________________ घण्टापथः। (18) णो दोषः स्यात् / न तु क्रियमाणं कृतमिति, तथोक्तौ च तत्र क्रियावेशसमय एव कृतत्वाभिधानात् / उक्त हि-क्रियाकालनिष्ठाकालयोरैक्यमिति / अथैवमपि कृतक्रियमाणयोरैक्ये कृतस्य सत्त्वात् / सतोऽपि करणे तदवस्थप्रसङ्गः स्यात्, नतु क्रियासमकालसत्ताऽवाप्तौ / अथ भिन्नविषया क्रिया, तदा सिद्धसाधनम् / प्रतिसमयमन्यान्य- / कारणतया वस्तुनोऽभ्युपगमनेन भिन्नविषयक्रियाऽनुपरमस्यास्माकं सिद्धत्वात् / अथ प्रथमाऽऽदिसमयेष्वपि कार्योपलम्भप्रसक्तेरिति पक्षे क्रियमाणस्य हि कृतत्वप्रथमाऽऽदिसमयेष्वपि सत्त्वादुपलम्भः प्रसज्यत इति। तदपिनातदा हि शिवकाऽऽदीनामेव क्रियमाणता, ते चोपलभ्यत एव / उक्तं च विशेषाऽऽवश्यके-"अन्नारंभे अन्नं, कह दीसउ जह घडो पडाऽऽरंभे / सिवगाऽऽदयोन कुंभो, किह दीसउ सो तदद्धाए? // 2316 / / " घटगताभिलाषतया च मूढः शिवकाऽऽदिकरणेऽपि घटमहं करोमीति मन्यते / तथा चाऽऽह-"पइसमयकजकोडी-निरवेक्खं घडगयाभिलासोऽसि / पइसमयकजकालं, थूलमई ! घडम्मि लाएसि // 2318||" नापि क्रियावैफल्याऽऽपत्तितः, यतः प्रागवाप्तसत्ताकस्य करणे क्रियावैफल्यं स्यात्, न तु क्रियमाणकृतत्वे, तत्रहि क्रियमाणं क्रियाऽपेक्षमिति तस्याः साफल्यमेव, अनेकान्तवादिनां च केनचिद्रूपेण प्राक् सत्त्वेऽपि रूपान्तरेण करणं न दोषाय / दीर्घक्रियाकालदर्शनानुपपत्तिरित्यपि न युक्तम् यतः शिवकाऽऽद्युत्तरोत्तरपरिमाणविशेषविषय एव दीर्घक्रियाकालोपलम्भो, न तु घटक्रियाविषयः। उक्तं हि- "पइसमयउप्पणाणं, परोप्परविलक्खणाणं सुबहूणं / दीहो किरियाकालो, जइ दीसइ किं च कुंभस्स / / 2315 // ' अथ कथञ्चिनिश्चितभेदे कृतक्रियमाणे, तत्तीर्थकृदुक्तमेव, निश्चयव्यवहारानुगतत्वात्तद्वचसः, तत्र च निश्वयनयाऽऽश्रयणेन कृतक्रियमाणयोरभेदः / यदुक्तम्-''क्रियमाणं कृतं दग्ध, दह्यमानं स्थितं गतम् / तिष्ठच गम्यमानं च, निष्ठितत्वात् प्रतिक्षणम् / / 1 / / " व्यवहारनयमते तु नानात्त्वमप्यनयोः, तथा च क्रियमाणं कृतमेव, कृतं तु क्रियमाणमेव स्यात्, क्रियमाणं क्रियावेशसमये, क्रियोपरमे पुनरक्रियमाणमिति / उक्तं च- "तेणेह कज्जमाणं, नियमेण कय कयं तु भयणिज्ज / किञ्चिदिह कज्जमाणं, उवरयकिरियं च होजाहि।।२३२०||" किञ्च भवतो मतिः-क्रियाऽन्त्यसमय एवाभिमतकार्यभवनं, तत्रापि प्रथमसमयादारभ्य कार्यस्य कियत्यपि निष्पत्तिरेष्टव्या, अन्यथा कथमकस्मादन्त्यसमये सा भवेत् ? उक्तंच"आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्द्यदा पटे। अन्त्यतन्तुप्रवेशे च, नोतं स्यान्न पटोदयः।।१।। तस्माद् यदि द्वितीयाऽऽदि-तन्तुयोगात् प्रतिक्षणम्। किञ्चित् किञ्चिदुतं तस्य, यदुतं तदुतं हि तत्॥२॥" इह प्रयोगः-यद् यस्याः क्रियाया आद्यसमये न भवति, तत्तस्या अन्त्यसमयेऽपि न भावि, यथा घटक्रियाऽऽदिसमयेऽभवन्पटो, न भवति च कृतक्रियमाणयोर्भेद क्रियाऽऽदिसमये कार्यम, अन्यथा घटान्त्यसमयऽपि पटोत्पत्तिः स्यात्। एवं च-"यथा वृक्षोधवश्चेति, न विरुद्धं मिथो द्वयम्। क्रियमाणं कृतं चेति, न विरुद्धं तथोभयम्॥२॥" प्रयोगश्च-यद् येनाविनाभूतं, नतदेकान्तेन भिद्यते, यथा वृक्षत्वाधवत्वम्, कृतत्वाविनाभूतं च क्रियमाणत्वमिति, सकललोकप्रसिद्धत्वाच्च भेदस्य घटपट योस्तदाश्रयेणैवमुक्त संस्तारकाऽऽदावपि योज्यम् / तत्प्रतिपद्यस्व भगवन् / ''चलमाणे चलिए।" इत्यादि तीर्थकृतां चात्यन्तमवितत्थमिति। स चैवमुच्यमानोऽपि न प्रतिपन्नवान, किन्तु पूर्वोक्तयुक्तिभिः संबुद्धाः शेषसाधव एकाकिनं जमालिं मुक्त्वा गता जिनसमीपम्। जमाली तु (महावीरजिननिह्नवरूपः) कालमासे कालकृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु किल्विषिकेषु देवेषु देवत्वेनोत्पन्नः, तस्य पञ्चदशभवाः सन्ति। तस्मान्न जिनवचनेषु कदाचनापि संशयितव्यमिति चतुरस्रम्। विस्तरतो दर्शनच्छुभिः 'जमालि' शब्दे 1401 पृष्ठादारभ्य 1413 पृष्ठपर्यन्तं विलोकनीयम् / जमालिभवप्रसङ्गानुप्रसङ्गाद् जिज्ञासोत्पद्यतेकेन प्रकारेण जन्म जीवानां जायते? अत्राऽऽहस्त्रीपुंसयोर्वेदोदये सति पूर्वकर्मनिवर्त्तितायां योनौ मैथुनप्रत्यायिको रताभिलाषोदयज-नितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सयो जन्तवस्तैजसकार्मणाभ्यां कर्मरज्जुसंदानितास्तत्रोत्पद्यन्ते / ते च प्रथममुभयोरपि स्नेहमाचिन्वन्त्यविध्वस्तायां योनौ सत्यामिति, विध्वस्यते तु योनिः- 'पञ्चपञ्चाशिका नारी सप्तसप्ततिः पुरुष इति।' तथा द्वादश मुहूर्तानि यावत् शुक्रशोणिते अविध्वस्तयोनिके मयतः, तत ऊर्ध्व ध्वंसमुपगच्छत इति। तत्र जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथास्वं स्त्रीपुनपुंसकभावेन समुत्पद्यन्ते, तदुत्तरं स्त्रीकुक्षी प्रक्षिप्ताः सन्तः स्त्रियाऽऽहारितस्याऽऽहारस्य निर्यासंस्नेहमाददति, तभेदेन च तेषां जन्तूनां कर्मोपचयाऽऽदानेन क्रमेण निष्पत्तिरुपजायते / "सत्ताहं कललं होइ, सत्ताह होइ बुब्युयं।'' इत्यादि। तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वा लोमभिर्वाऽऽनुपूर्येणाऽऽहारयन्ति, यथाक्रममानुपूर्येण वृद्धिमुपगताः सन्तो गर्भपरिपाकमुपपन्नाः, ततो मातुः कायादभिनिवर्तमानाः पृथग्भवन्तः सन्तस्तद्योनेर्निर्गच्छन्ति, ते च तथावि-धकर्मोदयादात्मनः स्त्रीपुंनपुंसकभावं जनयन्ति / तथोक्तम्- "अज्ञानपांशुपिहितं, पुरातनं कर्मवीजमविनाशि / तृष्णाजलाभिषिक्तं, मुञ्चति जन्माकुरं जन्तोः।।१।" इति। जम्म' शब्दे विस्तरतो विवेचितमिति 1414 पृष्ठे विलोकनीयम् / पूर्वोक्तवचनानुरोधेन निर्धार्यतेऽयमों यत् सुकर्मदुष्कर्मवशादेव जन्तुरनीशो जन्मजरामरणाऽऽदिक्लेशाननुभूय पुनरपि गडरिकाप्रवाहन्यायेन तेष्वेव निपततीति / अत एव जिनवचनाऽविश्वासरूपदुष्कृतिपरिणामतो जमालेः किल्यिषिकदेवेषूत्पत्तिावर्णिता, भगवद्वचसि श्रद्धामादधती जयन्ती श्राविका तु सुगतिमुररीचकारेति निर्विवादम् / इत्थं च"समस्तवस्तुविस्तारे, व्यासर्पत् तैलवज्जले। जीयात् श्रीशासनं जैन, धीदीपोद्दीप्तिवर्धनम्॥१॥" तस्माद् जिनवचनश्रद्धायांयतनावता भव्येन भाव्यम्। उक्तं च सैद्धान्तिकैः"जयणेह धम्मजणणी, जयणा धम्मस्स पालणी चेव। तववुड्डिकरी जयणा, एगंतसुहावहा जयणा / / 1 / / जयणाएँ वट्टमाणो, जीवो सम्मत्तनाणचरणाणं / सद्धाबोहाऽऽसेवण-भावेणाऽऽराहगो भणिओ // 2 // " किश्च"यत्नं विना धर्मविधायपीह, प्रवर्तमानोऽसुमतां विघातम्। करोति यस्माच ततो विधेयो, धर्मात्मना सर्वपदेषु यत्नः / / 1 / / '' अथ (जमालिप्रसङ्गादेव) तृतीयभागस्थप्रस्तावस्य 2 पृष्ठे च