SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ जीवट्ठाण 1546 - अभिधानराजेन्द्रः - भाग 4 जीवट्ठाण ते सविउव्वमीस एसुं, तणुपज्जेसू उरलमन्ने // 4 // अपर्याप्तानां सूक्ष्मबादरद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणा षट्कमपर्याप्तषट्कं तस्मिन् अपर्याप्तषट्के, संज्ञिपञ्चेन्द्रियापर्याप्तवर्जितेषु षट्सु अपर्याप्तेषु योगीभवतः। द्विवचनस्य बहुवचनं प्राकृतत्वात्। यथा- "हत्था पाया" इत्यादौ / कौ योगी ? इति। आह-कार्मणौदारिकामश्री; तत्रा कार्मणकाययोगोऽपान्तरालगतावुत्पत्तिप्रथमसमये च, शेषकालं त्वौदारिक मिश्रकाययोगः / (अपजसन्नीसु। ते अविउव्वमीस त्ति) अपर्याप्त संज्ञिषु संज्ञयपर्याप्तजीवेषु तौ पूर्वोक्ता कार्मणौदारिक मिश्रकाययोगी भवनः। किं केवलौ? नेत्याहसह वैक्रियमिश्रेण वर्तते इति सवैक्रियमिश्री। तथा चापर्याप्तसंज्ञिनि त्रयो योगा भवन्ति कार्मणकाययोगः, औदारिकमिश्रकाययोगः, वैक्रियमिश्रकाययोगश्च / तत्र कार्मणकाययोगोऽपान्तरालगतावुत्पत्तिप्रथमसमये च, शेषकालं तु तिर्यड्मनुष्योरौदारिकमिश्रकाययोगः / संज्ञिनोऽपर्याप्तस्य देवनारकेषु पुनरुत्पद्यमानस्य वैक्रियमिश्र-काययोगो द्रष्टव्यः, न शेषस्य असंभवात् / मिश्रता चात्रा कार्मणेन सह द्रष्टव्याः। अौव मतान्तरमुपदर्शयन्नाह-एषु पूर्वनिर्दिष्टषु शेषपर्याप्त्यपेक्षया पर्याप्तषु, तनुपर्याप्तषु, शरीरपर्याप्तेष्वित्यर्थः / औदारिकमौदारिककाययोगम्, अन्ये केचिदाचार्याः शीलाकाऽऽदयः, प्रतिपादयन्तीति शेषः / शरीरपर्याप्त्या हि परिसमाप्तिवत्या किल तेषां शरीरं परिपूर्ण निष्पन्नमिति कृत्वा / तथा च तद् ग्रन्थ:- औदारिककाययोगस्तिर्यड्मनुष्ययोः शरीरपर्याप्त रूज़, तदारतस्तु मिश्र इति। नन्वनया युक्त्या संज्ञिनोऽपर्याप्तस्य देवनारकेषूत्पद्यमानस्य तनुपर्याप्तया पर्याप्तस्य वैक्रियमपि शरीरमुपयद्यत एव, किमिह तन्त्रोक्तमिति ? उच्यतेउपलक्षणत्वात् एतदपि द्रष्टव्यमित्यदोषः / यद्वा-इहापर्याप्ता लब्ध्यपर्याप्तका एवान्तर्मुहुर्तायुषो द्रष्टव्याः / ते च तिर्यङ्ग मनुष्या एव घटन्ते, तेषामेवान्तर्मुहुरनाऽऽयुष्कत्वात् / लब्ध्यपर्याप्तका अपि च जघन्यतोऽपीन्द्रियपर्याप्तौ परित्मप्तायामेव म्रियन्ते, नागित्युक्तमागमाभिप्रायेण / ततस्तेषां लब्ध्यपर्याप्तकानां शरीरपर्याप्तया पर्याप्तानामौदारिक मेव शरीरमुपपद्यते, न वैक्रियमित्यदोषः / किं चान्यमतकथनेनायमभिप्रायः सूच्यते-यद्यपि तेषा शरीरपर्याप्तिः समजनिष्ट, तथापि इन्द्रियोच्छवासाऽऽदीनामधाप्यनिष्पन्नत्वेन शरीरस्यासंपूर्णत्वात् / अत एव कार्मणस्याप्यद्यापि व्याप्रियमाणत्वाचौदा रिकमिश्रमेव तेषां युक्त्या घटमानमिति // 4|| सव्वे सन्निपजत्ते, उरलं सुहुमे सभास तं चउसु / बायरि सविउव्विदुर्ग, पजसन्निसु वार उवओगा॥५॥ सर्वे पञ्चदशापि योगा भवन्ति / तथाहि-चतुर्दा मनोयोगः, चतुर्दा वाग्योगः, सप्तधा काययोगः क्व? इति।आह-संज्ञिप-यप्ति संज्ञीचासो पर्याप्तः संज्ञिपर्याप्तस्तस्मिन् संज्ञिपर्याप्त / नन्वौदारिकमिश्रवैक्रियमिश्रकार्मणकाय योगाः कथं संज्ञिपर्याप्तस्य घटन्ते, तेषामपर्याप्तावस्थाभावित्वात् ? उच्यते- वैक्रियमिश्रं संयताऽऽदेः वैक्रियं प्रारभमाणस्य प्राप्यते, औदारिकमिश्रकार्मणकाययोगौ तु केवलिनः समुद्घातावस्थायाम्। यदाह भगवानुमास्वातिवाचकवर:"औदारिकप्रयोक्ता, प्रथमाष्टमसमयोरसाविष्टः। मिश्रौदारिकयोक्ता, सप्तमषष्ठयद्वितीयेषु / / 1 / / कार्मणशरीरयोगी, चतुर्थक पञ्चमे तृतीये च / / " इति। पर्याप्तसूक्ष्मैकेन्द्रिये औदारिककाययोगो भवति, पर्याप्तशब्दश्व "सव्वे सन्निपज्जते इति पदाद् डमरुकमणिन्यायेन सर्वत्र याज्यः / (चउसु त्ति) चतुषु द्वीन्द्रियसीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु तदेवौदारिकं भवति / किं केवल ? नेत्याह-सभाषं स भाषया असत्यामृषास्वरूपया, "विगलेसु असञ्चमांसत्ति 'वचनात् वर्तते इति सभाषम्। कोऽर्थः? -विकलत्रिकासंज्ञिपञ्चेन्द्रियेषु पर्याप्तषु औदारिककाययोगः सत्यामृषाभाषालक्षणौ द्वौ योगी इत्यर्थः / तदित्यनुवर्तते, तदौदारिक सह वैक्रियद्विकेन वैक्रियवैक्रियमिश्रलक्षणेन वर्तते इति सवैक्रियद्विक बादरैकेन्द्रियपर्याप्त भवति / अयमर्थःबादरैकेन्द्रिये पर्याप्त औदारिककाययोग वैक्रियकाययोगवैक्रियमिश्रकाययोगलक्षणाास्त्रयो योगा भवन्ति / तत्रौदारिककाययोगः पृथिव्यम्बुतेजोवनपस्तीनां, वैक्रियद्विकं तु वायुकायस्येति प्ररूपिता जीवस्थानेषु योगाः / कर्म०४ कर्म०। एतेषु पुनर्जीवस्थानेषु योगानभिधित्सुराहविगलासन्नीपज्ज -- त्तएसु लब्भंति कायवइजोगा। सव्वे वि सन्निपञ्ज-त्तएसुसेसेसु काओगो॥६॥ इह पदैकदेशे पदसमुदायोपचारा विकला इत्युक्ते विकलेन्द्रियग्रहणम् / एवमन्यत्रापि यथायोग परिभावनीयम / तत्रा विकलेन्द्रियेषुद्वित्रिचतुरिन्द्रियरूपेषु, असंज्ञिकेषु च पञ्चेन्द्रियेषु, पर्याप्तकेषु कायवाग्योगो लभ्येते। तत्र काययोगो औदारिकशरीरलक्षणो द्रष्टव्यः, वाग्योगश्चासत्यामृषारूपः, "विगलेसु असच्चमोसे च।" इति वचनात् / सर्वेऽपि च संज्ञिपञ्चेन्द्रियेषु पर्याप्तषु सप्रभेदाः कायवाङ्मनोयोगाः पञ्चदशापि योगास्तेषु भवन्तीत्यर्थः / तत्रा कर्मणौदारिकमिश्री केवलिसमुद्घातावस्थायाम्। उक्तं च - "मिश्रौदारिकयोगी, सप्तमषष्ठद्वितीयेषु / कार्मणशरीरयोगी, चतुर्थक पञ्चमे तृतीयेच' / / 1 / / इति। आहारकाहारकमिश्रावाहारकर्तुर्वोक्रियमिश्री च तत्कर्तुः शेषास्त्वौदारिकाऽऽदयः सुप्रतीताः तथा शेषेषु पर्याप्तापर्याप्तसूक्ष्मबादरैकेन्द्रियेषु, अपर्याप्तेषु च द्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिषु काययोग एवैको भवति॥६॥ तमेव स्पष्टयन्नाहलद्धीए करणेहि य, ओरालिय मीसगो अपञ्जते। पञ्जत्ते ओरालो, वेउव्विय मीसगो वा वि।।७।। लब्ध्या, करणैश्चापयप्ति औदारिकमिश्रः काययोगो भवति / इदं च तिर्यइमनुष्यानधिकृत्योक्तमक्सेयम्। तेषामेव हि लब्ध्या, करणैश्चेति विशेषणद्वयसंभवः,न देवनारकाणा, ते हि करणापर्याप्ता एव संभवन्ति, नलब्ध्यपर्याप्तिकाः, ततस्तेषामपर्याप्तावस्थायां वैक्रियमिश्रः काययोगो वेदितव्यः / सप्तानामपि चापर्याप्तानामपान्तरालगतावुत्पत्तिप्रथमसमये च कार्मणकाय योगः। तथा पर्याप्त औदारिको, वैक्रियो, वैक्रियमिश्रश्च / तत्रौदा रिकस्तिर्यड्मनुष्याणां, वैक्रियो देवनारकाणां वैक्रियवैक्रियमिश्री पर्याप्तबादरवायुकायिकपञ्चेन्द्रियतिर्यङ्मनुष्याणां वैक्रियलब्धिमताम् / अपिशब्दादाहारकाहारकमिऔ चतुर्दशपूर्व विदः, इह केचन शरीरपर्याप्तरवीक् नरतिरश्चामौदारिकमिश्र, देवनारकाणां वैक्रियमिश्र, शरीरपर्याप्तरूवं पुनः शेषपर्याप्तिभिरपर्याप्तानामप्यौदारिकं वैक्रियं चेच्छन्ति, तन्मतेनेयमन्यकर्तृकी गाथा - कम्मुरलदुगमपज्जे, वेउव्विदुगं च सन्निलद्धिल्ले।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy