________________ जीवट्ठाण 1550 - अभिधानराजेन्द्रः - भाग 4 जीवट्ठाण प सुं उरलो चिय, वाए वेउव्वियदुग च ||8|| अपर्याप्त सूक्ष्माऽऽदौ कार्मणमौदारिकद्विकं च औदारिको दारिकमिअंलक्षणं, भावना पातनिकाऽनुसारेण वेदितव्या / संज्ञिनि पुनः "लद्धिल्ले" इति वैक्रियलब्धिमति देवादावपर्याप्त वैक्रियांद्विकम् वैक्रियवैक्रियमिश्रलक्षणं, चशब्दात् कार्मणं च द्रष्टव्यम् / तथा पर्याप्तषु सूक्ष्माऽऽदेशब्दादौदारिक एव काययोगः, उपलक्षणमेतत्-तेन देवनारकेषु वैक्रिय एव / तथा वाते वायुकायिके पर्याप्त वैक्रियद्विकम् वैक्रियवैक्रियमिश्रलक्षणं, चशब्दस्यानुक्तसमुच्चायकत्वादौदारिकं च वैक्रियद्विकमपि च वातकायस्य कस्य चिदेव द्रष्टव्यम्, न तु सर्वस्य / यत उक्त प्रज्ञापनाचूर्णी -'तिण्हं ताव रासीणं वेउव्वियलद्धी चेव नस्थि, वायरपजुत्ताणं पि संखेजइभागस्स ति" / अत्र (तिण्हं रासीण ति) त्रायाणां पर्याप्तापर्याप्तसूक्ष्मापर्याप्ताबादररूपाणां राशीनाम्। पं० सं०१ द्वार। कर्म० / साम्वतमुपयोगः प्ररूपणावसरप्रप्ताः, ते च द्वादशा तद्यथामतिज्ञानश्रुतज्ञानाऽवधिज्ञानमनः पर्यवज्ञानकेवलज्ञानलक्षणानि पञ्च ज्ञानानि / मत्यज्ञानश्रुताज्ञानविभङ्गरूलदर्शनरूपाणि त्रीण्यज्ञानानि / चक्षुर्दर्शनाऽचक्षुर्दशनाऽवविदर्शनकेवलदर्शनरूपाणि चत्वारि दर्शनानीत्येतानुपयोगान् जीवस्थानकेषु दिदर्शयिषुराह - (पजसन्निसु वार उवओग त्ति) पज्जशब्देन पर्याप्त उच्यते / ततः पर्याप्तश्च ते संज्ञितश्च पर्यप्तसंज्ञिनः, तेषु पर्याप्तसंजिषु द्वादश द्वादशसंख्या उपयोगा भवन्ति। तंच क्रमेणैव नतुयुगवत्, उपयोगानां तथा जीवस्यवभावतो योगाविद्यासंभवात्। उक्त च- "समए दाणुवओगा।' श्रीभद्रबाहुस्वभियादा अप्याहु :'नाणम्मि दसणम्मि य, एतो एगयरम्मि उवउत्ता। सव्वस्स केवलिस्स वि, जुगवं दो नत्थि उवओगा' / / इति / / 5 / / पजचउरिंदियसन्निसु, दुदंस दुअनाण दससुचक्खु विणा। सन्निअपजे मणना-णचक्खुकेवलदुगविहूणा ||6|| चतुरिन्द्रियाश्च असांज्ञनश्च चतुरिन्द्रियासंज्ञिनः, पर्याप्ताश्च ते चतुरिन्द्रियासंज्ञिनश्च,तेषु पर्याप्त चतुरिन्द्रियपासंज्ञिषु, चत्वार उपयोगा भवन्ति। के ते? इत्याह-दुदंस दुअनाण त्ति दर्शो दर्शन, द्वयोर्दर्शयोः समाहारो द्विदर्शम्वक्षुर्दर्शनाचक्षुर्दर्शनलक्षणम्, द्वयोरज्ञानयोः समाहारो व्यज्ञानमत्यज्ञानश्रुताज्ञानरूपम् / अयमर्थः- पर्यातचतुरिन्द्रियेषु पर्याप्तासंज्ञिपञ्चेन्द्रियेषु च मत्यज्ञानश्रुताज्ञानवक्षुर्दर्शनाचक्षुर्दशनलक्षणाश्चत्वार उपयोगा भवन्ति / दशसु जीवस्थानकेषु पर्याप्तापार्याप्तसूक्ष्मवादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियाऽपर्याप्तपर्याप्तचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियलक्षणेषु पूर्वोक्ताश्चत्वार उपयोगाश्चक्षुर्दर्शन विना भवन्ति / पूर्वाक्तदशजीवस्यानकेषु चक्षुर्दर्शनवर्जाअचक्षुर्दर्शनमत्यज्ञानश्रुताज्ञानलक्षणास्त्रय उपयोगा भवन्ति / न नु स्पर्शनेन्द्रियावरणक्षयोपशमसंभवाद्भवतु मतिरे के न्द्रियाणायत्तु श्रुतं तत्कथं संजाघटाति / भापालब्धिश्रोवेन्द्रियलब्धि मतो हि तुदपपद्यते, नान्यस्य। तदुक्तम् - ''भावसुर्य भासासो-यलद्धिणो जुज्जए न इयरस्स। भासाभिसुहस्स सुयं, से ऊण व जं हविजा हि / / 1 / / इति? उच्यते-इह तावदेकेन्द्रियाणामाहाराऽऽदिसंज्ञा विद्यन्ते, तथा सूत्रोऽभि | यानात्, संज्ञा चाभिलाप उच्यते / यदवादि परोपक रभूरिभिः श्रीहरिभद्रसूरिभिर्मूलाऽऽवश्यकटीकायाम्--आहारसंज्ञा आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वात्मपरिणामविशेष इति / अभिलाषश्चममैवरूपं वस्तु पुष्टिकारि, तादीद्रमवाप्यते ततः समीचीन भवतीत्येवं शब्दार्थोल्लखानुबद्धः स्वपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्राप्तयध्यवसायरूपः / स च श्रुतमेव शब्दार्थाऽऽलोचनानुसारित्वात्, श्रुतस्यैवेतल्ल क्षणत्वात्। यदवादिषुर्दलितप्रवादिकुवादिश्रीजिनभद्रगणिक्षमाश्रमणपादाः''इंदियमणोनिमित्त, विन्नाणं जं सुयानुसारेणं / निययत्थुत्तिसमन्थ, त भावसुयं मइंसेसं // 1 // (सुयाणुसारेणं ति) शब्दार्थाऽऽलाचनानुसारेण केवलमेकेन्द्रियाणामव्यक्त एव कश्चनाप्यनिर्वचनीयः शब्दार्थील्लुखो द्रष्टव्यः / अन्यथाऽऽहाराऽऽदिसंज्ञाऽनुपपत्तेः / यदप्युक्तम् भाषालब्धिश्रोटोन्द्रियलब्धिविकलत्वादेकेन्द्रियाणां श्रुतमनुपपन्नमिति। तदप्यसमीक्षिताभिधानम् / तथाहि-बकुलाऽऽदेः स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि किमपि सूक्ष्म भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते / "पंचिंदिय व्व बउलो, नरु व्व सव्वविसओवलंभाओ।" इत्यादिवचन प्रामाणयात् / तथा भाषाश्रोत्रोन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्म श्रुतमपि भविष्यति, अन्यथाऽऽहाराऽऽदिसंज्ञ ऽनुपपत्तेः; यदाहुः प्रशस्यभाष्यसस्यकाश्यपीकल्पा, श्रीजिन भद्रगणिक्षमाश्रमणाः-''जह सुहम भाविदिय-नाणं दबिंदियाण विरहे वि / दव्वसुया भावम्मि व, भावसुयं पत्थिवाईण ||1|' इति / संज्ञी चासौ अपर्याप्तः संज्ञयपर्याप्तन्तस्मिन् संज्यपर्याप्त मनःपर्यवज्ञानचक्षुर्दर्शनकेवलज्ञान के वलदर्शनलक्षणविक विहीनाः शेषा मतिज्ञान श्रुतज्ञाननावधिज्ञानमत्यज्ञानश्रुता ज्ञानविभङ्गानाचक्षुर्दर्शनावधिदर्शनारूपा अष्ट वुपयोगा भवन्ति / कर्म० 4 कर्म० / जीवस्थानेषू योगानीभदधति - मइसुयअन्नाणाऽव-खुदेसणेक्कारसेसु ठाणेसु। पज्जत्तचउपणिंदसु, संचक्खुसन्नीसु वारस वि||८|| ऐकादशसु पर्याप्तापर्याप्तसूक्ष्मबादरेकेन्द्रियद्वीन्द्रियत्रीन्द्रियाऽपर्याप्तवतुरिन्द्रियासांज्ञसांज्ञषुमत्यज्ञानश्रुताज्ञानचक्षुर्दर्शनाख्या-स्त्रय उपयोगा भवन्ति / अपर्याप्तकाश्चेह लब्ध्यपर्याप्तका वेदितव्याः / अन्यथा करणापर्याप्तकेषु चतुरिन्द्रियाऽऽदिष्विन्द्रियपर्याप्तौ सत्या चक्षुर्दर्शनमपि प्राप्यते, मूलटीकायामाचायेणाभ्य, ज्ञानात् / संज्ञिनि च करणापर्याप्त मतिश्रुतावविज्ञानविभङ्ग ज्ञानावावधिदर्शनान्यपि तथा / (पज्ज त्त वउपणिंदिसु त्ति) पर्याप्तेषु चतुरिन्द्रियेषु असंज्ञिपञ्चेन्द्रियेषु च सचक्षुपः सचक्षु दर्शनाः पूवोक्तास्त्रय उपयोगा भवन्ति।संज्ञिषु चपर्याप्तषुद्वादशापि / पं० सं०१ द्वार। साम्प्रतं जीवस्थानेष्वेव लेश्याः प्रतिपिपादयिषुराहसन्निदुगि छलेस अपज-तबायरे पढम चउति सेसेसु / संज्ञिनो द्विकमपर्याप्तपर्याप्तलक्षणं संज्ञिद्विकं, तस्मिन् संज्ञिन्यपर्याप्त, संज्ञिनि पर्याप्ते चेत्यर्थः / षट् लेश्याः कृष्णनीलका पोततेजःपद्मशुक्लक्षणा भवन्ति / अपर्याप्तबादरे प्रथमाश्चतस्रः कृष्णनालकापोततेजोरूपा भवन्ति / तेजोलेश्या कथमस्मिन्नवाप्यत इति चेत ? उच्यते यदा "पुढवीआउवणस्सइगब्भे पजत्तसंखजीवेसु! सग्गचुयाणं वासो, सेसा पडिसेहिया ठाणा'' ||1|| इति वचनात् कश्चनापि देवः स्वर्गलोकाध्युतः सन् बादरैकेन्द्रियतया भूदकतरुषु मध्ये समुप्तद्यते, तदा तस्य घण्टालालान्यायेन सा प्राप्यत इत्यदोषः / (ति से -)