापराकरणं विधाय जीवसिद्धिरुपपादिता इह तु जीवाजीवाऽऽदिनवतत्त्वनिरूपणप्रवणे श्रीमदर्हच्छाशने तस्य जीवस्य कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वं जमालिमभिमुखीकृत्य भगवानाह"सासए जीवे जमाली ! जण कयाइणासि० जाव णिचे / असासए जीवे जमाली ! जंणेरइए भवित्ता तिरिक्खजोणिए भवइ, तिरिक्खजोणिए भवित्ता मणुस्से भवइ, मणुस्से भवित्ता देवे भवइ।'' ननु कोऽसौ जीवो जीव इति भवद्भिरुघुष्यते, यस्य वा सिद्धिरुपपादिता? इत्यत्राऽऽह'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिवासमथान्यदायुः। प्राणा दशैते भगवद्भिरिष्टाः, तेषां वियोगीकरणं च हिंसा // 1 // ' इत्यादिवचनप्रसिद्धान् दशविधप्राणान् जीवति कोऽर्थो धरतीति शब्दार्थवशादेव जीवन्नेव जीव उच्यते। तादृशः संसार्येव भवति, सिद्धस्तु जीवशब्देनन व्यपदिश्यते। तथा च नयोपदेशे-" सिद्धोनतन्मते जीवः, प्रोक्तः सत्त्वाइऽदिसंड्यति। महाभाष्ये च तत्त्वार्थभाष्ये धात्वर्थबाधतः॥४०॥" एवं च सिद्धासिद्धत्वेन सेन्द्रियानिन्द्रियत्वेन सकायिकाऽकायिकत्वेन संयोगायोगत्वेन सवेदकावेदकत्वेन सकषायाकषायत्वेन सलेश्याsलेश्यात्वेन ज्ञान्यज्ञानित्वेन साकारोपयुक्तानाकारोपयुक्तत्वेन आहारकानाहारकत्वेन भाषकाभाषकत्वेन चरमाचरमत्वेन जीवाना द्वैविध्यम्, त्रसस्थावरनोत्रसस्थावरत्वेन परीतापरीतनोपरीतापरीतत्वेन स्त्रीपुरुषनपुंसकत्वेन सम्यग्दृष्टिमिथ्यादृष्टिसम्यमिथ्यादृष्टित्वेन पर्याप्तकापर्याप्तकनोपर्याप्तकापर्याप्तकत्वेन सूक्ष्मबादरनोसूक्ष्मबादरत्वेन संजयसंझिनोसंज्ञयसंज्ञित्वेन भवसिद्धिकाऽभवसिद्धिकनोभवसिद्धिकाभवसिद्धिकत्वेन जीवानां त्रैविध्यम्, नैरयिकतिर्यग्योनिकमनुष्यदेवत्वेन मनोयोगिवचोयोगिकाययोग्ययोगित्वेन स्त्रीवेदकपुरुषवेदकनपुंसकवेदकावेदकत्वेन चक्षुर्दर्शनाचक्षुर्दशनावधिदर्शनकेवलदर्शनत्वेन संयतासंयतसंयतासंयतनोसंयतासंयतत्वेन जीवानां चातुर्विध्यम्, एकद्वित्रिचतुः पञ्चेन्द्रियत्वेन नैरयिकतिर्यग्यो निकमनुष्यदेवसिद्धत्वेन, क्रोधमानमायालोभकषायित्वाकषायित्वेन जीवानां पञ्चविधत्वम्, पृथिव्यप्तेजोवायुवनस्पतित्रसकायिकत्वेन, आभिनिबोधिकाऽऽदिपशविधज्ञानित्वेन अज्ञानित्वेन च, एकद्वित्रिचतुःपञ्चेन्द्रियत्वेन अनिन्द्रयत्वेन च, औदारिकवैक्रियकाऽऽहारकतैजसकार्मणशरीरत्वेन असरीरत्वेन च जीवानां षविधत्वम् नैरयिकतिर्यग्योनिकत्वेनतिर्यग्योनिकत्वेन च मनुष्यमानुषीदेवदेवीत्वेन, पृथिव्यप्तेजोवायुवनस्पतिअराकायिकाकायिकत्वेन, कृष्णनीलकापोततेजः पद्मशुक्ललेश्याऽलेश्यात्वेन जीवानां सप्तविधत्वम्, प्रथमाप्रथमसमयनैरयिकत्वेन प्रथमाप्रथमसमयतिर्यग्योनिकत्वेन प्रथमाप्रथमसमयमनुष्यत्वेन प्रथमाप्रथमसमयदेवत्वेन; नैरयिकतिर्यग्योनिकमनुष्यदेवसिद्धत्वेन तिर्यग्योनिकामानुपीदेवीत्वेन च जीवानामष्टविधत्वम्, पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियत्वेन; अथवा-एकद्वित्रिचतुरिन्द्रियनैरयिकपोन्द्रियतिर्यग्यो निकमनुष्यदेवसिद्धत्वेन, प्रथमाप्रथमसमयनैरयिक प्रथमसमयतिर्यग् योनिकप्रथमाप्रथमसमयमनुष्यप्रथमाप्रथमसमयदेवसिद्धत्वेन जीवानां नवविधत्वम्, प्रथमाप्रथमसमयैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियत्वेन, पृथिव्यप्रतेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियानिन्द्रियत्वेन, प्रथमाप्रथमस मयनैरयिकतिर्यग् योनिकमनुष्यदेवसिद्धत्वेन जीवानां दशविधत्वम् सूक्ष्मापर्याप्तकपर्याप्तकबादरापर्याप्तकपर्याप्तकद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसंज्ञयसंज्ञिपञ्चेन्द्रियपर्याप्तकापर्याप्तकत्वेन जीवानां चतुर्दशविधत्वं च 'जीव' शब्दे 1525 पृष्ठे न्यक्षेण निरूपितमिति / किं नाम जीव इति प्रश्नस्य यद्यपि प्रकारद्वयेन लेशतो भावितमुत्तरं तथाऽपि विशेषबुबोधयिषया किञ्चिदिह प्रतायतेउपशमौदयिकक्षायिकक्षायोपशमिकपारिणामिकैर्भावः संमिश्र द्रव्यंजीवशब्देनोच्यते। आह-औदयिकान् भावान् परित्यज्य किमितीहौपशमिकस्य भावस्य साक्षादुपादानम्? उच्यतेइह जीवस्य स्वरूपं तदेव वक्तव्यं यदसाधारण स्वरूपम् / एवे हि पदार्थान्तरस्वरूपेभ्यो वैविक्त्येन तत् प्रतिपादितं भवति, नान्यथा, औदयिकपारिणामिकौ च भावावजीवानामपि भवतः, अतस्तौ साक्षान्नोपात्तौ, क्षायिकोऽपि च भाव औपशमिकभावपूर्वकः, न खल्वौपशमिकभावमनासाद्यकश्चिदपि क्षायिकं भावमासादयति, क्षायोपशमिकोऽपि च भावो नौपशमिका भावाद् अत्यन्तभेदी, तत इह साक्षादौपशमिकस्य भावस्योपादानमिति। ततः कस्य प्रभवः स्वामिनो जीवाः इति प्रश्नावसरे, आत्मीयस्य रूपस्योत्तरम् / तथाहि कर्मविनिर्मुक्तस्वरूपा आत्मानो न केषामपि प्रभवः, किन्तु स्वरूपस्यैव, तथास्वाभाव्यात्। यस्तु स्वस्वामिभावः संसारे, सकर्मोपाधिजनितत्वादौपाधिकः, न परमार्थिक इति। ननु केन निर्मिता जीवा इति प्रश्ने कृते सति समाधिः न केनचित् कृताः, किन्तु न भस्वद्वदकृत्रिमा एव,यथा चाकृत्रिमता जीवानां तथा धर्म संग्रहणीटीकार्या संप्रपञ्चं व्याख्याता, विशेष--जिज्ञासुभिस्ततएवावधार्या। ननु किंजीवाः शरीरे लोके वाऽवतिछन्ते? इति प्रश्ररयोत्तरम्-सामान्यचिन्तायां लोके, नालोके, आलोके स्वभावत एव धर्माधर्मास्तिकायजीवपुद्गलानामसंभवात्। विशेषचिन्तायां शरीरे, नान्यत्र, शरीरपरमाणुभिरेव सह आत्मप्रदेशानां क्षीरनीरवदन्योन्यानुगमभावात् / उक्तं च- "अन्नोन्नमणुगयाई, इमं च तं च त्ति विभयणमजुत्तं / जह खीरपाणियाई।" इति / सर्वकालमेव जीवा भवन्ति, अनादिनिधनाश्च जीवा इति मुक्त्यवस्थायामपि जीवा न विनश्यन्ति, किन्तु ज्ञानाऽऽदिके स्वस्वरूपेऽवतिष्ठन्ते इति श्रद्धेयम् / तेन यत् कैश्चिदुक्तम् -"दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम / दिशं न काञ्चिद् विदिशं न काञ्चिद्, स्नेहक्षयात् केवलमेति शान्तिम्॥१|| जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिंगच्छति नान्तरिक्षम् / दिशं न काञ्चिद् विदिश न काञ्चिद्, स्नेहक्षयात् केवलमेति-शान्तिम् / / 2 / / अर्हन्मरणचित्तस्य, प्रतिसन्धिर्न विद्यते / प्रदीपस्येव निर्वाण, विमोक्षस्तस्य चेप्सितः // 3 // " इति / तदपास्तं द्रष्टव्यम्। सतः सर्वथा विनाशायोगात्, तथादर्शनादिति कृतं प्रसङ्गेन। विस्तरेच्छभिः 'जीव' शब्दो वीक्ष्यः। त्रिषष्ट्यधिकपञ्चशतभेदा जीवानां 'जीव' शब्दे 1536 पृष्ठेद्रष्टव्याः। जिनवचनस्य श्रद्धाऽऽस्पदत्वादेव'चंदो चंदो अभिवडिओ य चंदमभिवड्डिओ चेव / पंचसहियं जुगमिणं, दिटुं तेल्लोकदसीहिं।।१।। पढमविइयाउचंदा, तइयं अभिवड्डियं वियाणाहि। चंदे चेव चउत्थ, पंचममभिवड्डियं जाण / / 2 / / ' इति सुगवचनाऽऽदि 'जुग' शब्दे 1567 पृष्ठत आरभ्य 1573 पृष्ठपर्यन्त निरीक्षणीयम्। पूर्वोक्ताकारणादेव ज्योतिष्कानां पञ्चविधत्यनिरूपणानन्तरंचलत्वस्थिरत्वविचारः, सर्वलोके प्रतिद्वीपंप्रतिसमुद्रं चन्द्राऽऽदीनांपरिमाणप्रतिपादनार्थमन्यतीथिकानांद्वा