________________ जुग 1565- अभिधानराजेन्द्रः - भाग 4 जुग संवत्सरं भूयश्चान्द्रमेव जानीहि, पञ्चममभिवर्द्धितम् / अत्र ये चान्द्राः संवत्सराः, ते द्वादशमासिकाः, यौ तु द्वावभिवर्द्धिता ऽऽख्यौ संवत्सरौ, तौ त्रयोदशमासिकौ चान्द्रमासप्रमाणेन। अत्र द्वितीयस्य चान्द्रसंवत्सरस्य य आदिसमयस्तदनन्तरं पञ्चाद्भावी समयः प्रथमचान्द्रसंवत्सरस्य पर्यवसानं च। तदानीं च चन्द्रमसो योग उत्तराषाढाभिः, उत्तराषाढानां च तदानीं शेषीभूताः षड्विंशतिर्मुहूर्ताः, षड्विंशतिश्च द्वाषष्टिभागा मुहूर्तस्य, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य सत्काश्चतुः पञ्चाशद् भागाः / उक्तं च - "जे णं वेचचंदसंवच्छरस्स आई से णं पढमस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरं पच्छाकडे समए तं समयं च णं चंदे केणं नक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छव्वीसमुहुत्ता, छव्वीसंचवावट्ठिभागा मुहत्तस्स, वावट्ठिभागंच सत्तविहा छेत्ता चउपण्णासं चुणिया सेसा' इति / तदानीं च सूर्यस्य योगः पुनर्वसुनक्षत्रोण, पुनर्वसुनक्षत्रास्यच तदा शेषीभूताः षोडश मुहुर्ताः, अष्टौ द्वाषष्टिभागा मुहूर्तस्य, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य सत्का विंशतिर्भागाः / उक्तं च - "तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ? ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता, अठय वावट्ठिभागा मुहुत्तस्स, वावट्ठिभागं च सत्तविहा छित्ता वीसं चुणिया भागा सेसा'' इति / तृतीयस्याभिवर्द्धिताऽऽख्यस्य संवत्सरस्य य आदिसमयस्तदनन्तरं पश्चाद्भावी समयो द्वितीयस्य चान्द्रसंवत्सरस्य पर्यवसाना, तदानीं च चन्द्रमसो योगः पूर्वाषाढाभिः,तासां च पूर्वाषाढानां शेषीभूताः सप्त मुहूर्तास्त्रिपञ्चाशच द्वाषष्टिभागा मुहूर्तस्य, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य सत्का एकोनचत्वारिंशद्भागाः / उक्तं च - "जे णं तच्चस्स अभिवड्डियसंक्च्छरस्स आई से णं दोयस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरं पच्छा कडे समए तं समयं च णं चंदे केणं नक्खत्तेणं जोएइ ? ता पुव्वाहि आसाढहि, पुव्वाणं आसाढाणं सत्त मुहत्ता, तिपण्णासं च वावट्टिभागा सुहत्तस्स, वावढि च सत्तट्ठिहा छित्ता उणयलीसं चुण्णिया भागा सेसा" इति / तदानीं च सूर्यस्य योगः पुनर्वसुनक्षत्रेण, तस्य च पुनर्वसुनक्षत्रास्य तदा शेषीभूता द्विचत्वारिंशन्मुहूर्ताः, पञ्चत्रिंशच्च द्वाषष्टिभागा मुहुर्तस्य, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य सत्काः सप्त भागाः / उक्तं च - "तं समयं च णं सूरे केणं नक्खत्तेण जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स बायालीसं सुहुत्ता, पणतीसं च वावहिभागा मुहुत्तस्स, बावविभागं च सत्तट्टिहा छित्ता सत्त चुणिया भागा सेसा" इति। चतुर्थस्य संवत्सरस्य य आदिसमयस्तदनन्तरं पश्चाद्भावी समयस्तदनन्तरमभिवर्द्धिताऽऽख्यस्य संवत्सरस्य पर्यवसानं तदानी यश्चन्द्रमसो योग उत्तराषाढाभिः, तासामुत्तराषाढानां शेषीभूतानां तदानीं त्रयोदश मुहस्त्रियोदश च द्वाषष्टिभागा मुहूर्तस्य, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य सत्काः सप्तविंशतिर्भागाः। उक्तं च - "जे णं चउत्थस्स संवच्छरस्स आईसेणं तबस्स अभिवड्डियसंवच्छरस्सपज्जवसाणे अणंतरं पच्छे कडे समएतं समयं च णं चंदे केण नक्खत्तेण जोएइ ? तो उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहुत्ता, तेरस य वावट्ठिभागा मुहुत्तस्स, वावट्ठिभागं च सत्तट्टिहा छेत्ता सत्तावीसं चुणिया भागा सेसा" इति। तदानीं च सूर्यस्य योगः पुनर्वसुन क्षत्रोण, पुनर्वसुनक्षत्रास्य च तदा द्वौ मुहुर्ती षट्पञ्चाशद् द्वाषष्टिंभागा मुहुर्तस्य, एकस्य चद्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य सत्काः षष्टिभागाः शेषाः। उक्तं च- "तं समयंचणं सूरे केणं नक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स दो मुहुत्तभागा छप्पन्नं वावट्ठिभागा मुहुत्तस्स, वावर्द्धि च सत्तट्ठिहा छित्ता सट्टी चुणिया भागा सेसा'' इति / पञ्चमस्य त्वभिवर्द्धितस्य संवत्सरस्य य आदिसमयस्तदनन्तरं पश्चाद्भावी समयश्चतुर्थस्य चान्द्रस्य संवत्सरस्य पर्यवसानं, तदा च चन्द्रमसो योग उत्तराषाढानक्षत्रोण, तस्य चोत्तराषाढानक्षत्रास्य तदानीं शेषीभूता एकोनचत्वारिंशन्मुहूत्तश्चित्वारिंशद् द्वाषष्टिभागा मुहूर्तस्य, द्वाषष्टिभागस्य सप्तषष्टिधा प्रविभक्तस्य सप्तचत्वारिंशद् भागाः / उक्तं च - "जे णं पंचमस्स अभिवड्डि यसंवच्छरस्स आई से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरं पच्छाकडे समए तं समयं च णं चंदे केणं नक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं गुणतालीसं मुहुत्ता, चत्तालीसं च वावट्ठिभागा मुहत्तस्स, वावट्ठिभागं च सत्तट्टिहा छित्ता छीयालीसं (?) चुण्णिया भागा सेसा" इति। तदानीं च योगः सूर्यस्य पुनर्वसुन क्षत्रोण, तस्य च पुनर्वसुनक्षत्रस्य तदा शेषी भूता एकोनत्रिश न्मुहुर्ताः एकविंशतिषष्टिभागा मुहूर्तस्य, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य सत्काःसप्तचत्वारिंशद्भागाः। उक्तं च - "तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स अउणातीसं मुहुत्ता एगवीसं च वावट्ठि भागा, वावविभागं च सत्तट्ठिहा छित्ता छीयालीसं (?) चुणिया भागा सेसा' इति / यश्च द्वितीयस्य युगस्याऽऽदिभूतस्य चन्द्रसंवत्सरस्य प्रथमसमयस्तदनन्तरं पश्चादावी समयः पञ्चमस्याभिवर्द्धितसंवत्सरस्य पर्यवसानं तदानीं चन्द्रमसो योग उत्तराषाढानक्षत्रोण, सोऽपि चरमसमयवर्ती सूर्यस्याऽपि च पुष्यनक्षत्रोण पुण्यस्याऽपि च तदानीं वर्षीभूता एकविंशतिमुहूत्तस्त्रियश्चत्वारिंशत् द्वाषष्टिभागा मुहूर्तस्य, एकस्य च द्वाषष्टिभागस्य सप्तष्टिधा छिन्नस्य त्रयस्त्रिंशद् भागाः। उक्तं च - "ता जेणं पढमस्स चंदसंवच्छरस्स आईसेणं पढमरस अभिवडियसंवच्छरस्स पजवसाणे अणंतरं पच्छाकडे समए तं समयं च णं चंदे केणं नक्खत्तेणं जोइए? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमए। तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ? ता पुस्सेणं, एकवीसं मुहत्ता तेयालीसं च, वावविभागं च सत्तढिहा छित्ता तेत्तीसं चुण्णिया भागा सेसा' इति / सर्वत्रा च सुर्यनक्षत्रयोगचिन्तायां मुहूर्ताः सूर्यमुहूर्ता वेदितव्याः, न तु व्यावहारिकाः। संप्रति युगेऽपि तौल्यरूपतया मेयरूपतया च परिमाणमतिदेशेन प्रतिपादयन्नाह -- चंदमभिबड्डियाणं, वासाणं पुव्ववन्नियाणं च। तिविहं पितं पमाणं,जुगम्मि सव्वं निरवसेसं // चन्द्राभिधानानां त्रयाणां संवत्सराणां, द्वयोश्चाभिवर्द्धिसंवत्सरयोरित्यर्थः / कथंभूतानामित्याह-पूर्ववर्णितानां पूर्व प्राक अहोरात्राऽऽदिप्रमाणेन तौल्यरुपतया वाऽभिहितानां, समुदायरूपे युगे विविधमप्यहोरात्राऽऽदिरूपतया तत्प्रमाणं सर्व निरवशेषमवगन्तव्यम् / तत्राहोरात्राप्रमाणं युगेऽष्टादशशतानि शिदधिकानि। 1830 / तथाहि - युगे चान्द्रसंवत्सरास्त्रयः, द्वौ चाभिवर्द्धितसंवत्सरौ, चान्द्रसंवत्सरे चैकस्मिन्नहोरात्राणा त्रीणि शतानि चतुष्पञ्चाशदधिकानि / द्वादश च द्वाषष्टिभाग