SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ जीवट्ठाण 1552 - अभिधानराजेन्द्रः - भाग 4 जीवणिव्वति णां सत्ता / तथा-मिथ्यादृष्टः प्रभृति सूक्ष्मसंपरायं यावदष्टानामुदयः, उपशान्तमोहगुणस्थाने क्षीणमोहगुणस्थाने च सप्तानां प्रकृतीनामुदयः। सयोग्ययोगिगुणस्थानयोश्चतसृणामुदयइति / / तथा-संज्ञिपर्याप्त उदीरणास्थानानि पञ्च / तद्यथा-सप्त, अष्ट, षट्, पञ्च, द्वे इति। तत्रा यदा अनुभूयमाणभवायुराव लिकाऽवशेष भवति, तदा तथास्वभावत्वेन तस्यानुदीर्यमाणत्वात्सप्ता-नामुदीरणा। यदात्वनुभूयमानभवायुरावलिकाऽवशेषं न भवति, तदाऽष्टानां प्रकृतीनामुदीरणा / तत्र मिथ्यादृष्टिगुणस्थानकात्प्रभृति यावत्प्रमत्तसंयतगुणस्थानकं तावत्ससप्तानामष्टानां चादीरणा / सम्यड्मिथ्यादृष्टिगुणस्थानके तु सदैयाष्टानामेवोदीरणा, आयुष आवलिकाऽवशेषमिश्रगुणस्थानस्यैवाभावात् / तथाअप्रमत्तगुणस्थानकात्प्रभृति यावत्सूक्ष्मसंपरायगुणस्थानकस्याऽऽवलिकाऽयशेषो न भवति, तावद्वेदनीयाऽऽयुर्वर्जानां षण्णां प्रकृतीनामुदीरणा, तदानीमतिविशुद्धत्वेन वेदनीयाऽऽदयुरुदीरणायोग्याध्यवसायस्थानाभावात्। आवलिकाऽवशेषे तु मोहनीयस्वाप्याबलिकाप्रविष्टत्वेनोदीरणाया असंभवाद् ज्ञानाऽऽवरणदर्शनाऽऽवरणनामगोत्रान्तरायाणामेवोदीरणा / एतेषामेव चोपशान्तमोहगुणस्थानकेऽप्युद्रीरणा। क्षीणमोहगुणस्थानकेऽप्येतेषामेव यावदावलिकामात्रामवशेषो न भवति। आवलिकाऽवशेषेतु ज्ञानाऽऽवरणदर्शनाऽऽवरणान्तरायाणामप्यावलिकायप्रविष्टत्वान्नोदीरणेति द्वयोरेव नामगोत्रयोरुदीरणा, एवं सयोगिकेवलिगुणस्थानकेऽपि / अयोगिकेवलिगुणस्थानके तु वर्तमानो जीवः सर्वथाऽनुदीरक एवा ननु तदानीमप्येष सयोगिकेवलिगुणस्थानक इव भवोपग्राहि-कर्मचतुष्टयोदयवान् वर्तते, ततः कथं तदाऽपि तयोर्नामगोत्रयोरुदीरको न भवति? नैष दोषः / उदये सत्यपि योगसव्यपेक्षत्वादुदीरणायाः, तदानीं च तस्य योगासंभवादिति। कर्म०४ कर्म०। इदानीं गुणस्थानकेषु जीवस्थानानि चिन्तयन्नाह - सव्वजियठाण मिच्छे, सग-सासणि पंण अपञ्ज सिन्नदुर्ग। सम्मे सन्नी दुविहो, सेसेसुं सन्निपज्जत्तो // 45 / / सर्वाणि जीवस्थानानि चतुर्दशापि मिथ्यादृष्टिगुणस्थानकेषु भवन्ति, मिथ्यात्वस्य सर्वेषु जीवस्थानकेषु संभवात् / तथा- (सग ति) सप्त जीवस्थानानि सास्वादने भवन्ति / तद्यथा- पञ्चापर्याप्ताः बादरैकेन्द्रियोऽपर्याप्तः 1, द्वीन्द्रियोऽपर्याप्तः 2, त्रीन्द्रियोऽपर्याप्तः 3, चतुरिन्द्रियोऽपर्याप्तः 4, असंज्ञिपञ्चेन्द्रियोऽपर्याप्तः 5 / संज्ञिद्विकम्संज्ञयपर्याप्तः 1, संज्ञिपर्याप्तः 2 / अपर्याप्तकाश्चेह करणापर्याप्तका द्रष्टव्याः, न तुलध्यपयाप्तकाः, तेषु मध्ये सास्वादनसम्यक्त्वसहितस्यात्पादाभावात्। (सम्मे सन्नी दुविहो त्ति) अविरतसम्यग्दृष्टिगुणस्थानके संज्ञी द्विविधोऽपर्याप्तपर्याप्त-रूपो द्रष्टव्यः / इहापर्याप्तकः करणापेक्षया ज्ञेयः, न तु लब्ध्यपेक्षया, लब्ध्यपर्याप्तमध्येऽ विरतसम्यग्दृष्टरभावात्। शेषेषु मिश्रदेशविरत्यादिगुणस्थानकेषु संज्ञी पर्याप्त इत्येकमेवं जीवस्थानकं, नशेषाणि; तेषां मिश्रभावदेशविरतिप्रतिपत्त्यभावात्। न च पूर्वप्रतिपन्नमिश्रभावोऽन्येषु जीवस्थानकेषु संक्रामॅल्लभ्यते, "न सम्ममिच्छो कुणइ कालं'' इति वचनात् / तदेवं गुणस्थानकेषु व्याख्यातानि जीव स्थानकानि। कर्म० 4 कर्म० / जीवस्थानकेषु भावा :जीवस्थानेष्वपि भावाः स्तयमेव चिन्तनीयाः। तत्राऽऽद्येषु द्वादशसु जीवस्थानेष्वौदयिकक्षायोपशमिकपारिणामिकरूप भावायम्, तच / मिथ्यादृष्ट्यादिगुणस्थानकोक्तमिय भावनीयम् / एतदेव च भावाय संज्ञिन्यपि लब्ध्यपर्याप्त / करणमात्रापर्याप्त तु तस्मिन् क्षीणसप्तकाना क्षायिकसम्यक्त्वस्यकेषाञ्चिद् देवानामौपशमिकत्वस्यापि संभवादौदयिक क्षायिक क्षायोपशमिकपारिणामिक रूपमौपशमिकोदयिकक्षायोपशमिक पारिणामिकरूपं वा भावचतुष्टयमवसेयम्। पर्याप्त तुसंज्ञिनि प्रागुक्तेन गुणस्थानकक्रमेण सर्वे भावा भावनीयाः। पं० स०२ द्वार / (जीवस्थानेषु बन्धोदयसत्तास्थानानि 'बंध' शब्दे वक्ष्यन्ते) (बन्धोदयसत्तास्थानान्यधिकृत्य स्वामिता 'कम्म' शब्दे तृतीयभागे 287 पृष्ठे निरूपिता) जीवण न० (जीवन) जीव-ल्युट्। प्राणधारणे, ''जीवणमवि पाणधारणे भणिय / " जीवनमपि प्राणधारणे भणितम्, 'जीव- प्राणधारणे' इति वचनात् / आ० म० द्वि० / विशे० / "जीविज्ज य आदिमोक्खं" जीव्यात्प्राणधारणं कुर्यात् / सूत्रा० 1 श्रु०७ अ० / आ० चू० / जीव्यतेऽनेन / वृत्तौ, जले, मज्जने, हैयगवीने च। वाच० / जीवयतीति जीवनः / जीवनकारके, त्रि० स०३० सम०।पुत्रे, जीवनौषधे, वायौ, क्षुद्रफलके, वृक्षे, पुं०।वाच०। जीवणहेउ पुं० (जीवनहेतु)६ त०] "विद्या शिल्पं भृतिः सेवा, गोरक्षा विपणिः कृषिः। वृत्तिभैक्ष्यं कुशीद च, दश जीवनहेतवः।।१।।'' इत्युक्तेषु विद्याऽऽदिषु जीवनोपायेषु दशसु, वाच० / जीवणास पुं० (जीवनाश) जीवितनाशे, मृत्यो, "आसीविसो वा वि परं सुरुट्टो, किं जीवनासाउ परं नु कुज्जा"। किं जीवितनाशान्मृत्योः परं कुर्यात्, न किञ्चिदपीत्यर्थः / दश० अ०१ उ०। जीवणिकाय पुं० (जीवनिकाय) जीवानां निकायो राशिर्जीवनिकायः / जीवराशी, स्था०६ ठा०। जीवनिकायाश्च पृथिव्यादयः षट् / प्रश्न०५ सम्ब० द्वारा आव० छ जीवनिकाया पन्नत्ता / तं जहा-पुढ विकाइया० जाव तसकाइया। जीवानां निकाया राशयो जीवनिकायाः / इह च जीवनिकायानाभधाय यत्पृथिवीकायिकाऽऽदिशब्दैनिकायवन्त उक्तास्ततेषामभेदोपदर्शनार्थम् / न ह्ये कान्तेन समुदायात् समुदायिनो व्यतिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति। स्था० 6 ठा० / जीवणिज त्रि० (जीवनीय) उपजीव्ये, "देवसिणाए खलु अयं पुरिसे देवजीवणिजे।" सूत्र० 1 श्रु०७ अ०। जीवणिवत्ति स्त्री० (जीवनिर्वृत्ति) निर्वर्त्तनं निवृत्तिः निष्पत्तिः जीवस्यैकेन्द्रियाऽऽदितया निवृत्तिर्जीवनिर्वृत्तिः / जीवस्यैकेन्द्रियाऽऽदितया निष्पादने, भ०। जीवनिर्वृत्तिभेदा:कइविहाणं भंते ! जीवणिवत्ती पण्णत्ता? गोयमा ! पंचविहा जीवणिवत्ती पण्णत्ता। तं जहा-एगिदियजीवणिव्वत्ती० जाव पंचिदियजीवणिव्वत्ती। एगिंदियजीवणिव्वती णं भंते ! कइविहा पण्णत्ता? गोयमा ! पंचविहा पण्णत्ता। तं जहा-पुढवीकाइयएगिदियजीवणिव्वत्ती० जाव वणस्सइकाइय-एगिदियजीवणिवत्ती। पुढवीकाइयएगिदियजीवणिव्वत्तीं णं भंते ! कइविहा पण्णता ? गोयमा ! दुविहा पण्णत्ता / तं जहा-सुहुमपुढवी
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy