________________ जीवि(ण) 1564 - अभिधानराजेन्द्रः - भाग 4 जीविय जीवि (ण) पुं०(जीविन्) प्राणधारके, "जे एते एव जीविणो।' य एते यतय एवं जीवन्ति परगृहाण्यटन्तोऽन्तप्रान्तभोजिनो दत्ताऽऽदाना लुञ्चितशिरसः सर्वभोगवञ्चिता दुःखितं जीवन्तीति। सूत्र० श्रु०३ अ० १उ०। जीविउकाम त्रि० (जीवितुकाम) दीर्घकालमायुष्काभिलाषिणि, 'अप्पियवहा पियजीविणो जीविउकामा।' यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामा:-दीर्घकालमायुष्काभिलाषिणः। (आचा०) "जीविउकामे लालप्पमाणे''। जीवितुकाम आयुष्कानुभवनमभिलषमाणः। आचा०१ श्रु०२ अ० 3 उ०। जीविओसविय त्रि० (जीवितोत्सविक ) जीवितस्योत्सव इव जीवितोत्सवः, स एव जीवितोत्सविकः / राधा ज्ञा०ा जीवितविषये वा उत्सवो महः, य इव यः स जीवितोत्सविकः। भ०1"जीविओसविए। भ०६ श०३३ उ०। रा०। ज्ञा०। रा०। जीविओसासिय त्रि० (जीवितोछवासिक) जीवितमुच्छवासयति वर्द्धयतीति जीवितोच्छवासः, स एव जीवितोच्छवासिकः। जीवितवर्द्धक, भ०६ श०३३ उ०। ज्ञा०। जीवियन० (जीवित) प्राणधारणे, रा०। प्रश्न०। विशे०। ज्ञा०। आव०। आनु० / नि०। "जीवियं णाभिकंखेज्जा / " जीवितं प्राणधारणलक्षणं नाभिकाङ्केत / आचा०१ श्रु० 8 अ०८ उ०/"ते वीरा बंधणोमुक्का, नावकंखंति जीवियं।" जीवितमसंयमजीवितं प्राणधारणं वा। सूत्रा०१ श्रु०६ अ०। "जीवितं दुविहसंजमजीवियं, असंजमजीवियं च / नि० चू०१उ०। फुसियमिव कुसग्गे पणुण्णं सण्णिवइयं वातेरियं एवं बालस्स जीवियं। कुशाग्रोदकबिन्दुमिव बालस्य जीवितमिति संबन्धः / तत्किं - भूतमित्याह - "पणुन्नं' इत्यादि / प्रणुन्नमनवरताऽपराऽपरोदकपरमाणूपचयात् प्रणुन्नं प्रेरितं, वातेने रितं संनिपतितंभाविनि भूतवदुपचारानिपतदेव, निपतितं, दार्शन्तिकं दर्शयत्येवमिति-यथाकुशाग्रमित्येवमिति / यथा-कुशाग्रे विन्दु क्षणसंभावितस्थितिकः, एवं बालस्यापि जीवितम्, अवगततत्त्वो हि स्वयमेवावगच्छति। आचा०१ श्रु०५ अ०१उ०। जीवितं दशधा। तथा चाऽऽह - नामं ठवणा दविए, ओहे भव तब्भवे य भोगे य। संजम जस कित्ती जी-वियं च तं भन्नए दसहा।। तद् जीवितं दशधा भण्यते। तद्यथा- नामजीवितं स्थापनाजीवितं, द्रव्यजीवितम्, ओघजीवितं, भवजीवितं, तद्भयजीवितं, भोगजीवितं, | संयमजीवितं, यशोजीवितं, कीर्त्ति-जीवितं च / एष गाथासमासार्थः / व्यासार्थ तु भाष्यकारः स्वयमेव वक्ष्यति। तत्रा नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याख्यानार्थमाहदव्वे सचित्तादी, आउयसद्दव्वयाभवे ओहे। नेरइयाईण भवे, तब्भव तत्थेव उववत्ती॥ द्रव्ये द्रव्यविषयं जीवितं, द्रव्यजीवितमित्यर्थः / सचित्ताऽऽदिसचित्तमचित्तं, मिश्रं च / इह कारणे कार्योपचाराद् येन द्रव्येण सचित्ताचित्तमिश्रभेदेन पुत्राहिरण्योभयरूपेण यस्य यथा जीवित मायत्तं तस्य तथा तत्रा द्रव्यजीवितमुच्यते / उक्तं द्रव्यजीवितम्। (आउयसह-व्वयाभवे ओहे) ओघजीवितं सामान्यजीवितमायुः सद्रव्यता आयुः प्रदेशकर्म, तस्य द्रव्यैः सह मानता आयुःसद्रव्यता, आयुःकर्मद्रव्यसहचारिता, जीवस्येत्यर्थः / इदं च सामान्यजीवितं सकलसंसारिणामविशेषेण सर्वदा भावि, तत इदमङ्गीकृत्य यदि पर सिद्धा एव मृताः, न पुनरन्ये केचन। उक्तमोघजीवितम् / नैरयिकाऽऽदीनां नैरयिकतिर्यड्नरामराणां भवे स्वस्वभवे स्थितिर्भवजीवितम् / उक्तं भवजीवितम्। (तब्भव तत्थेव उववत्ती) तस्मिन् भवे भूयो भूयो जीवितं तद्भवजीवितम्। किं तदित्याह -- तत्रौवोत्पत्तिः तत्र तस्मिन्नधिकृते तिर्यग्भवे, मनुष्यभवे वा स्वकायस्थित्यनुसारेण भूयो भूय उत्पत्तिः / इदं चौदारिकशरीरिणामेवावसातव्यम्, अन्यत्रा निरन्तरं भूयोभूयस्तावोत्पत्यभावात् / उक्तं तद्भजीवितम्। भोगम्मि चक्किमाई,संजमजीयं तु संजयजणस्स। जसकित्ती य भयवतो, संजम नरजीव अहिगारो।। भोगे भोगजीवितं चक्रवादीनाम, आदिशब्दाद् बलदेववासुदेवाऽऽदिपरिग्रहः / उक्तं भोगजीवितम् / संयमजीवितं संयतजनस्य साधुलोक स्य / उक्तं संयमजीवितम् / यशः कीर्ति भगवतो वर्द्धमानस्वामिनः / ततो यशोजीवितं कीत्तिजीवित च भगवतः प्रतिपत्तव्यम् / यशः कीयोश्चायं विशेष :- "दानपुण्यफला कीर्तिः पराक्रमकृतं यशः / " अन्ये त्विदमेकमेवाभिदधति, के वलं संयमप्रतिपक्षभावतो दशमसंयमजीवितमविरतगतं प्रतिगहन्ति / आ० म० 1 अ०२ खण्ड। विशे० / आ० चू० / जीवन्त्यनेनाऽऽयुष्कर्मणेति जीवितम्। प्राणधारणाऽऽत्मके आयुषि, आचा० 1 श्रु० 1 अ० 1 उ० / "जीवियं दुप्पडिवूहणं" जीवितमायुष्कं तत् क्षीणं सत् दुष्प्रतिवृहणीयं दुरभावार्थो, नैव वृद्धि नीयते इति यावत्। आचा०१ श्रु०२ अ०५ उ० / अथवा जीवितमायुष्कमसंयमजीवितं वेति। आचा० 1 श्रु० 2 अ० 2 उ०। "णो जीवियं णो मरणाहिकंखी।" जीवितमसंयमजीवितं, दीर्घायुष्कं वा। सूत्रा०१ श्रु०१३ अ०। "ण य संखयमाहु जीवियं, तह वि य बालजणो पगब्भइ / " न च चैव जीवितमायुष्कं कालपर्यायण शुटितं सत् पुनः (संखयमिति) संस्कर्तुं तन्तुवत्संधातुं शक्यते, इत्येवमाहुस्तद्विदः, तथाऽप्येवमपि व्यवस्थिते, बालोऽज्ञोजनः प्रगल्भते पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोऽपि न लज्जत इति। सूत्रा०१ श्रु०२ अ० 2 उ० / न च नैव शुटितं जीवितमायुः संस्कर्तुं संधातुं शक्यते, एवमाहुः सर्वज्ञाः / तथाहि - "दंडकलियं करित्ता, वचंति हु राइओ य दिवसा य / आऊस चेल्लंता, गया य पुण नाणानियतं ति ||1 // " तथाऽप्येवमपि व्यवस्थिते जीवानामायुषि बालजनोऽन्यो लोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् प्रगल्भते धृष्टतां याति, असदनुष्ठानेनापि न लज्जत इत्यर्थः। सूत्र०१ श्रु०२ अ०३ उ०। कुसग्गे जह ओसविंदुए, थोवं चिट्ठइ लंवमाणए। एवं मणुयाण जीवियं, समयं गोयम! मा पमायए ||2|| हे गौतम ! समयमात्रामपि मा प्रमादीः / तद्धेतमाह- यथा कुशस्यागे अवश्यायबिन्दुर्लम्बमानः सन् स्तोकं स्तोककालं तिष्ठति वाताऽऽदिना प्रेर्यमाणाः सन् पतति, तथा मनुष्याणां जीवितम् आयुरस्थिरं ज्ञेयम्। एवमायुषोऽनित्यत्वं ज्ञात्वा धर्मे प्रमादोन विधेय इत्यर्थः / / 2 / / इह इत्तरियम्मि आऊए, जीवियए बहुपचवायए। विहुणाहि रयं पुरा कडं, समयं गोयम ! मा पमायए ||3||