SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ जीविय 1565 - अभिधानराजेन्द्रः - भाग 4 जीवियासंसप्पओग इत्युक्तदृष्टान्तेन, इत्वरे स्वल्पकालपरिमाणे, मनुष्याऽऽयुषिभो गौतम ! पुरा कृतं रजः प्राचीनकृतं पातकं दुष्कर्म, विशेषेण धुनीहि जीवात् पृथक कुरु। हे गौतम ! पुनर्जीवितिके अर्थात् सोपक्रमे आयुषि, बहवः प्रत्यवाया उपघातहेतवोऽध्यवसायाऽऽदयो वर्तन्ते यस्मिन् तद् बहुप्रत्यवायकं, तस्मिन् बहुप्रत्यवायके, समयमपि मा प्रमादं कुर्याः / अत्राऽऽयुःशब्देन निरुपक्रम आयुर्भण्यते, जीवितशब्देन सोपक्रम भण्यते / एतिप्राप्रोति उपक्रमहेतुभिरनपवर्त्यतया यथास्थित्या एव अनुभवन्निति आयुः। तरिमन्नायुषि निरुपक्रमे आयुषि स्वल्पपरिमाणेऽपि दुष्कृतं दूरीकुरु।। यद्यपि पूर्वकोटिप्रमाणयुर्भवति, तथापि देवापेक्षया स्वल्पमेव ज्ञेयम्, अतृप्तत्वात्। यदुक्तम् - "धनेषु जीवितव्येषु, रतिकामेषु भारत ! अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च / / 1 / / " अत्रा सोपक्रमनिरुक्रमायुर्ज्ञानं केवलिन एव भवेत्। उत्त०१० अ०। ता किमत्थं आउसो ! नो एवं चिंतेयव्वं भवइ / अंतराय - बहुले खलु अयं जीविए, इमे बहवे वाइयपित्तियसिंभियसंनिवाइया विविहा रोगाऽऽयंका फुसंति जीवियं / / तावदादौ किमर्थं नैवं चिन्तयितव्यम्, हे आयुष्मन् ! त्वं श्रृणु, यतो भवति अन्तरायबहुलं विधप्रचुरमिदं, खलु निश्चये, जीवितमायुर्जीवानाम् / तथा इमे प्रत्यक्षा बहवो वातिका वातरोगोद्भवाः, पैत्तिकाः / पित्तरोगजाः (सिंभिए त्ति) श्लेष्मभवाः, सान्निपातिकाः सन्निपातजन्याः, विविधा अनेकप्रकारा रोगा व्याधयः,ते च ते आतङ्काश्च कृच्छ्रजीवितकारिण इति रोगाऽऽतङ्का जीवितं स्पृशन्तीति / तं० / शरीरे, उत्त० 10 अ०। भगवान् श्रीमहावीरदेवो गौतमस्वामिनमुद्दिश्यान्यानपि भव्यजीवानुपदिशतिदुमपत्तएँ पंडुए जहा, निवडइराइगणाण अच्चए। एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए / / 1 / / हे गौतम! एवमतेन दृष्टान्तेन, मनुजानां मनुष्याणां, जीवितं जानीहि, त्वं समय समयमात्रमपि, मा प्रमादीः प्रमादं मा कुर्याः / अत्रा समयमात्रग्रहणमत्यन्तप्रमादनिवारणार्थ, अनेन केन दृष्टान्तेन? तद् दृष्टान्तमाह - यथा रात्रिगणानामत्यये गमने, रात्रीणांगणा रात्रिगणाः कालपरिणामाः रात्रिदिवससमूहाः, तेषामत्ययेऽतिक्रमे पाण्डुरं द्रुमपत्रक पक्कं वृन्तात शिथिलप्रायं पर्णं निपतति, तथैव दिनानामत्यये आयुर्लक्षणे वृन्ते शिथिले जाते सति जीवितं शरीरं पतति / जीवो जातो यस्मिन् तज्जीवितं, शरीरमित्यर्थः / जीवितस्य कालस्य विनाशाभावाद् जीवितशब्देन शरीरमुच्यते / उत्त० 10 अ० / जीवितमिव जीवितम्। द्वादशाङ्गे श्रुते, मर्यादायां च। विशे०। आ० म०। जीवियंतकरणपुं० (जीवितान्तकरण) प्राणवधे, प्राणवधस्य चैतद् गौणं नाम / प्रश्न०१आश्र० द्वार। जीवियहि (ण) पुं० (जीवितार्थिन्) जीवितुकामे, "जो वा विसं खायइ जीवियट्ठी।"दश०६ अ०१ उ०। आचा०। सूत्रा० / 'आयं न कुजा इह जीवियडी।' इहासंयमजीवितार्थी प्रभूतकालं सुखेन जीविष्यामीत्येतदध्यवसायी आयं कर्माऽऽश्रवलक्षणं न कुर्यात्। सूत्रा०१ श्रु०१० अ०। | जीवियणाम (ण) न० (जीवितनामन) जीविकाहेतौ नामनि, | अनु० / "से कि तं जीवियणामे ? जीवियणामे अवकरए उकुरुडिए उंभिअए कजवए सुप्पए। सेत्तं जीवियणामे।''"से किं तंजीवियणामे" इत्यादि / इह यस्या जातमात्रमपत्यं म्रियते सा लोकस्थितिवैचित्र्याजातमात्रमपि किश्चिदपत्यं जीवननिमित्तमवकराऽऽदिष्वस्यति तस्य चावकरक उत्कु रुटक इत्यादि यन्नाम क्रियते तज्जीविकाहेतोः स्थापनानामाऽऽख्यायते। (सुप्पए ति) सूर्यं कृत्वात्यज्यते, तस्य सूर्पक एव नाम स्थाप्यते, शेष प्रतीतम्। अनु० / जीवियभावणा स्त्री० (जीवितभावना) जीवसमाधानकारिण्यां भावनायाम्, सूत्र०। यथा भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह -- भूएहिं न विरुज्झेजा, एस धम्मे बुसीमओ। साहू जगं परिन्नाय, अस्सिं जीवितभावणा / / 4 / / ''भूएहिं" इत्यादि / भूतैः स्थावरजङ्ग मैः सह विरोधं न कुर्यात. तदुपघातकारिणमारम्भं तद्विरोधकारणं दूरतः परिवर्जयेदित्यर्थः / स एषोऽनन्तरोक्तो भूताविरोधकारी, धर्मः स्वभावः, पुण्याऽऽख्यो वा, (बुसीमओ त्ति) तीर्थकृतोऽयं सत्संयमवतो वेति / तथा सत्संयमवान् साधुस्तीर्थकृज्जग च्चराचरभूतग्रामाऽऽख्यं केवलाऽऽलोकेन सर्वज्ञप्रतीताऽगमपरिज्ञानेन वा परिज्ञाय सम्यगवबुध्यास्मिन् जगति मौनीन्द्रे वा धर्मे भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा या अभिमतास्ता जीवितभावना जीवससाधानकारिणीः सत्संयमाङ्ग तया मोक्ष - कारिणीवियदिति। सूत्र०१ श्रु०१५ अ०। जीवियमरणनिरवकंख त्रि०(जीवितमरणनिरवकाक्ष)जीवितमरणयोर्विषये निरवकासो जीवितमरणानिरवकाङ्क्ष / जीवितमरणयोर्विषये वाच्छारहिते, कल्प०६ क्षण / जीवियरसभ पुं० (जीविकरसभ) साधारणशरीरबादरवनस्पति कायिकभेदे, प्रज्ञा०१ पद। जीवियरेहा स्त्री० (जीवितरेखा) मणिबन्धादुत्थाय तर्जन्यङ्गुष्ठ कान्तर्गतायां रेखायाम्, कल्प०। 'मणिबन्धात्पितुर्लेखा, करभाद्विभवायुषोः / लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यपृष्ठकान्तरम् / / 11 / / येषा रेखा इमास्तिस्रः, संपूर्णा दोषवर्जिताः। तेषां गोत्रधनायूंषि, संपूर्णान्यन्यथा न तु॥१२।। उल्लध्यन्ते च यावन्त्यो–ऽङ्गुल्यो जीवितरेखया। पञ्चविंशतयो ज्ञेया-स्तावन्त्यः शरदां बुधैः" ||13|| कल्प० १क्षण। जीविया स्त्री० (जीविका) 'जीव' आकन-इत्वम्। जीवनोपाये, आजीवने च।वाच० / वृत्तौ, स्था० 4 ठा०२ उ०। आजन्मनिर्वाह, ज्ञा०१ श्रु०१ अ०। कल्प०। "सा जीविया पट्टविया चिरेण। " सूत्रा०२ श्रु०६ अ०। जीवियारिह त्रि० (जीविकाऽह) जीविकोचिते, भ०११श०११ उ०। आजन्मनिर्वाहयोग्ये, "विउलं जीवियारिहं पीइदाणं दलइ। " ज्ञा०१ श्रु०१ अ० / कल्प० / औ०। जीवियासंसप्पओग पुं० (जीविताऽऽशंमाप्रयोग) जीवितं प्रत्याशंसा चिरं मे जीवितं भवन्विति जीविताऽऽशंसाप्रयोगः / आशंसा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy