________________ जीव 1544 - अभिधानराजेन्द्रः - भाग 4 जीव रेव, अल्पत्वात्तेषामे कै कस्यापि क्रोधाऽऽधुपयुक्तस्य संभवात्, मिश्रदृष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषु च न भवतीति न विकलेन्द्रियाणां तत्रत्राशीतिमङ्ग कसंभव इति। वृद्धस्त्विह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्ग कामति व्याख्यातम् / इहैव विशेषाभिधानायाऽऽह - "नवरं" इत्यादि / अयमर्थः- दृष्टिद्वारे, ज्ञानद्वारे च नारकाणा सप्तविंशतिरुक्ता। विकलेन्द्रियाणां तु (अब्भहिय त्ति) अभ्यधिकान्यशीतिर्भङ्गकानां भवति / केत्याह - सम्यक्त्वेऽल्पीयसा हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच तेषामेकत्वस्यापि संभवेनाशीतिभङ्गकानां भवति, एवमाभिनिबोधिश्रुते चेति। तथा 'जेहिं" इत्यादि। येषु स्थानेषु नैरयिकाणां सप्तविंशतिर्भङ्गाः, तेषु स्थानेषु द्वित्रिचतुरिन्द्रियाणां भङ्गकाभावः, तानि च प्रागुक्ताशीतिभनकस्थानावशिष्टानि मन्तव्यानि, भङ्गकाभावच्च क्रोधाऽऽधुपयुक्तानामेकदैवबहूनां भावादिति। विकलेन्द्रियसूत्राणि च पृथिवीकायिकसूत्राणीवाध्येयानि। नवरमिह लेश्याद्वारे तेजोलेश्या नाध्येतव्या। दृष्टिद्वारे च''वे इंदियाणं भंते ! किं सम्मट्टिी, मिच्छविट्ठी, सम्मामिच्छविट्ठी ? गोयमा ! सम्मट्टिी वि, मिच्छद्दिट्ठी वि, नो सम्मामिच्छट्टिी। सम्मदसेण वट्टमाणा वेईदिया किं कोहोवउत्ता?" इत्यादि प्रश्ने उत्तरम् - अशीति भङ्गाः / तथा ज्ञानद्वारे- "वेइंदियाणां भंते ! किं नाणी। अन्नाणी? गोयमा! नाणी वि, अन्नाणी वि। जइ नाणी दुन्नाणीमइनाणी, सुथनाणी य। शेषं तथैव अशीतिश्च भङ्गा इति। योगद्वारे-"वेइंदियाणं भंते ! किं मणजोगी, वइजोगी, कायजोगी ? गोयमा ! नो मणजोगी, वइजोगी, कायजोगीयशेषं तथैवा एवं त्रीन्द्रियचतुरिन्द्रियसूत्राण्यपि। पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियव्वा, नवरं जहिं सत्तावीसं भंगा तहिं अभंगयं कायव्वं / जत्थ असीई तत्थ असीई मणुस्सा वि। जेहिं ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं मणुस्सा वि असीइभंगा भाणियव्वा। जेसु सत्तावीसा तेसु अभंगयं। नवरं मणुस्साणं अब्भहियं जहणियट्ठिईए आहारए य असीइभंगा, वाणमंतरजोइस-वेमाणिया जहा भवणवासी। नवर नाणत्तं भाणियव्वं / जंजस्स० जाव अणुत्तरा। 'पंचिंदिय" इत्यादि। (जहिं सत्तावीसं भंग त्ति) यत्रा नारकाणां सप्तविंशतिर्भङ्गास्तत्र पञ्चेन्द्रियतिरश्चामभङ्ग कम, तच जघन्यस्थित्यादिक पूर्व दर्शितमेव, भङ्ग काभावच क्रोधाऽऽधुपयुक्तानां बहूनामेकदैव तेषु भावादिति / सूत्राणि चह नारक सूत्रावदध्येयानि / नवरं शरीरद्वारेऽयं विशेष:--''असंखेजेसु णं भंते ! पंचिंदियतिरिक्खजोणियावासेसु पचिंदियतिरिक्ख-जोणियाण केवइया सरीरा पण्णत्ता ? भोयमा ! चत्तारि / तं जहा- ओरालिए, वेउटिवए, तेयए, कम्मए / सर्वत्रा चाभङ्ग कमिति / तथा संहननद्वारे - "पंचिंदियतिरक्ख–जोणियाणं के वइया संघयणा पण्णत्ता ? गोयमा ! छ संघयणा / तं जहावइरोसहनाराय० जाव छेवह त्ति"। एवं संस्थान द्वारेऽपि-"छट्ठाणा पण्णत्ता। तं जहा-समचउरंसे०"६। एवं लेश्याद्वारे- "कइ लेसाओ पण्णत्ताओ? गोयमा ! छल्लेमा पण्णत्त / तं जहा- कण्हलेस्सा० "6 / (मणुस्सा वि त्ति) यथा नैरयिका दशसु द्वीरेष्वभिहितास्तथा मनुष्या अपि भणितव्या इति प्रक्रमः / एतदेवाह - "जेहिं'' इत्यादि / तत्र नारकाणां जघन्यास्थितादि-संख्यातान्तसमयाधिकायाम् 1, तथा जघन्यावगाहनायाम् 2, तस्यामेव संख्यातान्तप्रदेशाधिकायाम् 3, मिश्रे च 4 अशीतिर्भङ्गका उक्ताः। मनुष्याणामप्येतेष्वशीतिरेव। तत्कारणं च तदल्पत्वमेवेति। नारकाणां, मनुष्याणां च सर्वथा साम्यपरिहारायाऽऽह"जेसु सत्तवीस" इत्यादि / सप्तविंशतिर्भङ्गकस्थानानि च नारकाणां जघन्यस्थित्यसंख्यात-समयाधिकजघन्यस्थितिप्रभृतीनि, तेषु च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेनतद्वर्जेषु मनुष्याणामभङ्गकं. यतो नारकाणां बाहुल्येन क्रोधोदय एव भवति / तेन तेषां सप्तविंशतिर्भङ्गका उक्तस्थानेषु युज्यन्ते। मनुष्याणां तु प्रत्येकं क्रोधाऽऽधुपयोगवतां बहूनां भावान्न कषायोदय विशेषोऽस्ति / तेन तेषां तेषु स्थानेषु भङ्गकाभाव इति / इहैव विशेषाभिधानायाऽऽह - "नवरम्" इत्यादि। येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीतिः, तथा "जेसु सत्तावीसा तेसु अभंगयं'' इत्युक्तम्, केवलं मनुष्याणामिदमभ्यधिकम्, यदुत जघन्यकस्थितौ तेषामाशीतिर्न तु नारकाणाम्। तत्र सप्तविंशतिरुक्तेत्यभङ्ग कम् / तथा आहारक शरीरे अशीतिः, आहारकशरीरवतां मनुष्याणामल्पवात्। नारकाणांतु तन्नास्त्येवेत्येतदभ्यधिकं मनुष्याणामिति। इह च नारकसूत्राणां मनुष्यसूत्राणां च प्रायः शरीराऽऽदिषु चतुर्यु ज्ञानद्वार एव च विशेषः / तथाहि- "असंखेजेसुण भंते! मणुस्सावासेसु मणुस्साणं कइ सरीरा पण्णत्ता ? गोयमा ! पंच / तं जहा-ओरालिए, वेउव्विए, आहारए, तेयए, कम्मए।असंखेजेसुणं० जाव ओरालियसरीरे वट्टमाणा मणूसा किं कोहोव उत्ता वि०४ / ' एवं सर्वशरीरेषु, नवरमाहारके ऽशीतिर्भङ्गकानां वाच्या, एवं संहननद्वारेऽपि, नवरं ''मणुस्साणं भंते ! कइ संघयणा पण्णता? गोयमा ! छसंघयणा पण्णत्ता / तं जहा-वइरोसहनाराए० जाव छेवढे।' संस्थानद्वारे "छ संठाणा पण्णत्ता / तं जहा-समचउरसे०जाव हुंड"। लेश्याद्वारे- 'छ लेसाओ पण्णत्ताओ। तं जहा-कण्हलेसा० जाव सुकलेसा'। ज्ञानद्वारे'मणुस्साणं भंते ! कइ नाणाणि ? गोयमा ! पंच। तं जहा-आभिणिबोहियनाणं 5 / " एषु च केवलवर्जेष्वभङ्गकम्, केवले तु कषायोदय एव नास्तीति। "वाणमंतर'' इत्यादि / व्यन्तराऽऽदयो दशस्वपि स्थानेषु यथा भवनवासिनस्तथा वाच्याः। यत्रासुराऽऽदीनामशीतिभङ्गकाः, यत्र चसप्तविंशतिः, तत्रच व्यन्तराऽऽदीनामपिते तथैव वाच्याः। भङ्गकास्तु लोभमादौ विधायाध्येतव्याः, ता भवनवासिभिः सह व्यन्तराणां साम्यमेव / ज्योतिष्काऽऽदीनां तु न तथोत ! तैस्तेषां सर्वथा साम्यपरिहारसूचनायाऽऽहणवरं नाणत्तं भाणियव्वं जं जस्सत्ति / यल्लेश्याऽऽदिगत यस्य ज्योतिष्काऽऽदे नात्वमित रापेक्षया भेदस्तज्ज्ञातव्यमिहेति, परस्परतो विशेष ज्ञात्वा एतेषां सूत्राण्यध्येयानीति भावः / तत्र लेश्याद्वारेज्योतिष्काणामेकैव तेजोलेश्या वाच्या / ज्ञानद्वारेत्रीणि ज्ञानानि, अज्ञाना न्यपि त्रीण्येव, असंज्ञिना तत्रोपपाताभावेन / वभङ्गस्यापर्याप्तका वस्थायामपि भावात् / तथा वैमानिकाना लेश्याद्वारेतेजोलेश्या ऽऽदयस्तिस्त्रो लेश्या वाच्याः / ज्ञानद्वारे च त्रीणि ज्ञानान्यज्ञानानि चेति। वैमानिकसूत्राणि चैवमध्येयानि - "संखेजेसु णं भंते ! वेमाणियावाससयसहस्सेसु एगमेगंसि वेमाणियावासंसि केवइया ठिइट्ठाणा पन्नता?" इत्येवमादीनि। भ०१ श०५ उ०।