________________ जुग 1566 - अभिधानराजेन्द्रः - भाग 4 अहोरात्रस्य 354 / 12/62 // तदेतत् त्रिभिर्गुण्यते, जातान्यहोराघाणां दश शतानि द्वाषष्टचधिकानि षट्त्रिंशच द्वाषष्टिभागा अहोरात्रस्य 1062 / 36/62 / अभिवर्द्धितसंवत्सरे चैकस्मिन्नहोरात्राणां त्रीणि शतानि त्र्यशीत्यधिकानि, चतुश्चत्वारिंशच द्वाषष्टिभागा अहोरात्रस्य 383 / 44/62 / एतद्वाभ्यां गुण्यते, जातानि सप्त शतानि षट्पट्याधिकानि, अहोरात्रस्य प्रकृताश्च षट्त्रिंशद् द्वाषष्टिभागा अष्टाशीतौ प्रक्षिप्यन्ते, जातं चतुर्विशत्यधिक शतम् 124 / तस्य द्वाषष्ट्या भागे हृते लब्धौ द्वावहोरात्रौ, तो पूर्वेष्वहोरात्रोषु मध्ये प्रक्षिप्येते, ततः सर्वसंकलनया जाता अहोरात्रा अष्टादशशतानि त्रिशदधिकानि 1830 / एतावन्तो युगेऽहोरात्राः / यदातुमुहूर्तपरिमाणं चिन्त्यते, तदा एकैकस्मिन्नहोरात्रो त्रिशन्मुहुर्ता इत्यष्टादश शतानि त्रिंशदधिकानि अहोरात्राणां त्रिशता गुण्यन्ते, जातानि चतुष्पञ्चाशत्सहस्त्राणि नवशतानि 54600 / एतावन्तो युगे मुहूर्ताः। तथा चोक्तं जम्बूद्वीपप्रज्ञप्तौ - 'पंचसंवच्छरिएणं भंते ! जुगे केवइआ मुहुत्ता पन्नत्ता ? गोयमा! पंचसंवच्छरिएणं जुगे दस अयणा, तासं उऊ, सट्टी मासा, एगे वीसुत्तरे पक्खसए, अद्वारस तीसा अहोरत्तसया, चउपण्णं मुहुत्तसहस्सा नव सया पन्नत्ता'' इति / (जं 7 वक्ष०) अत्रषष्टिर्मासा विंशत्युत्तरंचपक्षशतं सूर्यसंवत्सरापेक्षया द्रष्टव्यम्, ततो न कश्चिद् वक्ष्यमाणपौर्णमास्यादिसंख्यानेन / एकस्मिन्मुहूर्तोपरि चत्वार आढकाः, ततो यन्मुहूर्तपरिमाणं चतुष्पञ्चाशत्सहस्राणि नवशतानि तत् चतुर्भिर्गुण्यते ततो यथोक्तमाढकपमिाणं भवति। तथाएकैकरिमन्नहोरात्र मेयरूपतया परिमाणं त्रयो भाराः, अहोरात्राणां च युगे अष्टादशशतानि त्रिंशदधिकानि, ततस्तानि त्रिभिर्गुण्यन्ते, जातानि चतुष्पञ्चाशत्सहस्राणि नवत्यधिकानि 5460 / एतावन्तो भागा युगे। ज्यो०२ पाहु०। युगेऽयनाऽऽदिप्रमाण पृच्छनाहपंचसंवच्छरिए णं भंते ! जुगे केवइआ अयणा, केवइआ उऊ, एवं मासा, पक्खा, अहोरत्ता, केवइआ मुहुत्तापण्णत्ता? गोयमा ! पंचसंवच्छरिए णं जुगे दसं अयणा, तीसं उऊ, सट्ठीमासा, एगे वीसुत्तरे पक्खसए, अट्ठारसतीसा अहोरत्तसया, चउपण्णं मुहुत्तसहस्सा णव सया पण्णता। "पंचसंवच्छरिए णं भंते ! जुगे" इत्यादि। पञ्च संवत्सराः सौरा मानमस्येति पञ्चसांवत्सरिकं युगम्, अनेन नोत्तरसूत्रोण "दस अयणा'' इत्यादिकेन विरोधः, चान्द्रसंवत्सरोपयोगिनां चन्द्रायणानां तु चतुस्त्रिंशदधिकशतस्य संभवात्।जं०७ वक्षः। संप्रति युगे सर्वसंख्यया तिथिपरिमाणमहो रात्रपरिमाणं च प्रतिपादयतिअट्ठारस सट्ठिसया, तिहीण नियमा जुगम्मिनायव्वा। तत्थेव अहोरत्ता, तीसा अट्ठारससया उ॥ इह तिथयः राशिसंभवाः, अहोरात्रास्तुसूर्यसंभवाः, तत्र युगे तिथीना नियमाद्भवन्त्यष्टादशशतानिषष्ट्यधिकानि ज्ञातव्यानि। कयमिति चेत् ? उच्यते - इह सूर्यककमर्द्धमण्डलमेकेनाहोरात्रेण परिमितिं मापयति, तस्य चाहोरात्रास्य षष्टिभागोवर्द्धत, युगे चाहोरात्राणाणामष्टादशशतानि त्रिंशदधिकानि। तत एकषष्टिभागा अपि प्रवर्द्धमाना एतावन्तो लभ्यन्ते। तत एतेषां तिथिकरणार्थमेकषष्ट्या भागे हृते लब्धास्त्रिंशत्तिथयः, ता अहोराास्योपर्यधिकत्वेन प्रक्षिप्यन्ते / तत आगतं यथोक्ततिथिपरिमाणमिति। तथा तौवैकस्मिन् युगे अहोरात्रा अष्टादशशतानि त्रिशानि - त्रिंशदधिकानि भवन्ति / तथाहि- एकस्मिन् युगेऽन्यूनातिरिक्तानि पञ्च सूर्यवर्षाणि भवन्ति, एकैकमिश्च सूर्यवर्षे त्रीणि शतानि षट्पट्यधिकानि अहोरात्राणां, तानि पञ्चभिर्गुण्यन्ते, ततो यथोक्तमहोरात्रापरिमाणं भवति।। तत्थ पडिमिज्जमाणे, पंचहि माणेहि पुव्वगणिएहिं। मासेहिं विभज्जित्ता, जइ मासा होति ते वोच्छं / / तत्रानन्तरोक्तस्वरूपे युगेपञ्चभिमनिनिसंवत्सरैः, आदित्यसंवत्सराऽऽदिभिरित्यर्थः / पूर्वगणितैः प्राक्प्रतिसंख्यात स्वरूपैः, प्रतिमीयमाने परिगण्यमाने, मासैः सूर्याऽऽदिमासैः, विभज्यमाना मासा यावन्तो भवन्ति तान् वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिआइयेण उ सट्ठी, मासा उउणा उ होंति एगट्ठी। चंदेण य वावट्ठी, सत्तट्टी होंति नक्खत्ती।। आदित्येन आदित्यमासेन विभज्यमाना मासा युगे भवन्ति षष्टिः षष्टिसंख्याः / तथाहि-सूर्यमासे सार्धास्त्रिंशदहोरात्राः, युगे चाहोरात्राणामष्टादशशतानि त्रिशदधिकानि, तत एतेषां सार्द्धत्रिंशदहोरात्रैर्भागे ह्रियमाणे षष्टिर्मासा लभ्यन्ते। तथा ऋतुना ऋतुसंवत्सरस्य सत्कैसिर्विभज्यमाने युगे एकषष्टिर्मासा भवन्ति / ऋतुमासो हि त्रिशदहोरात्राप्रमाणः, ततोऽष्टादशशताना त्रिशदधिकानां त्रिंशता भागे हृते एकषष्टिरेव लभ्यत इति। तथा चान्द्रेण चान्द्रसंवत्सरसत्केन मासेन च विभज्यमाना मासा युगे सर्वसंख्यया द्वाषष्टिर्भवन्ति / तथाहि - चान्द्रमासपरिमाणमेकोनविंशदिनानि द्वात्रिंशच द्वाषष्टिभागा दिनस्य, ततएकोनत्रिंशदिनानिद्वाषष्टिभागकरणार्थं द्वाषष्टया गुण्यन्ते,जातानि सप्तदशशतान्यष्टनवत्यधिकानि 1768 / ततो द्वात्रिंशदुपरितना द्वाषष्टिभागास्तत्र प्रक्षिप्यन्ते, जातान्यष्टादशशतानि त्रिंशदधिकानि 1830 / येऽपि च युगाहोरात्रा अष्टादशशतानि त्रिशदधिकानि, तेऽपि द्वाषष्ट्या गुण्यन्ते, जात एको लक्षस्त्रयोदशसहस्त्राणि चत्वारि शतानि षष्ट्यधिकानि। 113460 // एतेषामष्टादशतैस्त्रिंशदधिकैश्चान्द्रमाससत्कद्वाषष्टिभागरूपैर्भागो हियते, लब्धाश्चन्द्रमासा द्वाषष्टिः / तथा नक्षत्रोण नक्षत्रमासे, परिगण्यमाने सर्वसंख्यया युगे नक्षत्रामासा सप्तषष्टिर्भवन्ति। तथाहि-नक्षत्रामासः सप्तविंशतिरहोरात्रा एकविंशतिः सप्तषष्टिभागाः, सप्तषष्टिभागकरणार्थ सप्तषष्ट्या गुण्यन्ते, जातान्यष्टादशशतानि नवोत्तराणि १८०६।तत उपरितनाएकविंशतिः सप्तषष्टिभागास्ता प्रक्षिप्यन्ते, जातान्यष्टादशशतानि त्रिशदधिकानि 1830 / युगस्यापि च संबन्धिनस्त्रिंशदधिकाष्टादशशतप्रमाणा अहोरात्राः सप्तषष्ट्या गुण्यन्ते, जात एको लक्षः विंशतिसहस्राणि षट्शतानि दशोत्तराणि 120610 / एतेषामष्टादशशतैस्त्रिंशदधिकैश्चन्द्रमास सत्कैदोषषष्टिभाग-रूपैर्भागो हियते, लब्धाः सप्तषष्टिमासाः। मासा सयपण्णासं, सत्तय राइंदियाइँ अभिवड्डे। एक्कारस य मुहुत्ता, विसट्ठिभागा य तेवीसं॥