SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ जीव 1541 - अभिधानराजेन्द्रः - भाग 4 जीव क्रान्तानामिति भावनीयम्। शरीरद्वारेइमीसे णं भंते ! रयणप्पभाए जाव० एगमेगंसि निरयावासंसि नेरइयाणं कइ सरीरया पण्णत्ता? गोयमा ! तिण्णि सरीरया क्रोधमानमायात्रिके जाताः / तथैवान्येऽष्टौ क्रोधमानलो भेषु, तथैवान्येऽष्टौ क्रोधमायालोभेषु, तथैवान्येऽष्टौ मानमायालोभेष्वितिद्वाविंशत्, चतुष्कयोगे षोडश। तथाहि-क्रोधाऽऽदिष्वेकत्वेनेको, लोभस्य बहुत्वेन द्वितीयः, एवमेतौ मायैकत्वेन, तथान्यौ मायाबहुत्वेन। एवमेते चत्वारो मानैकत्वेन, तथाऽन्ये चत्वार एव मानबहुत्वेन / एवमेते अष्टौ क्रोधकत्वेन, एवमन्येऽष्टौ क्रोधबहुत्वेनेति षोडश / एवमेते सर्व एवाशीतिरिति। एते च जघन्यास्थतावकाऽऽदिसङ्ख्यातान्तसमयाधिकायां भवन्ति, असङ्ख्यः तसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्टा स्थितिं यावत्सप्तविंशतिर्भङ्गास्त एव, तत्र नारकाणां बहुत्वादिति। अथावगाहनाद्वारे - इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससय सहस्सेसु एगमेगंसि निरयावासंसि नेरझ्याणं केवइया ओगाहण ट्ठाणा पण्णत्ता ? गोयमा ! असंखेज्जा ओगाहणट्ठाणा पण्णत्ता। तं जहा-जहणिया ओगाहणा अंगुलस्स असंखेज्जइभाग, जहणिया ओगाहण्णा एगपदेसाहिया, जहणिया, जहणिया ओगाहणा दुपदेसाहिया, जहणिया ओगाहणा० जाव असंखेञ्जपदेसाहिया, जहणिय्या ओगाहणा तप्पाउग्गुक्कोसिया ओगाहणा॥ तत्र (ओगाहणट्ठाण त्ति) अवगाहन्ते आसते यस्यां साऽवगाहतः तनुः, तदाधारभूतं वा क्षेत्रां, तस्याः स्थानानि / प्रदेशवृद्ध्या विभागा अवगाहनास्थानानि, तत्र (जहणिय त्ति) जघन्याऽमुलासंख्येयभागमात्रा सर्वनरकेषु, (तप्पाउग्गुकोसियत्ति) तस्य विवक्षित-नरकस्य प्रायोग्या या उत्कर्षिका सा तत्प्रायोग्योत्कर्षिका। यथा-त्रायोदशप्रस्तटे धनुः सप्तकं रत्नित्रयमङ्गुलषट्कं चेति। इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरथावासंसि जहणियाए ओगाहणाए वट्टमाणा नेरइया किं कोहोवउत्ता असीइं भंगा भाणियव्वा० जाव संखेजपदेसाहिया जहणिया ओगाहणा, असंखेज्जपएसाहियाए जहणियाए ओगाहणाए वट्टमाणाणं तप्पाउग्गुक्कोसियाए ओगाहणाए वट्टमाणाणं नेरइयाणं दोसु वि सत्तवीसं भंगा।। "जहणियाए'' इत्यादि। जघन्यायां तस्यामेव चैकाऽऽदिसङ्ख्यातन्तप्रदेशाधिकायामवगाहनायां वर्तमानानां नारकाणामल्पत्वात्क्रोधssधुपयुक्त एकोऽपि लभ्यते, अतोऽशीतेर्भड़ाः / "असंखेज्जपएस' इत्यादि / असङ्ख्यातप्रदेशा धिकायांतत्प्रायोग्योत्कृष्टायां च नारकाणां बहुत्वात्तेषु च बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावान्मानादिषु त्वेकत्वबहुत्वसम्भवात्सप्तविंशतिर्भङ्गा भवन्तीति / ननु ये जघन्यस्थितयो जघन्यावगाहनाश्च भवन्ति, तेषां जघन्य स्थितिकत्वेन सप्तविंशतिर्भङ्गकाः प्राप्नुवन्ति, जघन्यावगाहकत्वेन चाशीतिरिति विरोधः? अत्रोच्यतेजघन्यस्थितिकानामपि जघन्यावगाहनाकालेऽशोतिरेव, उत्पत्तिकालनावित्वेन जघन्यावगाहनानामल्पत्वादति, या च जघन्यस्थितिकानां सप्तविंशतिः सा जघन्यावगाहनत्वमति- | जाव वेउब्वियसरीरे वट्टमाणा नेरइयण किं कोहोवउत्ता, सत्तावीसं भंगा। एएणं गमेणं तिणि सरीरया भाणियव्या। (सत्तावीसं भंग त्ति) अनेन यद्यपि वैक्रियशरीरे सप्तविंशतिर्भङ्गका उक्ताः तथापि या स्थित्याश्रयाऽवगाहनाश्रया च भड़क प्ररूपणा, सा तथैव दृश्या, निरवकाशत्वात्तस्याः, शरीराश्रया- याश्च सावकाशत्वात्। एवमन्यत्रापि विमर्शनीयमिति। (एएणं गमेण तिणि सरीरया भाणियव्व त्ति) वैक्रियशरीरसूत्रापाठेन त्रीणि शारीरकाणि वैक्रिय तैजसकार्मणानि भणितव्यानि, त्रिष्वपि भङ्ग कसप्तविंशतिर्वाच्येत्यर्थः / ननु विग्रहगतौ केवले ये तैजसकार्मणशरीरे स्यातां तयोरल्पत्वेनाशीतिरपि भङ्ग काना सम्भवतीति कथमुच्यते तयोः सप्तविंशतिरेवेति? अत्रोच्यतेसत्यमेतत्, केवलं वैक्रियशरीरानुगतयोस्तयोरिहाऽऽश्रयणं केवलयोश्चानाश्रयणमिति सप्तविंशतिरेवेति। यच्च द्वयोरेवातिदेश्यत्वे त्रीणीत्युक्तं , तत्रयाणामपिगमस्यात्यन्तसाम्योपदर्शनार्थमिति / / संहननद्वारेइमीसे णं मंते ! रयणप्पभाए जाव नेरइयाणं सरीरया किं संघयणा पण्णत्ता ? गोयमा ! छण्हं संघयणाणं असंघयणी, नेवट्ठी नेवच्छिरा नवे प्रहारूणि, जे पोग्गला अणिट्ठा अकंता अप्पिया असुहा अमणुण्णा अमणामा, एएसिं सरीरसंघायत्ताए परिणमंति / इमीसे णं भंते ! जाव छण्हं संघयणाणं असंघयणे वट्टमाणाणं नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा। (छह संघयणाणं असंघयणित्ति) षण्णां संहननानां वज्रऋषभनाराचाऽऽदीनां मध्यादेकतरेणापि संहननेनासहननानीति / कस्मादेवमित्यत आह - "नेवठ्ठी'' इत्यादि / नैवास्थ्यादीनि तेषां सन्ति, अस्थिसञ्चयरूपं च संहननमुच्यत इति / (अणि त्ति) इष्यन्ते स्मेतीष्टाः तनिषेधादनिष्टाः, अनिष्टमपि किञ्चित्कमनीयं भवतीत्यत, उच्यते- अकान्ताः, अकान्तमपि किञ्चित्कारणवशात्प्रीतये भवतीत्यत आह-अप्रियाः अप्रीतिहेतवः अप्रियत्व तेषां कुतः? यतः (असुभ त्ति) अशुभस्वभावाः, ते च सामान्या अपि भवन्तीत्यतो विशेष्यन्ते-(अमणुण्ण ति) न मनसाऽन्तः सवेदनेन शुभतया ज्ञायन्त इत्यमनोज्ञाः। अमनोज्ञता चैकदाऽपि स्यादत आह-(अमणाम त्ति) न मनसा अम्यन्ते गम्यन्ते पुनः पुनः स्मरणतो ये तेऽमनोमाः / एकार्थिकाश्चैते शब्दा अनिष्टताप्रकर्षप्रतिपादनार्था इति। (संघायत्ताए त्ति) साततया, शरीररूपसञ्चतयेत्यर्थः। संस्थानद्वारेइमीसे णं भंते! जाव सरीरया किं संठिया पण्णता?
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy