SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ जीवाजीव 1560- अभिधानराजेन्द्रः - भाग 4 जीवाजीव व्यतिभदाऽऽद्युदाहरणोपलक्षितः समयः, तस्य चातीताऽऽदिवि वक्षयाबहुत्वाबहुवचनमित्याह - ''समयाइ वा'' इत्यादि। इति शब्द उपदर्शने / वाशब्दो विकल्पे। तथाऽसंख्यातसमयसमुदाया ऽऽत्मिका आवलिका क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तर द्विशततमभागभूता इति, तत्रा समया इति वा आवलिका इति वा यत् कालवस्तु तदविभागेन जीवा इति च जीवपर्यायत्वात् पर्यायपर्यायिणोश्च कथञ्चिदभेदात्। तथा अजीवानां पुद्गलाऽऽदीनांपर्यायत्वादजीया इति / वकारौ समुच्चायार्थी, दीर्घता च प्राकृतत्वात्। प्रोच्यते अभिधीयत इति न जीवाऽऽदि व्यतिरेकिणः समयाऽऽदयः / तथाहि जीवाजीवानां सादिसपर्यव सानाऽऽदिभेदा या स्थितिस्तद्भेदाः समयाऽऽदयः / सा च तभुमः, धर्मश्च धर्मिणो नात्यन्तभेदवान, अत्यन्तभेदेहि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियत धर्मधर्मिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदविशेषात्। दृश्यते च यदा कश्चिद्धरतितरूतरूणशास्त्राविसरविवरान्तरतः किमपि शुल्कं पश्यति, तदा 'किमियं पताका, किं वा वलाका ?' इत्येवं प्रतिनियतधर्मिविषयसंशय इति। अभेदे हि सर्वथा संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादिति / इह त्वभेवनयाऽऽश्रयणाजीवा इतिवेत्याधुक्तम्। इह च समयाऽऽ वलिकालक्षणार्थद्वयस्याजीवाऽऽदिद्वयाऽऽत्मकतया भणनाद् द्विस्थानकावतारो दृश्यः एवमुत्तरसूत्राण्यपि नेयानि, विशेषं तु वक्ष्याम इति / (आणपाणु इत्यादि)। आनप्राणावित्युच्छवास निःश्वासकालः संख्याताऽऽवलिकाप्रमाणः। आहच"हट्ठस्स अणवगल्ल-स्स निरूवकिट्ठस्स जंतुणो। एगे उरसासनिस्सासे, एस पाणु त्ति वुचई ||1|| तथा स्तोकाः सप्तोच्छवासनिःश्वासप्रमाणाः, क्षणाः संख्यात प्रमाणलक्षणाः, सप्तस्तोकप्रमाणा लवाः। एवमिति यथा प्राक्तने सूत्रााये जीवा इति यद्धा अजीवा इति च प्रोच्यन्ते इत्यधीतम्, एवं सर्वेषुत्तरसूत्रोत्वित्यर्थः / मुहूर्ताः सप्तसप्ततिल वप्राणाः। उक्तञ्च"सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे। लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए॥१॥ तिन्नि सहस्सा सत्त य, सयाइ ते उत्तरं च उस्सासा। एस मुहुत्तो भणिओ, सव्वेहिँ अणंतनाणीहिं' ||2|| अहोरात्रास्त्रिंशन्मुहूर्तप्रमाणाः पक्षाः पञ्चदशाहोरात्र प्रमाणाः, मासा द्विपक्षाः, ऋतवो द्विमासमाना वसन्ताऽऽद्याः, अयनानि ऋतुत्रयमानानि, सम्वत्सरा अयनद्धयमानाः, युगानि पञ्चसम्वत्सराणि, वर्षशताऽऽदीनि प्रतीतानि, पूर्वाङ्गानि चतुर शीतिवर्षलक्षप्रमाणानि, पूर्वाणि पूर्वाङ्गान्येव चतुरशीतिवर्ष लक्षगुणितानि। इदञ्चैषां मानम् - "पुव्वस्स उ परिमाणं, सयरिं खलु होति कोडिलक्खाओ। उप्पन्नं च सहस्सा, बोधव्वा वासकोडीणं ||1|| 60560000000000 पूर्वाणि चतुरशीतिलक्षगुणितानि त्रुटिताङ्गानि भवन्ति। एवं पूर्वस्य पूर्वस्य चतुरशीतिलक्षगुणने नोत्तरमुत्तरं संख्यानं भवति, यावच्छीर्षप्रहेलिकेति / तस्यां चतुर्नवत्यधिकमइस्थानशतं भवति। अत्रा करणयागाथा "इच्छियठाणेण गुणं, पण सुन्नं चउसीइगुणियं च। काऊण तइयवारे, पुव्वंगाईण मुण संखं / / 1 / / शीर्षप्रहेलिकान्तः सांव्यवहारिकाः संख्यातः कालः, तेन च प्रथमपृथिवीनारकाणां भवनपतिव्यन्तराणां