________________ जीवट्ठाण 1551 - अभिधानराजेन्द्रः - भाग 4 जीवट्ठाण सेसुत्ति प्रथमा इत्यनुवर्तने-प्रथमास्तिस्रः कृष्णनीलकापोत-लक्षणाः, शेषेषु प्रागुक्तापर्याप्तपर्याप्तसंज्ञिपञ्चेन्द्रियापर्याप्तबाद-रैकेन्द्रिययवर्जितेषु अपर्याप्तपर्याप्तसूक्ष्मैकेन्द्रियद्वान्द्रियत्रीन्द्रिय वतुरिन्द्रियाऽसांज्ञपञ्चेन्द्रियपर्याप्तबादरैकेन्द्रियलक्षणष्वकाद शसु जीवस्थानेषु भवन्ति ताः नान्याः, तेषां सदवाशुभपरिणामत्वात्, शुभपरिणामरूपाश्च तेजालेश्याऽऽदयः। तदेवं जीवस्थानकेषु लेश्या अभिधाय साम्प्रतमेतेष्वेववन्धोदयोदीरणासचाऽऽख्य स्थानचतुष्टमभिधित्सूरासत्तऽट्ठबंधुदीरणे संतुदया अट्ट तेरससु / / 7 / / "सत्तऽहबंधु' इत्यादि। सप्त वा अष्टौ वा सप्ताष्टाः "सुज्वाथें संख्या संख्येये संख्यया बहुव्रीहिः" / 3 / 1 / 16 / इति (सि० हे०) सूत्रेण बहुव्रीहिसमासः। यथा-द्वित्रा इत्यादौ बन्धश्चोदीरणा च बन्धोदीरणे, सप्ताष्टानां बन्धोदीरणे सप्ताष्टबन्धोदीरणे, त्रयोदशसु जीवस्थानेषु संज्ञिपर्याप्तर्जितेषु शेषेषु भवतः। एतदुक्तं भवति-अपर्याप्तसूक्ष्मैकेन्द्रियपर्याप्तसूक्ष्मैकेन्द्रियाऽपर्याप्तबादरेकेन्द्रियपर्याप्तबादरैकेन्द्रियाऽपर्याप्तद्वीन्द्रियपर्याप्तद्वीन्द्रियाऽपर्याप्तत्रीन्द्रियपर्याप्तत्रीन्द्रियाऽपर्याप्तवतुरिन्द्रिय पर्याप्तचतुरिन्द्रियाऽपर्याप्तासंज्ञिपञ्चेन्द्रियपर्याप्तासंज्ञिपञ्चेन्द्रियाऽपर्याप्तसज्ञिपञ्चेन्द्रियरूपेषु त्रयोदशसु जीवस्थानेषु सप्तानामष्टानां वा बन्धः, सप्तानामष्टानां वा उदीरणा / तथाहयदाऽनुभूयमानभवायुपस्त्रिभागनवभागाऽऽदिरूपे शेषे सति परभवायबध्यते, तदाऽष्टानामपि कर्मणां बन्धः, शेषकालं त्वायुषो बन्धाभावात्सप्तानामेव बन्धः / तथा यदाऽनुभूयमानभवायुरुदयाऽऽवलिकाशेष भवति, तदा सप्तानामुदीरणा / अनुभूयमानभवायुषोऽनुदीरणात् आवलिकाशेषस्योदीरणाऽनहत्वात्। उदीरणा हि उदयाऽऽवालेकाबाहतिनीभ्यः स्थितिभ्यः सकाशात्कषायसहितेनासहितेन वा योगकरणेन दलिकमाकृष्योदयसमयप्रासदलिकेन सहानुभवनम् / तथा चोक्तं कर्मप्रवृतिचूर्णा- 'उदयावलियाबाहिरिल्लठेशहिता कसायसहियामहिएणं जोगकरणेणं दलियमाकड्डिय उदयपत्तदलिएणसमं अणुभवणमुदीरणा। ततः कथमावलिकागतस्योदीणा भवति? न च परभवाऽऽयुरस्तदोदीरणासंभवः, तस्योदयाभावात्, अनुदितस्य च उदीरणाऽनह - त्वात्। शेषकालं त्वष्टानामुदीरणा। सचोदयश्च प्राकृतत्वात् 'सन्तोदयाः, अष्टानामेव कर्मणा त्रयोदशषु जीवस्थानकेषु पूर्वेषु भवतः / तथाहिएतेषु ायो दशसु जीवस्थानके शु सर्वकालमष्टानामपि सत्ता, यतोऽटानाऽपि कर्मणा सत्ता उपशान्तमोहगुणस्थानकं यावदनुवर्ततं / एते च जीदा उत्कर्षता यथासंभवमविरतसम्यग्दृष्टिगुणस्थानकवर्तिन एवति / एवमुदयोऽप्येतेषु जीवस्थानेष्यहिष्टानामेव कर्मणां द्रष्टव्यः / तथाहि-सूक्ष्मसंपरायगुणस्थानकं यावदष्टानामपि कर्मणामुदयोsवाप्यते // 7 // एतेषु जीवस्थानकेषूत्कर्षतोऽपि यथासंभवमविरतसम्यग्दृष्टि गुणस्थानकसंभव इतिसत्तऽहछेगबंधा, संतुदया मत्त अट्ठ चत्तारि। सत्तऽ8 छ पंच दुर्ग, उदीरणा सन्निपज्जत्ते ||8|| संज्ञी चासौ पर्याप्तश्च सांज्ञपर्याप्तः, तस्मिन् संज्ञिपर्याप्ति, चत्वारो बन्धा भवन्ति : तद्यथा-सप्तानां प्रकृतीनां बन्ध एकः अष्टानां प्रकृतीना बन्धो द्वितीय, षण्णां प्रकृतीनांबन्धस्तृतीयः एकस्याः प्रकृतेबन्धश्चतुर्थों बन्धः / ताऽऽयुर्वजानां सप्तानां कर्मप्रकृतीनांबन्धो जघन्येनान्तर्मुहूर्त यावदुत्कर्षेण च त्रयस्त्रिंशत्स गैरोपमाणि षणमासोनान्यन्तर्मुहूर्तोनपूर्वकोटित्रिभागाभ्यधिकानि / / तथा आयुबन्धकाले तासामष्टानांबन्धो जघन्योत्कर्षेणान्तर्मुहूर्तप्रमाणः / आयुषि बध्यमानेऽष्टानां प्रकृतीनां बन्धः प्राप्यते। आयुषश्च बन्धोऽन्तर्मुहुर्तमेव कालं भवति, नततोऽप्यधिकम्। तथैता एवाष्टावायुर्मोहनीयवर्जाः षट्। एतासांचजघन्येनैक समयंबन्धः / तथाहि-ज्ञानाऽऽवरण दर्शनाऽऽवरणवेदनीयनामगोत्रान्तरायरूपाणां षण्णां प्रकृतीनां बन्धः सूक्ष्मसंपरायगुणस्थाने, ता चोपशमश्रेण्या कश्चिदेकं समय स्थित्वा, द्वितीयसमये भवक्षयेण दिवं गतः सन्नविरतो भवति / अविरतत्वे चावश्यं सप्तप्रकृतीनां बन्ध इति षण्णां बन्धो जघन्येनैकं समयं यावदुत्कर्षेण त्वन्तर्मुहूर्त, सूक्ष्मसंपरायगुणस्थानस्यान्तर्मुहूर्तकत्वात्। तथा सप्तानां प्रकृतीनां बन्धव्यवच्छेदे सत्येकस्याः सातो नायरूपायाः प्रकृतेर्बन्धः। स च जघन्येनैक समयम्। एकसमयता चोपशम श्रेण्यामुपशान्तमोहगुणस्थाने प्राग्वद्भावनीयाः उत्कर्षण पुनर्देशोना पूर्वकोटिं यावत्। स चोत्कर्षतः कस्य वेदितव्य इति चेत? उच्यते यो गर्भवासे मासासप्तकमुषित्वाऽनन्तरं शीघ्रमेव योनिनिष्क्रमण जन्मना जातो वर्षाष्टकाचोर्द्ध संयम प्रतिपन्नः प्रतिपत्त्यनन्तरं च क्षपकोणमारुह्योत्पादितकेवलज्ञानदर्शनः, तस्य सयोगि-केवलिनो वेदितव्यः / अयं चात्र तात्पर्याथः-मिथ्यादृष्टयाद्य-प्रमत्तान्तेषु सप्तानामष्टानां वा बन्धः, आयुर्बन्धाभावात् अपूर्वकरणनिवृत्तिबादरयोश्च सप्तानां बन्धः, सूक्ष्मसंपराये षण्णां बन्धः, उपशान्तमोहाऽऽदिष्वेकस्याः प्रकृतबन्धः / तथा सच्चोदयश्च प्राकृतत्वात् सन्तोदयाः, ततः संशिपयाप्ते सत्तामाश्रित्य त्रीणि स्थानानि / तद्यथा-सप्त, अष्ट, चत्वारि / एवमुदयमप्याश्रित्य त्रीणि स्थानानि / तदयथा-सप्त, अष्ट, चत्वारि / तत्र सर्वप्रकृतिसमुदयोऽष्टौ, एतासां चाष्टानां सत्ताऽभव्यानधिकृत्यानाद्यपर्यवसाना, भव्यानधिकृत्यानादि सपर्यवसाना / तथा-मोहे क्षीणे सप्तानां सत्ता / सा च जघन्योत्कर्षणान्तर्मुहूर्तप्रमाणा / सा हि क्षीणमोहगुणस्थाने। तस्य च कालमानमन्तर्मुहूर्त्तमितिघातिकर्मचतुष्टयक्षयेण चतसृणां सत्ता / सा च जघन्येनान्तर्मुहूर्तप्रमाणा, उत्कर्षण पुनर्देशोनपूर्वकोटिमाना / तथा-सर्वप्रकृति समुदयोऽष्टौ, तासां चादयोऽभव्यानाश्रित्यानाद्यपर्यवसाना, मव्यानाश्रित्यानादिसपर्यवसानः / उपशान्तमोह-गुणस्थानकात्प्रतिपतितानाश्रित्य पुनः सादिसपर्यवसानः / स च जघन्येनान्तर्मुहूर्तप्रमाणः, उपशमश्रेणीतः पतितस्य पुनरप्यन्तर्मुहूर्तेन कस्याप्युपशमश्रेणिप्रतिपत्तेः / उत्कर्षेण तु देशोनापार्द्धपुद्गलपरावर्त / तथा-ता एवाष्टो मोहनीयवर्जाः सप्त, तासामुदयोजघन्येनैकं समयम्। तथाहि-मोहवर्जसप्तानां प्रकृतीनामुदय उपशान्तमोहे, क्षीणमोहे वा प्राप्यते। तत्र कश्चिदुपशान्तगुणस्थानके एक समयं स्थित्वा द्वितीय समये च भवक्षयेण दिवं गच्छन्नविरतो भवति / अविरतत्वे चावश्यमष्टानां प्रकृतीनामुदयः ततः सप्तानामुदयो जघन्येनैक समय यावदव प्यते, उत्कर्षेण त्वन्तर्मुहूर्तम, उपशान्तमोह क्षीणमोहगुणस्थानयोरान्त मौहुर्ति कत्वात् / तथा-घातिकर्मवर्जाश्चतस्त्र: कर्मप्रकृतयः तासां च जघन्यत उदय आन्तर्मोहुर्तिकः उत्कर्षण देशोनपूर्वकोटिप्रमाण इति / पिण्हार्थश्चायमिथ्यादृष्टिगुणस्थानकमारभ्ययावदुपशान्तमोहगुणस्थानकं तावदष्टानामपि सत्तः क्षीणमोहगुणस्थाने सप्तानां सत्ता, सयोग्ययोगगुणस्थानकयोश्चतसृ