________________ जुगाइ 1575 - अभिधानराजेन्द्रः - भाग 4 जुग्गायरिया दिवसा भरहेरवए, राईया सह विदहेसु॥ युगस्य चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपसंवत्सरपञ्चकाऽऽत्मकस्याऽऽदिः संवत्सरः, स च चान्द्रः, तमसावन्ययुगस्य प्रवर्त्तनात् / चान्द्रस्य संवत्सरस्याऽऽदिर्मासः / स च श्रावणत आषाढपौर्णमासीचरमसमयः पाश्चात्ययुगस्य पर्यवसानं, ततोऽभिनवयुगस्याऽऽदिर्मासः प्रवर्तमानः श्रावण एव भवति, तस्यापि च मासस्य श्रावणस्याऽऽदिरर्द्धमासः पक्षः, पक्षद्वयमीलनेन मासस्य संभवात् / सोऽपि च पक्षो बहुलो वेदितव्यः, पौर्णमास्यनन्तरं बहुलपक्षस्यैव भावात्। तस्यापि च बहुलस्यार्द्धमासस्यापि भरतक्षेत्रे युगस्यादिः प्रवर्त्तते, ततो दिवस एव मासाऽऽदिरूप उत्पद्यते, यदाच भरतक्षेत्रे दिवसस्तदैरवतेऽपि दिवसः, तदा च पूर्वविदेहेष्वपरविदेहेषु च रात्रिः, अत ऐरवतेऽपि अर्द्धमासस्याऽऽदिर्दिवसो, महाविदेहेषु रात्रिरिति। संप्रति भरतैरवतेऽधिकृत्याऽऽदिप्ररूणार्थमाहदिवसाइ अहोरत्ता, बहुलाईयाणि होति पव्वाणि / अभिई नक्खत्ताई, रुद्दो आई मुहुत्ताणं / / भरते, ऐरवते च दिवसाऽऽदयो दिवसमूला अहोरात्राः, युग स्याऽऽदौ दिवसस्यैवेह प्रवर्त्तमानत्वात् / पर्वाणि पक्षरूपाणि बहुलाऽऽदीनि कृष्णानि भवन्ति, कृष्णपक्षस्यैव युगाऽऽदौ भावात्। तथा नक्षत्राणामादिरभिजित, तत एवाऽऽरभ्य नक्षत्राणां क्रमेण युगे प्रवर्तमानत्वात्। तथाहि-उत्तराषाढानक्षत्रचरमसमये पाश्चात्ययुगस्य पर्यवसानम् / ततोऽभिनव युगस्याऽऽदिनक्षत्रामभिजिदेव भवति / तथा मुहूर्तानामादिमुहूर्तो रुद्रः / इह दिवसाऽऽदिरहोरात्र इत्युक्तं , दिवसाऽऽदिके चाहोरात्रो क्रमेणामी पञ्चाशन्मुहूर्ताः / तद्यथा-प्रथमो मुहूर्तो रुद्रः, द्वितीय श्रेयान्, तृतीयो मित्रः,चतुर्थो वायुः, पञ्चमः सुपीतः, षष्ठोऽभिचन्द्र, सप्तमो माहेन्द्रः, अष्टमो बलवान्, नवमः पद्मः, दशमो बहुसत्यः, एकादश ईशानः, द्वादशस्तत्स्थः, त्रयोदशो भाविताऽऽत्मा, चतुर्दशो वैश्रवणः, पञ्चदशो वारुणः, षोडश आनन्दः, सप्तदशो विजयः, अष्टादशोविष्वक्सेनः, एकोनविंशतितमः प्राजापत्यः, विंशतितम् उपशमः, एकविंशतितमो गन्धर्वः, द्वाविंशतितमोऽग्निवेशः,त्रयोविंशतितमः शतवृषभः, चतुर्विंशतितम आतपवान्, पञ्चविंशतितमोऽममः, षड्विंशतितमोऽरुणवान्, सप्तविंशतितमो भौमः, अष्टाविंशतितमो वृषभः, एकोनत्रिंशत्तमः सर्वार्थः, त्रिंशत्तमो राक्षसः। उक्तं च जम्बूद्वीपप्रज्ञप्तौ"रुद्दो सेए मित्ते, वाऊ पीए तहेव अभिचंदे। माहिंद वलवपम्हे, बहुसचे चेव ईसाणे॥१॥ तत्थेव भावियप्पा, वेसमणो वारुणेय आणंदे। विजए य वीससेणे, पायावच्चे तह य उवसमए / / 2 / / गंधव्य अग्गिवेसो, सयरिसह आयवंच अममं च / रुणवं भोमे रिसहे, सव्वढे रक्खसाईया // 3 // " ततो युगे मुहूर्तानामादिको रुद्र एव भवति। ज्यो० 2 पाहु०। तथा च जम्बूद्वीपप्रज्ञप्तावेवोक्तम् "किमाइआ णं भंते ! संवच्छरा, किमाइआ आयणा, किमाइआ उऊ, किमाइआ मासा, किमाइआ पक्खा, किमाइआ अहोरत्ता, किमाइआ मुहुत्ता, किमाइआ करणा, किमाइआ णक्खत्ता पण्णत्ता? गोयमा ! चंदाइआ संवच्छरा, दक्खिणाइआ अयणा, पाउसाइआ उऊ, सावणाइआ मासा, बहुलाइआ पक्खा, दिवसाइआ अहोरत्ता, रोद्दाइआ मुहुत्ता, बालवाइया करणा, अभिजिआइया णक्खत्ता समणाउसो!" [जं०७ वक्ष०] तदेवं 'राईया सह विदेहेसु' इत्यनेन (पूर्वोक्तगाथा) अवयवेन महाविदेहेष्वनया गाथया भरतैरवतयोर्युगस्याऽऽदिः प्ररूपितः। संप्रति भरतैरवतविदेहेषु साधारणं युगस्याऽऽदि प्ररूपयतिसावणबहुलपडिवए, बालवकरणे अभीइनक्खत्ते। सव्वत्थ पढमसमए, जुगस्स आई वियाणाहि।। सर्वाभरते, ऐरवते, महाविदेहेषु च श्रावणमासे बहुलपक्षेकृष्णपक्षे प्रतिपदि तिथौ बालक्करणे अभिजिन्नक्षत्रो प्रथमसमये युगस्याऽऽदिं विजानीहि। ज्यो०२ पाहु०। सर्वत्रीति भरतैरावतविदेहेषु भाव्यम्।अवसर्पिण्या षण्णामारकाणामप्यादिः रागिरेव, विदेहेषु यद्यप्यारकाणामभावः, तथापि पञ्चसंवत्सराऽऽत्मकस्य युगस्य सद्भावः / मं०।। जुग्ग न० (युग्य) युज-यत्-कुत्वम्। "युग्यं च पत्रो" / / 3 / 6 / 126 / / इति (पाणिनि) सूत्रेण निपातनम् / अश्वाऽऽदिके वाहने, स्था० 4 ठा०३ उ०। प्रश्न० / युग्यमिव युग्यम्। संयमभार वोढरि साधौ, स्था०। युग्यभेदा यथाचत्तारि जुग्गा पण्णत्ता / तं जहा-जुत्ते, णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते, अजुत्ते णाममेगे जुत्ते, अजुत्ते णाममेगे अजुत्ते॥ युग्यं वाहनमश्वाऽऽदि / अथवा-गोल्लविषयेजम्पानं द्विहस्तप्रमाण चतुरस्रं सवेदिकमुपशोभितं युग्यकमुच्यते, तत् युक्तमारोहणसामग्रया पर्याणाऽऽदिकया पुनर्युक्तं वेगाऽऽदिभिरित्येवं यानवव्याख्येयम्।स्था० 4 ठा० 3 उ० / युगमर्हति युगं वा वहति यत् / युगवाहकेऽश्वाऽऽदौ, त्रि०ा वाच० / गन्त्र्यादिके, आचा० 1 श्रु० 1 अ० 5 उ०। गोल्लदेशप्रसिद्ध जम्पानविशेष, प्रश्न० 5 आश्र० द्वार / युग्यानि गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति। ज्ञा०१श्रु०१ अ०। अनु०।०।जी01 भ०।औ०। प्रश्न० / पुरुषोत्क्षिप्ते आकाशयाने, सूत्रा० / 2 श्रु० 2 अ० / युग्यं पुरुषोक्षिप्तमाकाशयान, जम्पानमित्यर्थः / ज०२ वक्ष० / जुग्गगय त्रि० (युग्यगत) वाहनोपरि स्थिते, औ०।। जुग्गय त्रि० (युग्यक) 'जुग्ग' शब्दार्थे, स्था० 4 ठा०३ उ०। जुग्गायरिया स्त्री० (युग्याचा) युग्यस्याऽऽचर्या वहनं गमनं युग्याचा / युग्यस्य गमने, स्था० 4 ठा० 3 उ०। युग्याचर्याभेदा:चत्तारि जुग्गायरिया पपणत्ता। तं जहा-पंथजाई णाम