भरतैरवतेषु सुषमदुःषमायाः पश्चिमे भागे नरतिरश्वा चाऽऽयुर्मीयत इति / किं च शीर्षप्रहेलिकायाः परतोऽप्यस्ति संख्यातः कालः / स चानतिशायिनां न व्यवहारविषय इति कृत्वौपम्ये प्रक्षिप्तः, अतएव शीर्षप्रहेलिकायाः, परतः पल्योपमाऽऽधुपन्यासः / तत्र पल्येनोपमा येषु तानि पल्योपमानि असंख्यातवर्षकोटि कोटीप्रमाणानि वक्ष्यमाणलक्षणानि,सागरेणोपमा येषु तानि सागरोधमाणि पल्योपमकोटीकोटीदशकमानानीति, दशसागरो पमकोटिकोट्य उत्सर्पिणी, एवमेवावसर्पिणीति, कालविशेष वद् ग्रामाऽऽदिवस्तुविशेषा अपि जीवाजीवा एवेति। द्विपदैः सप्त चत्वारिंशता सूौराह-(गामेत्यादि) इह च प्रत्येकं जीवा एवेत्याद्यालापोऽध्येतव्यः, ग्रामाऽऽदीनां च जीवाजीवता प्रतीतैवा तत्र कराऽऽदिगम्या ग्रामाः, नैतेषु करोऽस्तीति नकराणि, निगमा वणिङ्ग निवासाः, राजधान्यो यासु राजानो ऽभिषिच्यन्ते, खेटानि धूलीप्राकारेपेतानि, कर्वटानि कुनगराणि, मडम्बानि सर्वतोऽर्द्धयोजनात्परतोऽवस्थित ग्रामाणि, द्रोणमुखानि येषां जलस्थलपथायुभावपि स्तः, पत्तनानि येषु जलस्थलपथयोरन्यतरेण पर्याहाराप्रवेशः, आकरालोहाऽऽद्युत्पत्तिभूमयः, आश्रमास्तीर्थस्थानानि, संबाहाः समभूमौ कृषि कृत्वा येषु दुर्गभूमिभूतेषु धान्यानि कृषीबलाः संवहन्ति रक्षार्थमिति, सन्निवेशाः सार्थकटकाऽऽदेः, घोषाः गोष्ठानि आरामा विविधवृक्षलतोपशोभिताः कदल्यादि प्रच्छन्नगृहेषु स्त्रीसहितानां पुंसां रमणस्थानभूता इति / उद्यानानि पत्रापुष्पफलच्छायोपशोभितानि बहुजनस्य विविध वेषसेनतमानस्य भोजनार्थं यानं गमनं येष्विति / वनानीत्येक जातीयवृक्षाणि, बनखण्डा अनेकजातीयोत्तमवृक्षाः / वापी चतुरस्रा, पुष्करिणी वृत्ता पुष्करवती चेति / सरांसि जलाऽऽशय विशेषाः, सरःपक्तय सरसा पद्धतयः / (अगड त्ति) अवटाः / तडागाऽऽदीनि प्रतीतानि पृथिवी रत्नप्रभाऽऽदिका, उदधिस्तदधो घनोदधिः / वात्तस्कन्धा घनवाततनुवाताः, इतरे वा, अवकाशान्ताराणि वातस्कन्धानामधस्तदाकाशानि, जीवता चैषां सूक्ष्मपृथिवीकायिकाऽऽदि-जीवव्याप्तत्वात्। बलयानि पृथिवीनांवेष्टनानिघनोदधिधनवाततनुवातलक्षणा नीति। विग्रहाःलोकनाडीचक्राणि, जीवता चैषां पूर्ववत्। द्वीपाः समुद्धाश्च प्रतीताः / वेला समुद्रजलवृद्धिः, वेदिकाः प्रतीताः, द्वाराणि विजयाऽऽदीनि, तोरणानि तेष्वेवेति / नैरयिकाः ल्किष्ट सत्वविशेषाः, तेषां च जीवता कर्मपुगलाऽऽद्यपेक्षया। तदुत्पत्ति भूमयो नैरयिकाऽऽवासाः, तेषां च जीवता पृथिवीकायिकाऽऽद्य पेक्षया इति। एवं चतुर्विशतिदण्डकोऽभिधेयः। अत एवाऽऽह-यावदित्यादि। कल्या देवलोकाः, तद्देशाः कल्पविमानाऽऽवासाः, वर्षाणि भरताऽऽदिक्षेत्राणि, वर्षधरपर्वता हिमवदादयः, कूटानि हैमवतकूटानि, कूटाऽऽ गाराणां तेष्वेव देवभवनानि, विजयाश्चक्रवर्त्तिविजेतव्यानिकच्छाऽऽदीनि क्षेत्रखण्डानि, राजधान्यः क्षमाऽऽदिकाः / जीवेत्यादिहोक्तं सर्वका सम्बन्धनीयमिति / येऽपि पुगलधर्मास्तेऽपि तथैवेत्याह - ठाये त्यादि सूत्रापञ्चकं गतार्थम्, नवरं छायावृक्षा ऽऽदीनाम्, आतपआदित्यस्य / (दोसिणाइ व त्ति) ज्योत्सना, अन्धकाराणि, तमांसि, अवमानानि क्षेत्राऽऽदीनि, उन्मानानि सुलाकर्षाऽऽदीनि, अतियानगृहाणि नगराऽऽदिप्रवेशे यानि गृहाणि प्रतीतानि। (अवलिंवाइवा सणिप्पद्यायाइ वत्ति) रूढिती ऽवसेया इति / कि -
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy