________________ जीवपएसिय 1556 - अभिधानराजेन्द्रः - भाग 4 जीवपण्णवणा जइ तं पमाणमेवं, कसिणो जीवो अहोवयाराओ। देसे विसव्वबुद्धी, पवज सेसे वि तो जीवं / / 2346 / / एवंभूतनयस्येदं मतं यदुत--देशप्रदेशी न वस्तुनो भिन्नी, तेन तो अवस्तुरूपौ मतौ / अतो देशप्रदेशकल्पनारहितं कृत्स्ननं परिपूर्णमेव वस्तु से' तस्यैवभूतनयस्येष्टम् / ततो यदि तदेव- भूतनयमत प्रमाण जानासि त्वम्, एवं तर्हि कृत्स्नः परिपूर्णो जीवो, न त्वन्त्यप्रदेशमात्रमपि प्रतिपद्यस्व / अथ ग्रामो दग्धः पटो दाधः इत्यादिन्यायादेकदेशेऽपि समस्तवस्तूपचारादन्त्यप्रदेशलक्षणे देशेऽपि समस्तजीवबुद्धिस्तत्र प्रवर्त्तते, तर्हि शेषेऽपि प्रथमाऽऽदिप्रदेशे उपचारतो जीव प्रतिपद्यस्व, न्यायस्य समानत्वादिति // 2345 / 2346 / / अथवा-अभ्युपगम्येदमुक्तं, न चैकप्रदेशमात्र सर्वजी वोपचारो युज्यत इति दर्शयन्नाह - जुत्तो व तदुवयारो, देसूणे न उपएसमेत्तम्मि। जह तंतूणम्मि पडे, पडोक्यारो न तंतुम्मि / / 2347 / / अथवा-उपचारादप्येक एवान्त्यप्रदेशो जीवो न भवति, कि तु देशोने एव जीवे जीवोपचारो युज्यते, यथा तन्तुभिः कतिपयैरूने पटे पटोपचारो दृश्यते, न त्वेकस्मिंस्तन्तुमानो इति।।२३४७।। एवं गुरुणाऽभिहिते ततः किम् ?इत्याह -- इय पण्णविओ जाहे, न पवज्जइ सो कओ तओ बज्झो। तउ आमलकप्पाए, मित्तसिरिणा सुहोवायं / / 2348 / / भक्खण-पाण--व्वंजणवत्थंतावयवलाभिओ भणइ। सावय ! विधम्मिया म्हे, कीस त्ति तओ भणइ सढो।।२३४६।। नणु तुज्झं सिद्धंतो, पजंतावयवमेत्तओऽवयवी। जइ सच्चमिणं तो का, विहम्मणा मिच्छमिहरा भे // 2350 / / गतार्था एव, नवरम्, इतिपूर्वोक्तप्रकारेण गुरुभिः प्रज्ञापित-स्तिष्यगुप्तो यावन्न किञ्चित्प्रतिपद्यते, तत उद्घाट्य बाह्यः कृतो विहरन्नामलकल्पां नगरी गत्वा आमशालवने स्थितः। तत्र मित्रश्रीश्रावकेण निहबोऽयमिति ज्ञात्वा तत्प्रतिबोधनार्थ गत्वा निमन्त्रितः- "यन्मदीयगृहे प्रकरणमद्य तत्र भवद्भिः स्वयमागन्तव्यम्। ततो गतास्ते तद्गृहे। तेन च तत्र तिष्यगुप्तमुपवेष्य महान्तं संभममुपदर्शयता तत्पुरतो भक्ष्यभोज्यानपानव्यञ्जनवस्त्राऽऽदिवस्तुनिचया विस्तारिताः। ततस्तेषां मध्यात्सर्वत्रान्त्यावयवान गृहीत्वा प्रतिलाभितोऽसौ, कूरसित्थाऽऽदिना प्रतिलाभित इत्यर्थः / ततो भणत्यभिधत्ते - 'हे श्रावकविधर्मिताः किमिति त्वया वयमित्थम् ? ततः श्राद्धो भणति- (नणु तुज्झामित्यादि) (मिच्छमिहरा भे त्ति) अन्यथा यदि नेद सत्यम्, तदा सर्वमपि मिथ्या / भवता भाषितमिति।२३५०। अपिचअंतोऽवयवो न कुणइ, समत्तकजं ति जइ न सोऽभिमओ। संववहाराईए, तो तम्मि कओऽवयविगाहो?||२३५१।। यदि नामाऽन्त्यावयवः समस्तस्याप्यवयविनो यत्साध्यं कार्य तन्न करोतीत्यतोऽसौ नाभिमतो भवताम् कूरपक्वान्नवस्त्राऽऽदीनामिव कतिपयसिक्यसुकुमारिकाऽऽदसूक्ष्मखण्डतन्त्वादिरूपोऽन्त्यावयवा यदि न परितोषकरो, भवतामित्यर्थः, तर्हि संव्यवहारातीते तस्मिन्नन्त्यावयवे कुतः किल समस्तावयविग्रहो भवतामिति ? // 2351 / / प्रमाणयन्नाह - अंतिमतंतू न पडो, तक्कजाकरणओ जहा कुंभो। अह तयभावे वि पडो, सो किं न घडो खपुष्पं व? ||2352 / / अन्त्यतन्तुमात्रं न पटः, तस्य पटस्य कार्य शीतत्राणाऽऽदिकं तत्कार्य, तस्याकरण तत्कार्याकरणं, तस्मादिति / यथा कुम्भो घटः / अथ तदभावेऽपि पटकार्याभावेऽपि तन्तुः पट इष्यते, तर्हि किमित्यसौ पटो घटः खपुष्प वा न भवति, पटकार्याकर्तृत्व-स्याविशेषादिति ? // 2352 / / तथाहिउवलं भव्ववहारा - भावाओ नत्थि ते खपुप्फंव। अंताक्यवेऽवयवी, दिटुंताभावओ वा वि।।२३५३।। तवाभिमतोऽवयवी अन्त्यावयवे नास्ति, उपलब्धिलक्षणप्राप्तस्यानुपलब्धः, व्यवहाराभावाच, खपुष्पवदिति / अथवा -- 'अन्त्यावयवमात्रामवयवी, अवयविसंपूर्णहेतुत्वात्, 'इत्या तावद्दृष्टान्ताभावाद्न साध्यसिद्धरिति / / 2353 / / यदि नाम नोपलभ्यते, नापि व्यवह्रियते, दृष्टान्ता-भावाच नानुमियते, ततः किम्? इत्याह -- पचक्खओऽणुमाणा-दागमओ वाय सिद्धि अत्थाणं / सव्वप्पमाणविसया-ईयं मिच्छत्तमेवं भे / / 2354 // प्रत्यक्षाऽऽदिप्रमाणैरर्थानां सिद्धिः, तानि च त्वत्पक्षसाधकत्वेन न प्रवर्तन्ते / अतः सर्वप्रमाणविषयातीतं 'भे' भवतामभिहित मिथ्यात्वमेवेति // 2354 // तदेवं मित्राश्रीश्रावकेणोक्ते स किं कृतवान्? इत्याह - इय चोइयसंबुद्धो, खामिय पडिलाभिओ पुणो विहिणा। गंत गुरुपायमूलं,ससीसपरिसो पडिकंतो।।२३५५! इति प्रेरितः संबुद्धोऽसौ विहितक्षमितक्षामितेन मित्राश्री-श्रावकेण संपूर्णान्नप्रदानाऽऽदिविधिना पुनरपि प्रतिलाभितो गुरुपादमूलं गत्वा शिष्यपरिषत्समेतो विधिना प्रतिक्रान्तः सम्यग्मार्ग प्रपन्नो गुर्वन्तिके विजहारेति गाथार्थः // 2355 / / जीवप्रदेशा आकाशप्रदेशस्तुल्यो वाऽधिको वा हीनो वेति? प्रश्ने, उत्तरम-जीवप्रदेशाऽऽकाशप्रदेशयोनिर्विभागभागरूपत्वेन तुल्यत्वमेवेति मन्तव्यम / 102 प्र० / सेन० 3 उल्ला० / तथाऽष्टौ गोस्तनाकारा जीवप्रदेशाः सन्ति, तेषां कर्मवर्गणा लगति, न वेति? प्रश्ने, उत्तरम्जीवाना मध्याष्टप्रदेशानां कर्मवर्गणा न लगतीति ज्ञानदीपकायां प्रोक्तमस्ति / यथा- "स्पृश्यन्ते कर्मणा तेऽपि, प्रदेशा आत्मनो यदि। तदा जीवो जगत्यरिमन्न-जीवत्वमवाप्नुयात् / / 15 प्र० सिन०४ उल्ला०। जीवपण्णवणा स्त्री० (जीवप्रज्ञापना) प्रज्ञाप्यन्ते जीवाऽऽदयो भावा अनया शब्दसंहत्येति प्रज्ञापना / प्रज्ञा०१ पद / जीवानां प्रज्ञापना जीवप्रज्ञापना। प्रज्ञापनोपाङ्गस्य जीवप्रज्ञापिकायां शब्दसंहतो, प्रज्ञा० 1 पद!