________________ जीवदेवसूरि 1554 - अभिधानराजेन्द्रः - भाग 4 जीवपएसिय जीवदेवसूरिपुं० (जीवदेवसूरि) "रासिल्लसूरिशिष्ये, जै० इ०। वायटग्रामे महीधरमहीपालनामानौ द्वौ ब्राह्मणकुमारावास्ताम् / तयोमहीधरो जिनदत्तसुरिणा दीक्षितो रासिल्लसूरिरभवत् / महीपालो देशान्तरे / दिगम्बरप्रव्रज्यां गृहीत्वा सुवर्णकीर्तिनामाऽभवत्। तत्रा स आधाकर्मिकाऽदिदोषभुक्तिमवेक्ष्य रासिल्ल सुरिसमीपे श्वेताम्बरदीक्षामग्रहीत्, ततो जीवदेवसूरिनामा ऽभवत् / एतेनैव वायटग्रामे जैनानां ब्राह्मणैः सह विरोधस्त्याजितः / जै० इ०।। जीवधम्म पुं० (जीवधर्म) जीवानां जन्मजरामरणव्याधिरोग शोकसुख दुःखजीवनाऽऽदिके धर्मे , सूत्र०२ श्रु०१ अ०। जीवपइट्ठिय त्रि० (जीवप्रतिष्ठित) जीवेषु स्थिते, "अजीवा जीवपइट्टिआ" अजीवाः शरीराऽऽदिपुद्गलरूपाजीवप्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात्। भ०१ श०६ उ०। स्था०। जीवपएस पुं० (जीवप्रदेश)जीवानामवयवे, भ०। छिन्नजीवखण्डानां जीवप्रदेशः स्पर्शो यथाअह भंते! कुम्मे कुम्मावलिया गोहा गोहावलिया गोणा गोहावलिया मणुस्से मणुस्सावलिआ महिसे महिसावलिया, एएसि णं भंते ! दुहा वा तिहा वा संखेज्जहा वा छिण्णाणं जे अंतरा ते विणं तेहिं जीवपएसेहिं फुडा? हंता फुडा। पुरिसेणं भंते ! अंतरा हत्थेण वा पाएण वा अंगुलियाए वा सलागाए वा कट्टेण वा कलिंबेंण वा आमुसमाणे वा सं मुसमाणे वा आलिहमाणे वा विलिहमाणे वा अण्णयरेण वा तिक्खेणं सत्थजाएण आच्छिंदमाणे वा विच्छिंदमाणे वा अगणिकाएणं समोडहमाणे तेसिं जीवपएसाणं किंचि आवाहं वा वावाहं वा उप्पायइ, छविच्छेदं वा करेइ ? णो इणढे समठे। नो खलु तत्थ सत्थं कम।। "अह'' इत्यादि। (कुम्मे त्ति) कूर्मः कच्छपः / (कुम्मावलि य त्ति) कूर्मावलिका कच्छपपङ्किः, (गोह त्ति) गोधा सरीसृपविशेषः। (जे अंतर ति) यान्यन्तरालानि (ते वित्ति) तान्यन्तरालान्यपि (कलिंबेण व त्ति) क्षुद्रकाष्ठरूपेण (आमुसमाणे व त्ति) आमृशन्, ईषत्स्पृशन्नित्यर्थः (संमुसमाणे व त्ति) सामत्येन स्पृशन्नित्यर्थः / (आलिहमाणे व त्ति) आलिखन् ईषत्सकृद्धा कर्षन्, (विलिहमाणे व त्ति) विलिखन् / नितरामनेकशी वा कर्षन. (आच्छिंदमाणे व ति) ईषत्सकृद्वा छिन्दन् (विच्छिंदमाणे व त्ति) नितरामसकृद्वा छिन्दन् (समोडहमाणे ति) समुपदहन्, आवहं वत्ति) ईषद्वाधा (वावाहं वत्ति) व्यावाधां प्रकृष्टपीडाम्। भ० 8 श०३ उ०। एक एव चरमप्रदेशो जीव इत्यभ्युपगमाजीवः प्रदेशो येषां ते जीवप्रदेशाः। चरमप्रदेशजीवप्ररूपिणि द्वितीयनिहवे, विशे०। "जीवपएसा य तीसगुत्ताओ'। जीवप्रदेशाः पुनस्तिष्यगुप्ता दुत्पन्नाः। विशे०। प्रदेशजीवपुं० प्रदेश इत्यन्त्यप्रदेशः जीवो येषां ते प्रदेशजीवाः। प्राकृतत्वाच व्यत्ययः / अन्त्यप्रदेश एव जीव इत्यभ्युपगतेऽन्त्यप्रदेशजीववादिनि। द्वितीयानिहवे, उत्त० 3 अ०। जीवपएसियपुं० (जीवप्रादेशिक) जीवप्रदेशा एव जीव प्रदिशिकाः। अथवा | जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते तथा / चरमप्रदेशजीवप्ररूपिणः (स्था०७ ठा०) एकेनाऽपि प्रदेशेन न्यूनो जीवो न भवत्यतो येनकेन प्रदेशेन पूर्णः स जीवो भवति / स एवैकः प्रदेशो जीवो भवतीत्येवंविधवादिनि तिष्यगुप्ता ऽऽचार्यमताविसंवादिनि द्वितीयनिहवे, औ०। अथ द्वितीयनित वक्तव्यतामाह नियुक्तिकार :सोलस वासाइँ तया, जिणेण उप्पाडियस्स नाणस्स। जीवपएसियदिट्ठी, तो उसमपुरे समुप्पन्ना।।२३३३।। रायगिहे गुणसिलए, वसु चउदसपुव्वि तीसगुत्ते य। आमलकप्पा नयरी, मित्तसिरी कूरपिउडाई॥२३३४॥ श्रीमन्महावीरजिनेन तदा षोडश वर्षाणि केवलज्ञानस्योत्पादितस्याभूवन्। ततश्च राजगृहापरनाम्नि ऋषभपुरे नगरे जीवप्रदेशिकदृष्टिः समुत्पन्नेति / कथमुत्पन्ना ? इत्याह- राजगृहे नगरे गुणशिलके चैत्ये चतुर्दशपूर्विणी वसुनामान आचार्याः समागताः तेषां च तिष्यगुप्तो नाम शिष्यः / स च तत्र पूर्वगतमालापकं वक्ष्यमाणस्वरूपमधीयानो वक्ष्यमाणयुक्तिभि विप्रतिपन्नोऽसंबुद्धः परिहृतो गुरुभिर्विहरन् आमलकल्पाया नगर्या गतः, तत्रा च मित्राश्रीनाम्ना श्रावके ण "कू रपिउडा-'" ऽऽदिना कूरसिक्थाऽऽदिदानेन प्रतिबोधित इत्यर्थः / / 2333 / 2334 / / अथास्य नियुक्तिगाथाद्वयस्य भाष्यमाह - आयप्पवायपुव्वं, अहिज्जमाणस्स तीसगुत्तस्स। नयमयमयाणमाण-स्स दिट्ठिमोहो समुप्पण्णो // 2335 / / आत्मप्रवादनामकं पूर्वमधीयानस्य तिष्यगुप्तस्य अयं सूत्रालापकः समायातः / तद्यथा-"एगे भंते ! जीवपएसे जीवे त्ति वत्तव्वं सिया ? नो इणटेसमट्ठ। एवं दो तिण्णि जाव दस संखेजा। असंखेजा भंते! जीवपएसा जीव त्ति वत्तव्वं सिया ? नो इणट्टे समठे। एगपएसूणे विणं जीवे नो जीवे त्ति वत्तव्वं सिया। से केणं अट्ठणं ? जम्हाणं कसिणे पडिपुन्नेलोगागासपए सतुल्ले जीवे जीवे त्ति वत्तव्यं सिया, सेतेणं अटेणं' इति / अमुचाऽऽलापकमधीयानस्य कस्यापि नयस्येदमपि मतम्, न तु सर्वनयानामित्येवमजानतस्तिष्यगुप्तस्य मिथ्यात्वोदयादृष्टः दर्शनस्य मोहो विपर्यासः संजात इति।।।२३३५॥ कथमित्याह - एगादओ पएसा, नो जीवो नो पएसहीणो वि। जं तो स जेण पुन्नो, स एव जीवो पएसो त्ति / / 2336 / / यद्यस्मादेकाऽऽदयः प्रदेशास्तावजीवो न भवति, “एगे भंते ! जीवपएसे।" इत्याद्यालापके निषिद्धत्वात्। एवं यावदेकेनापि प्रदेशेन हीनो जीवो न भवति, अत्रौवा ऽऽलापके निवारितत्वात् / ततस्तस्माद् येन केनापि चरमप्रदेशेन स जीवः परिपूर्णः क्रियते, स एव प्रदेशो जीवो, न शेषप्रदेशाः / एतत्सूत्राऽऽलापकप्रामाण्यादित्येवं विप्रतिपन्नोऽसाविति // 2336 // ततः किमित्याह - गुरुणाऽभिहिओ जइते, पढमपएसो न सम्मओ जीवो।