________________ (17) घण्टापथः। अमला असकिलिट्ठा, ते हुंति परित्तसंसारी / / 1 / / " अथवा किंबहुना"कूरा वि सहावेणं, विसयविसवसानुगा वि होऊण। भावियजिणवयणमणा, तेल्लोक्कसुहावहा होति / / 1 / / " यतः"सुस्सूस धम्मराओ, गुरुदेवाणं जहासमाहीए। वेयावचे नियमो, सम्मद्दिहिस्स लिंगाई॥१॥" "एतेन तृतीयभागप्रस्तावोपन्यस्तपराभिसंधानविमुखत्वं भगवतस्तीर्थकरस्य रागद्वेषजेतृत्वेन सर्वतोभावेन समर्थितम् / किञ्चसमवसरणाऽऽदिसमये देशनाऽपरपर्यायेण जिनवचनेन योऽर्थः समर्थितस्तत्र विप्रतिपन्नस्य जमालेरिव दुर्गतिगमनमवश्यमेव संपद्यते। तथाहि तृतीयभागप्रस्तावे- “से नूणं भंते ! चलमाणे चलिए'' इत्यादि भगवत्प्ररूपितार्थवाचकं प्रश्रोत्तररूपं सूत्रमुपन्यस्तम्। तत्र विप्रतिपन्नस्य जमालेश्वरितमित्थम्-इहैव भरतक्षेत्रे कुण्डपुरं नामं नगरम्, तत्र भगवतः श्रीमन्महावीरस्य भागिनेयो जमालि म राजपुत्र आसीत्, तस्य च भार्या श्रीमन्महावीरस्य दुहिता सुदर्शना, अथकदाचित्पञ्चशतपुरुषपरिवारो जमालिभगवतो महावीरस्याग्रे प्रव्रज्यां जग्राह, सुदर्शनाऽपि सहस्रस्त्रीपरिवारा तदनु प्रव्रजिता। ततश्चैकादशस्वङ्गेष्वधीतेषु जमालिना भगवान् विहारार्थमुत्कलापितः, ततो भगवता तूष्णीमास्थाय न किश्चित् प्रत्युत्तरमदायि, तत एवममुत्कलितोऽपि पञ्चशतसाधुपरिवृतो निर्गतः श्रीमन्महा-वीरान्तिकात्, ग्रामानुग्रामंच पर्यटन गतः श्रावस्तीनगर्याम्, तत्र च तैन्दुकाभिधानोद्याने कोष्ठकनाम्नि चैत्ये स्थितः, ततश्च तत्र तस्यान्तप्रान्ताऽऽहारैस्तीव्रो रोगाऽऽतङ्कः समुत्पन्नः, तेन च न शक्नोत्युपविष्टः स्थातुम, ततो वभाण श्रमणान्-मन्निमित्तं शीघ्रमेव संस्तारकमास्तृणीत,येन तत्र तिष्ठामि, ततस्तैः कर्तुमारब्धोऽसौ / वाढ च दाहज्वराभिभूतेन जमालिना पृष्टम्-संस्तृतः संस्तारको, न वेति? साधुभिश्च संस्तृतप्रायत्वादर्धसंस्तृतेऽपि प्रोक्तम्-संस्तृत इति। ततोऽसौ वेदनावित लितचेता उत्थाय तत्र तिष्ठासुरर्द्धसंस्तृतं तद् दृष्ट्वा क्रुद्धः'क्रियमाणं कृतम्।' इत्यादिसिद्धान्तवचनं स्मृत्वा मिथ्यात्वमोहनीयोदयतो वक्ष्यमाणयुक्तिभिर्वितथमिति चिन्तयामास / ततः स्थविरैर्वक्ष्यमाणाभिरेव युक्तिभिः प्रतिबोधितो यदा कथमपि न प्रतिबुद्ध्यते, तदा गतास्तं परित्यज्य भगवत्समीपे, अन्ये तु तत्समीपमेव स्थिताः / सुदर्शनाऽपितदा तत्रैव श्रावकढङ्ककुम्भकारगृहे आसीत्। जमाल्यनुरागेण च तन्मतमेव प्रपन्ना, ढङ्कमपि तद् ग्राहयितुं प्रवृत्ता / ततो ढङ्केन मिथ्यात्वभुपगतेयमिति ज्ञात्वा प्रोक्तम् नेदृशं वयं किमपि जानीमः, अन्यदा च पाकाग्निमध्ये मृद्भाजनोद्वर्तनपरावर्तने कुर्वताऽङ्गारकमेकं प्रक्षिप्य तत्रैव प्रदेशे स्वाध्यायं कुर्वत्याः सुदर्शनायाः संघाट्यश्चलो दग्धः। तत-स्तया प्रोक्तम्-श्रावक ! किं त्वया मदीयसंघाटी दग्धा? तेनोक्तम्-- ननु 'दह्यमानमदग्धं, भवति, इति भवत्याः सिद्धान्तः, ततः क्व केन त्वदीया सङ्घाटी दग्धा? इत्यादि तदुक्तं परिभाव्य संबुद्धाऽसौ सम्यप्रेरिताऽस्मीस्यभिधाय मिथ्यादुष्कृतं ददाति, जमालिं च गत्वा प्रज्ञापयति / यदा चासौ कथमपि न प्रज्ञाप्यते, तदाऽसौ सपरिवारा, | शेषसाधवश्वकाकिनं जमालिं मुक्त्वा भगवत्समीपं जग्मुः, जमालिस्तु बहुजनं व्युद्ग्राह्य अनालोचितप्रतिक्रान्तः कालमासे काल कृत्वा किल्विषिकदेवेषूत्पन्नः। एतच्च चरितं विस्तरतः प्रज्ञापनासूत्रादवसेयम्। अथ जमालेर्विप्रतिपत्तिरुद्भाव्यतेसर्वमपि वस्तु क्रियमाणं कृतं न भवति, किन्तु कृतमेव कृतमुच्यते, ततो भगवत्यादौ यदुक्तम्- "चलमाणे चलिए, उदीरिजमाणे उदीरिए, वेइज्जमाणे वेइए।" इत्यादि, तत्सर्वं मिथ्या। किञ्चयस्य क्रियमाणं वस्तु कृतमित्यभ्युपगमः, तेनेह विद्यमानस्य करणरूपाः क्रिया अङ्गीकृताः, तथा च सति बहूनां दोषाणां प्रतिपत्तिर्मवति। तथाहि-इह क्रियमाणं कृतं न भवतीति प्रतिज्ञा कृतस्य विद्यमानत्वादिति हेतुः, चिरन्तनघटवदिति दृष्टान्तः / अथ कृतमपि क्रियत इत्यभ्युपगम्यते, तर्हि नित्यमनवरतमेव क्रियताम्, कृतकत्वाविशेषात्, एवं च सति न कदाचिदपि कार्यक्रियापरिसमाप्तिरिति। यदिच क्रियमाणं कृतमिष्यते, तर्हि घटाऽऽदिकार्यार्थ या मृन्मर्दनचक्रभ्रमणाऽऽदिका क्रिया, तस्या वैफल्य प्राप्नोति, तत्काले कार्यस्य कृतत्वाभ्युपगमात् / तथा च प्रयोगः-इह यत्कृतं, तक्रिया विफलैव, यथा चिरनिष्पन्नघटे कृतं चाभ्युपगम्यते क्रियाकाले कार्य , ततो विफला तत्र क्रियेति / किञ्च क्रियमाणकृतवादिना कृतस्य (विद्यमानस्य) क्रियेति प्रतिपादितं भवति, एवं च प्रत्यक्षविरोधः, यस्मादुत्पत्तिकालात् पूर्वमविद्यमानमेव कार्ये जायमानं दृश्यते, उत्पत्तिकाले तस्मात् क्रियमाणमकृतमेवेति। किञ्च आरम्भक्रियासमय एव कार्यमुत्पद्यते इति तवाभ्यु-पगमः। एतचायुक्तम्। यस्माद्घटाऽऽदिकार्याणामुत्पद्यमानानां दीर्घ एव निर्वर्तनक्रियाकालो दृश्यत इति / ननु दृश्यतां नाम दीर्घः क्रियाकालः, परं घटाऽऽदिकार्यमारम्भक्रियासमय एव, शिवकाऽऽदिकाले वा द्रक्ष्यत इति चेत्, तदयुक्तम्। यतो नाऽऽरम्भक्रियासमय एव घटाऽऽदिकार्य भवद् दृश्यते, नाऽपि शिवकस्थासकोशकुशूलाऽऽदिसमयेष्वपि दृश्यते, किन्तु दीर्घक्रियाकालस्यान्ते घटाऽऽदिकार्य भवद् दृश्यत, तस्मान्न क्रियाकाले कार्य युक्तं, तस्य तदानीमदर्शनात्। दीर्घक्रियाकालस्यान्ते तु युक्त कार्यम्, तदानीमेव तस्य दर्शनादिति सकलजनस्य प्रत्यक्षसिद्धमेवेदम्। तदा जमालेरेवमाचक्षाणस्य अप्येके निर्ग्रन्था एनमर्थ श्रद्दधति, अप्येके न श्रद्दधति, तत्र ये न श्रद्दधति, ते एवमाहुः-भगवन् ! भवतोऽयमाशयः- "यथा घटः पटो नैव, पटो वान घटो यथा। क्रियमाणं कृतं नैव, कृतं न क्रियमाणकम्॥१॥" प्रयोगश्चयौ निश्चितभेदौ, न तयोरैक्यम्, यथा घटपटयोः, निश्चितभेदे च कृतक्रियमाणके। अत्र चाऽसिद्धो हेतुः। तथाहि-कृतक्रियमाणे किमेकान्तेन निश्चितभेदे, अथकथञ्चित्? यद्येकान्तेन, तत्किं तदैक्ये रातोऽपि करण-प्रसङ्गतः उत क्रियाऽनुपरमप्राप्तेः, आहोस्वित् प्रथमाऽऽदिसमयेष्वपि कार्योपलम्भप्रसक्तेः, अथ क्रियावैफल्याऽऽपत्तितो दीर्घक्रियाकालदर्शनानुपपत्तेर्वा? तत्र न तावत् सतोऽपि करणप्रसङ्गत इति युक्तम्। असत्करणे हि खपुष्पाऽऽदेरेव करणमापद्यत इति कथञ्चित् सत एव करणमस्माभिरभ्युपगतम्, न चाभ्युपगतार्थस्य प्रसञ्जनं प्रयुज्यते।। नाऽपि क्रियाऽनुपरमप्राप्तेः, यत इह क्रिया किमेकविषया, भिन्नविषया वा? यधेकविषया, न दोषः। तथाहि-यदि कृतं क्रियमाणमुच्यते तदा तन्मतेन निष्पन्नमेव कृतमिति, तस्यापि क्रियमाणतायां क्रियाऽनुपरमप्राप्तिलक्ष