________________ जीवपएसिय 1555 - अभिधानराजेन्द्रः - भाग 4 जीवपएसिय तो तप्परिमाणो चिय, जीवो कहमंतिमपएसो? 2337 / एकोऽन्त्यप्रदेशो जीवस्तद्भावभावित्वाञ्जीवत्वस्येत्यादि बुवाण स्तिष्यगुप्तो गुरुणा वसुसूरिणा अभिहित :- हन्त ! यदि ते तव प्रथमो जीवप्रदेशो जीवोन संमतः, ततस्तयन्तिमोजीवप्रदेशः कथं केन प्रकारेण जीवः? न घटत एव सोऽपि जीव इत्यर्थः / कुतः ? तत्परिणाम इति कृत्वा / इदमुक्तं भवति-भवदभिमतोऽन्त्यप्रदेशोऽपि न जीवः, अन्यप्रदेशैस्तुल्य परिणामत्वात्, प्रथमाऽऽद्यन्यप्रदेशवदिति॥२३३७|| अथवा व्यत्ययेन प्रयोग इति दर्शयतिअहव स जीवो कह ना-इमो त्ति को वा विसेसहेऊ ते? अह पूरणो त्ति बुद्धी, एकेको पूरणो तस्स / / 2338|| अथवा-सोऽन्तिमप्रदेशः कथं जीवस्त्वयाऽभ्युपगम्यते? कथं चननैवाऽऽदिमः प्रथमस्तदूपतया इष्यते ? नन्वाद्योऽपि प्रदेशो जीव एवेष्यतां, शेषप्रदेशतुल्यपरिणामत्वात्, अन्त्यप्रदेशवदिति। को वाऽत्र विशेषहेतुस्तव, येन प्रदेशत्वे तुल्येऽष्वन्तिमो जीवो न प्रथमः? इति / अथ विवक्षितासंख्येयप्रदेशराशेरन्त्यः प्रदेशः पूरण इति विशेषसद्भावतः स जीवो न प्रथम इति तव बुद्धिः / तदयुक्तम् / यतो यथाऽन्त्यः प्रदेशः पूरणस्तथा एकैकः प्रथमाऽऽदि प्रदेशः, तस्य विवक्षितजीवप्रदेशाराशेः पूरण एव, एकमपि प्रदेशमन्तरेण तस्यापरिपूर्ते रिति / / 2338 // एवं च सर्वप्रदेशानां पूरणत्वे इदमनिष्टमापतति। किम् ? इत्याह - एवं जीवबहुत्तं, पइजीवं सव्वहा व तदभावो। इच्छा विवजओ वा, विसमत्तं सव्वसिद्धी वा / / 2336 / / एवं सर्वजीवप्रदेशानां विवक्षितप्रदेशमानपूरणत्वेऽन्त्यप्रदेशवत्प्रत्येक जीवत्वात्प्रतिजीवं जीवबहुत्वमसंख्येयजीवाऽऽत्मकं प्राप्नोति। अथवाप्रथमाऽऽदिप्रदेशवदन्त्यप्रदेशस्याप्यजीवत्वे सर्वया तदभावो जीवाभावः प्रसजति। अथ पूरणत्वे समानेऽप्य न्त्यप्रदेश एव जीवः शेषास्तु प्रदेशा अजीवा इत्याग्रहो न मुच्यते, तर्हि राजाऽऽदेरिवेच्छा भवतः, यत्प्रतिभासतेतदेव हि जल्प्यत इति। तथा च सति विपर्ययोऽपि कस्मान्न भवति-आद्यो जीवोऽन्त्यस्तु प्रदेशो जीव इति ? विषमत्वं वा कुतो न भवति - केचनाऽपि प्रदेशा जीवाः, केचित्त्वजीवा इति ? अनियमेन सर्वविकल्पसिद्धिर्वा करमान्न भवति, स्वेच्छया सर्वपक्षाणामपि वक्तुं शक्यत्वादिति ?||2336 // किञ्चजं सव्वहा न वीसुं, सव्वेसु वितं न रेणुतेल्लंव। सेसेसु असब्भूओ,जीवो कहमंतिमपएसे // 2340 // यद् विष्वगेकैकस्मिन्नवयवे सर्वथा नास्ति तत्सर्वेष्वपि अवयवेषु समुदितेषुन भवति, यथा रेणुकणेषु प्रत्येकमसत्तत्स–मुदाये तैल, नास्ति च प्रथमाऽऽदिके एकैकस्मिन् प्रदेशे जीवत्वं, ततः शेषेषु प्रथमाऽऽदिप्रदेशेष्वसजीवत्वं परिणामाऽऽदिना तुल्ये कथमकस्मादेकस्मिन्नेवान्त्यप्रदेशे समायातमिति ? / 2340 / पुनः परमतमाशक्य परिहरन्नाह - अह देसओऽवसेसे सु तो वि किह सव्वहंतिमे जुत्ते। अह तम्मि व जो हेऊ, स एव सेसेसे वि समाणो // 2341 / / अथान्त्यादवशेषेषु प्रथमाऽऽदिप्रदेशेषु, देशतो जीवः समस्त्येव, अन्त्यप्रदेशे तु सर्वाऽऽत्मनाऽसौ समस्तीति विशेषः / ततो "जं सव्यहा न वीसुं' इत्येतदसिद्धमिति भावः / अत्रोत्तरमाह - तथापि कथमन्त्यप्रदेशे सर्वाऽऽत्मना जीवो युक्तः? ननुतत्रापि देशत एवाऽसौ युज्यते, तस्यापि प्रदेशत्वात् प्रथमाऽऽदिप्रदेशवत् / अथान्त्यप्रदेश संपूर्णो जीव इष्यते, तर्हि ता तद्भावे यो हेतुः सशेषेष्वपि प्रथमाऽऽदिप्रदेशेषु समान एव, तुल्यधर्मकत्वात् / अतस्तेष्वपि प्रतिप्रदेशसंपूर्णजीवत्वमन्त्यप्रदेश वक्तिं नेष्यते? इति // 2341|| अथ प्रथमाऽऽदिप्रदेशेषु जीवत्वं नेष्यते, तन्त्यिप्रदेशेऽपितन्नेष्टव्यम्। कुतः? इत्याह - नेह पएसत्तणओ, अंतो जीवो जहाइमपएसो। आह सुयम्मि निसिद्धा, सेसा न उणोंतिमपएसो॥२३४२।। इहान्त्यप्रदेशोऽपि नजीवः, प्रदेशत्वात्, यथा प्रथमाऽऽदिप्रदेश इति। आह - नन्वागभबाधितेयं प्रतिज्ञा, यतः पूर्वोक्ताऽऽलापकरूपे श्रुते शेषाः प्रथमाऽऽदिप्रदेशा जीवत्वेन निषिद्धाः, न पुनरन्त्यप्रदेशः तस्य तत्र जीवत्वानुज्ञानात्। अतः कथं प्रथमाऽऽदिप्रदेशवदन्त्यस्य जीवत्वनिषेधं मन्यामहे? इति / / 2342 / / अत्रोत्तरमाह - नणु एगो त्ति निसिद्धो, सो वि सुए जइ सुयं पमाणंते। सुत्ते सव्वपएसा, भणिया जीवो न चरिमो त्ति।२३४३।। ननु सोऽपि - अन्त्यप्रदेशः श्रुते जीवत्वेन निषिद्धः / कुतः ? इत्याहएक इति कृत्वा / तथाहि-तौवेत्थमुक्तम्-"एगे भंते ! जीवपएसे जीवे त्ति वत्तव्यं सिया? णो इणढे सम?" इति। ततो यदि श्रुतं तप प्रमाणं, ततोऽन्त्यप्रदेशस्यापि जीवत्वं नेष्टव्यम्, एकत्वात्, प्रथमाऽऽद्यन्यतरप्रदेशवत् / किञ्च-यदि श्रुतं हन्त ! प्रमाणीकरोषि, तदा सर्वेऽपि जीवप्रदेशाः परिपूर्णा जीवत्वेन श्रुते भणिताः, नत्येक एव चरमप्रदेशः / तथा च तौवाभिद्वितम् - "जम्हा णं कसिणे पडिपुण्णे लोगागासपएसतुल्ले जीव त्ति वत्तव्वं सिया"। अतः श्रुतप्रामाण्यमच्छिता भवता नैक एवान्त्यप्रदेशो जीवत्वेनैष्टव्य इति॥२३४३॥ अमुमेवार्थं दृष्टान्तेन साधयन्नाहतंतू पडोवयारी, न समत्तपडो य समुदिया ते उ। सव्वे समत्तपडओ, सव्वपएसा तहा जीवो // 2344|| एक स्तन्तुर्भवति समस्तपटोपकारी, तमप्यन्तरेण समस्तपटस्याभावात्। परंस एकस्तन्तुः समस्तपटोन भवति, किन्तु ते तन्तकः सर्वेऽपि समुदिताः समस्तपटव्यपदेशं लभन्त इति प्रतीतमेव / तथा जीवप्रदेशोऽप्येको जीवो न भवति किन्तु सर्वेऽपि जीवप्रदेशाः समुदिता जीव इति // 2344 // ननु प्राग यदुक्तम् - "नयमयमयाणमाणस्स दिट्ठिमोहो समुप्पन्नो ति" तत्कस्य नयस्यैवं मतम्? इत्येतदूव्यक्तीकरणपूर्वकमुपदेशमाह - एवंभूयनयमयं, देस-पएसान वत्थुणो भिण्णा। तेणावत्थु त्ति मया, कसिणं चिय वत्थुमिट्टं से // 2345 / /