SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ जीवकाय 1547- अभिधानराजेन्द्रः - भाग 4 जीवट्ठाण जीवकायस्वरूपनिरूपणार्थमाहपुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी। वाउजीवा पुढो सत्ता, तणरुक्खा सवीयगा // 7 // (पुढवीजीवा इत्यादि) पृथिव्येव पृथिव्याश्रिता वा जीवाः, ते च प्रत्येकशरीरत्वात्पृथक् प्रत्येकं सत्त्वा जन्तवोऽवगन्तव्याः। तथा आपश्च जीवाः / एवमग्निकायाश्च, तथाऽपरे वायुजीवाः / तदेवं चतुर्महाभूत- | समाश्रिताः सत्त्वाः प्रत्येक शारीरिणोऽवगन्तव्याः। एत एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्त्वाः प्रत्येकशरीरिणो, वक्ष्यमाणवनस्पतेन्तु साधारणासाधारणशरीरत्वेनापृथक्त्व-मप्यस्तीत्यस्यार्थस्य दर्शनाय पुनः पृथक्सत्त्वग्रहणमिति / वनस्पतिकावस्तु यः सूक्ष्मः सः सर्वोऽपि निगोदरूपः / साधारणबादरस्तु साधारणोऽसाधारणश्चेति / तत्र प्रत्येकशारीरिणोऽसाधारणस्य कतिचि-द्वेदान्निर्दिदिक्षुराह - तत्रा तृणीनि दर्भवीरणाऽऽदीनि, वृक्षाश्चूता शोकाऽऽदयः, सह बीजैः शालिगोधूमाऽऽदिभिर्वर्तन्त इति सबीजकाः / एते सर्वेऽपि वनस्पतिकायाः सत्त्वा अवगन्तव्याः / अनेन च बौद्धाऽऽदिमतनिरासः कृतोऽवगन्तव्य इति / एतेषां च पृथिव्यादीनां जीवानां जीवत्वेन प्रसिद्धिस्वरूपनिरूपणमाचारे प्रथमाध्ययने शास्त्रपरिज्ञाऽऽख्ये न्यक्षेण प्रतिपादितमिति नेह प्रतन्यते। षष्ठजीवनिकायप्रतिपादनायाऽऽह - अहावरा तसा पाणा, एवं छक्कायआहिया। एतावए जीवकाए, णवरे कोइ विजई।। (अहावरेत्यादि) तत्रा पृथिव्यप्तेजोवायुवनस्पतय एके न्द्रियाः सूक्ष्मबादरपर्याप्तापर्याप्तकभेदेन प्रत्येकं चतुर्विधाः। अथानन्तरमपरेऽन्ये असन्तीति त्रसाः, द्वित्रिचतुः पञ्चेन्द्रियाः कृमिपिपीलिकाभ्रमरमनुष्याऽऽदयः। तत्रा द्वित्रिचतुरिन्द्रियाः प्रत्येक पर्याप्तकापर्याप्तकनेदात्षड्विधाः / पञ्चेन्द्रियास्तु संज्ञयसंज्ञिपर्याप्तकपर्याप्तभेदाचतुर्विधाः। तदेवमनन्तरोक्तया नीत्या चतुर्दशभूतग्रामाऽऽत्मकतया व्याख्यातास्तीर्थकरगणधराऽऽदिभिरेतातनेव तद्भेदाऽऽत्मक एव, संक्षेपतो जीवनिकायो जीवराशिर्भवत्यण्डजोदिजसंस्वेदजाऽऽदेरौवान्तर्भावान्नापरो जीवराशिर्विद्यते कश्चिदिति। सूत्रा०१ श्रु०११ अ०। जीवकिरिया स्त्री० (जीवक्रिया) जीवस्य क्रिया व्यापारी जीवक्रिया / सामान्यक्रियायाम्, स्था० / "जीवकिरिया दुविहा पण्णता / तं जहा–सम्मत्तकिरिया चेव, मिच्छत्तकिरिया चेव।" स्था० २टा०२ उ०॥ जीवगराय पु० (जीवकराज) नेमिजिनसमकालिके स्वनामख्याते राजनि, ति०। जीवग्गाह अव्य० (जीवग्राह) जीवतो ग्रहणे, "जीवग्गाहं गिण्हंति।" जीवतीति जीवस्तं जीवं जीवन्तं गृह्णाति। ज्ञा०१ श्रु०२ अ०॥ जीवधणपुं०(जीवधन) जीवाश्च तेघनाश्च शुषिराऽऽपूरणाद् जीवघनाः / आ० म० द्वि० / अन्तररहितत्वेन जीवप्रदेशमयेषु, सिद्धलक्षणमधिकृत्य - ''अरूविणे जीवघणा' जीवाश्च ते धना अन्तररहितत्वेन जीवप्रदेशमयाः / उत्त० 36 अ०। जीव एवघनो मूर्त्तिः सैन्धवशिलाशकल इव यस्य। हिरण्यगर्भे , वाच०। जीवघाय पुं० (जीवघात) प्राणातिपाते, आव०६ अ०। जीवजढ त्रि० (जीवजह) जीववर्जिते, नि० चू० 1 उ० / जीवट्ठाण न० (जीवस्थान) 6 त० / मर्मणि, वाच०। जीवन्ति यथायोग प्राणान् धारयन्तीति जीवाः प्राणिनः शरीरभृत इति पर्यायाः / तेषा जीवानां स्थानानि सूक्ष्मापर्याप्तैकेन्द्रियत्वाऽऽदयोऽवान्तरविशेषास्तिछन्ति जीवा एषु इति कृत्वा जीवस्थानानि। जीवानां सूक्ष्मापर्याप्तकेन्द्रियत्वाऽऽदिकेऽवान्तरवि शेषे, कर्म०। अथ जीवस्थानप्रतिपादकां गाथामाह - नमिय जिणं जियमगण - गुणठाणुवओगजोगलेसाओ। बंधऽप्पबहुभावे, संखिजाई किमवि युच्छं / / 1 / / जिनं नत्वा जीवस्थानाऽऽदि वक्ष्य इति संबन्धः / (कर्म०) जीवमार्गणागुणस्थानाऽऽदि वक्ष्ये, इह स्थानशब्दस्य प्रत्येकं योगाद् जीवस्थानानि मार्गणास्थानानि गुणस्थानानि उपयोगश्च योगश्च लेश्याश्चेति द्वन्द्वे द्वितीयाशस् / (कर्म०) यद्वा-बन्ध इति पदैकदेशेऽपि 'भामा' सत्यभामेतिन्यायेन पदप्रयोगदर्शनाद्बन्धहेतवो मिथ्यात्वाविरतिकषाययोगरूपा वक्ष्यमाणा गृह्यन्ते (अप्पबहु त्ति) भावप्रधानत्वान्निदेशस्य अल्पबहुत्वं, गत्यादिरूपमार्गणास्थानाऽऽदीनां परस्परं स्तोकभूयस्त्वम्। (भाव त्ति) जीवाजीवानां तेन तेन रूपेण भवनानि परिणमनानि, भावा औपशमिकाऽऽदयः, ततो बन्धचाल्पबहु त्वं च भावाश्चेति द्वन्द्वे द्वितीयीबहुवचनं शस् / सूत्रो च - "अप्पबहू'इत्यत्रा दीर्घत्वं "दीर्घहस्वौ मिथो वृत्तौ'' ||8/1 / 4 / इति प्राकृतसूत्रोण / (संखिआइत्ति) संख्यायते चतुःपल्यादिप्ररूपणवा परिमीयत इति संख्येयम्। आदिशब्दादसंख्येयाऽनन्तकपरिग्रहः। तत एवं जीवस्थानाऽऽदिकमनन्तकपर्यवसानं द्वारकलापम्। अत्र वक्ष्ये इत्यनेनाभिधेयमाह। कथ वक्ष्य इत्याह (किमवित्ति) किमपि किञ्चित् स्वल्पं न विस्तरवत्। दुष्पमानुभावेनापचीयमान-मेधाऽयुर्बलाऽऽदिगुणानामैदयुगीनजनानां विस्तराभिधाने सत्युपकारासंभवात्तदुपकारार्थं चैप शास्त्रऽऽरम्भप्रयासः। एतेन संक्षिप्तरुचिसत्त्वानाश्रित्य प्रयोजनमाचष्ट। संबन्धस्त्वर्थाऽऽपत्तिगम्यः स चोपायोपेयलक्षणः साध्यसाधनलक्षणो, गुरुपर्वक्रमलक्षणो वा स्वयमभ्यूहाः / इह च मार्गणास्थानगुणस्थानाऽऽदयः सर्वे पदार्था न जीवपदार्थमन्तरेण विचारयितुं शक्यन्त इति प्रथमं जीवस्थानग्रहण 1 / जीवाश्चप्रपञ्चतोनिरूप्यमाणागत्यादिमार्गणास्थानैरेव निरूपयितुं शक्यन्त इतितदनन्तरंमार्गणास्थानग्रहणम् / तेषुचमार्गणास्थानेषुवर्तमाना जीवा नकदाचिदपि मिथ्यादृष्ट्याद्यन्यतमगुणस्थानकविकला भवन्तीतिज्ञापनाय मार्गणास्थानकानन्तर गुणस्थानग्रहणम् 3 / अमूनि च गुणस्थानकानि परिणामशुझ्यशुद्धिप्रकर्षापकर्षरूपाण्युपयो गवतामेवोपपद्यन्ते, नान्येषामाकाशाऽऽदीना, तेषां ज्ञानाऽऽदिरूपपरिणामरहितत्वा दिति प्रतिपत्त्यर्थ गुणस्थानकग्रहणानन्तरमुपयोगग्रहणम् 4 / उपयोगवन्तश्च मनोवाकायचेष्टासु वर्तमाना नियमतः कर्मसंबन्धभाजो भवन्ति / तथा चाऽऽगमः- "जावणं एस जीवे एयइ वेयइ चलइफंदइ घट्टइ खुब्भइ तंत भावे परिणमइ, ताव णं अट्टविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एकविहबंधए वा नो ण अबंधए' इति ज्ञापनार्थमुपयोगग्रहणानन्तर योग
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy