SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ जीव 1538 - अभिधानराजेन्द्रः - भाग 4 जीव नस्य चोपलक्षणत्वादुद्वर्त्तनमपीह दृश्यम्, तच स्थित्यादेर्वृद्धिकरणस्वरूपम् / (संकमिंसु त्ति) संक्रमितवन्तः, तत्र संक्रमण मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणम्। तथा चाह"मूलप्रकृत्यभिन्नाः, संक्रमयति गुण उत्तराः प्रकृतीः। न त्वात्माऽऽमूर्तत्वा-दध्यवसायप्रयोगेण / / 1 / / " अपरस्त्वाह"मोत्तूण आउयं खलु, दंसणमोहं चरित्तमोहं च। सेसाणं पगईणं, उत्तरविहिसंकमो भणिओ // 1 // " एतदेव निर्दिश्यते-यथा कस्यचित्सद्वेद्यमनुभवतोऽशुभ - कर्मपरिणतिरेवंविधा जाता, येन तदेव सद्यमसनेद्यतया संक्रामतीति। एवमन्यत्रापि योज्यम् / (निहत्तिंसु त्ति) निधत्तान् कृतवन्तः, इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते / उद्वर्त्तनापवर्त्तव्यतिरिक्त-करणानामविषयत्वेन कर्मणोऽवस्थानमिति। (निकाइंसु त्ति) निकाचितवन्तो, नितरांबद्धवन्त इत्यर्थः / निकाचनं च तेषामेव पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योन्यावगाहिता अग्नि प्रतप्तप्रतिहन्यमानसूचीकलापस्येव सकलकरणा-नामविषयतया कर्मणो व्यवस्थापनमिति यावत् / "भिजंति' इत्यादिपदानां संग्रहणी यथा - "भेदिय" इत्यादिगाथा गतार्था / नवरम् अपवर्तनसंक्रमनिधत्तनिकाचनपदेषु शिविधः कालो निर्देष्टव्यः, अतीतवर्तमानानागतकालनिर्देशेन तानि वाच्या नीत्यर्थः / इह चापवर्तनाऽऽदीनामिव भेदाऽऽदीनामपि त्रिकालता युक्ता, न्यायस्य समानत्वात्। केवलमविवक्षणान्न तन्निर्देशः सूत्रो कृते इति।। णेरइयाणं भंते ! जे पोग्गला तेयाकम्मत्ताए गिण्हंति, ते किं तीतकालसमए गिण्हंति, पडुप्पण्णकालसमए गिण्हंति, अणागयकालसमए गिण्हंति? गोयमाणोऽतीतकालसमए गिण्हंति, पडुप्पण्णकालसमए गिण्हंति, णो अणागयकालसमए गिण्हति १णेरइयाणं भंते ! जे पोग्गला तेयाकम्मत्ताए गहिए उदीरंति, ते किं तीतकालसमयगहिए पोग्गले उदीरंति, पडुप्पण्णकालसमयघिप्पमाणे पोग्गले उदीरंति, गहणसमयपुरक्खडे पोग्गले उदीरंति ? गोयमा ! तीतकाल-समयगहिए पोग्गले उदीरंति, णो पडुप्पण्णकालसमय-धिप्पमाणे पोग्गले उदीरंति, णो गहणसमयपुरक्खड़े पोग्गले उदीरंति 2 / एवं वेदंति 3, णिजरंति / "नेरइयाणं" इत्यादि व्यक्तम् / नवरं (ते याकम्मत्ताए त्ति) तैजसकामणशरीरतया, तद्रूपतयेत्यर्थः / (अतीतकालसमए त्ति) कालरूपः समयो, न तु समाचाररूपः / कालोऽपि समयरूपो, न तु वर्णाऽऽदिस्वरूप इति परस्परेण विशेषणात्कालसमयः, अतीतः कालसमयः अतीतकालस्य चोत्सर्पिण्यादेः समयः परमनिकृष्टों ऽशोऽतीतकालसमयः तत्रा०। (पडुप्पण त्ति) प्रत्युत्पन्नो वर्तमानो, नोऽतीतकाले त्यादौ अतीतानागतकालविषयग्रहणप्रतिषेधः, विषयातीतत्वात् / विषयातीतत्वं च तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति प्रत्युत्पन्नत्वेऽप्यभिमुखान् गृह्णाति, नान्यान्। (गहणसमयपुरक्खडे त्ति) ग्रहणसमयः पुरस्कृत्तो वर्तमानसमयस्य पुरोवर्ती येषां ते ग्रहणसमयपुरस्कृता / प्राकृतत्वादेवं निर्देशः / अन्यथा पुरस्कृतग्रहणसमया इति स्यात, ग्रहीष्यमाणा इत्यर्थः। उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वक त्वादुदीरणायाः / अत उक्तम् - अतीतकालसमयगृहीतानुदीरयन्तीति गृह्यमाणानां ग्रहीष्यमाणानां चागृहीतत्वादुदीरणाभावाः / तत उक्तम् - "नो पडुप्पण'' इत्यादि। वेदनानिर्जरासूत्रयोरप्येषैवोपपत्तिरिति। णेरइयाणं भंते ! जीवाओ किं चलियं कम्मं बंधंति, अचलियं कम्मं बंधंति ? गोयमा ! णो चलियं कम्मं बंधंति, अचिलयं कम्मं बंधति? णेरइयाणं भंते ! जीवाओ किं चलियं कम्म उदीरंति, अचलियं कम्मं उदीरंति? गोयमा ! णो चलियं कम्म उदीरंति, अचलियं कम्मं उदीरंति / एवं वेदंति 3 / उयदृति 4 / संकामंति५ / निहत्तंति 6 / णिकायंति७। सवेसु अचलियं णो चलियं / णेरइयाणं भंते ! जीवाओ किं चलियं कम्म णिज्जरेंति, अचलियं कम्मं णिज्जरेंति ? गोयमा ! चलियं कम्म णिज्जरेंति, णो अचलियं कम्मं णिजरेंति // 8|| गाहाबंधोदयवेदोय-दृसंकमणणिहत्तणिकाएसं। अचलिय कम्मं तु भवे, चलिअंजीवाउ णिज्जरए / / 1 / / "नेरइयाण' इत्यादि व्यक्ता च / नवरम् (जीवाओ किं चलियं ति) जीवप्रदेशेभ्यश्चलितं, तेष्वनवस्थानशील, तदितरत्त्वचलितं, तदेव बध्नाति / यदाह - "कृत्स्नैर्देशेः स्वकदे-शस्थं रागाऽऽदिपरिणतो योग्यम्। बध्नाति योगहेतोः, कर्म स्नेहाक्त इव च मलम् / / 1 / / " एवमुदीरणावेदनापवर्तनासंक्रमणनिधत्तनिकाचनानि भाव्यानि। निर्जरा तुपुद्गलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः शातनम्, सा च नियमाच लितस्य कर्मणो, नाचलितस्येति / इह सङ्ग हणी गाथा - "बंधोदय' इत्यादि भावितार्था, केवलमुदयशब्देनोदीरणा गृहीतेति। उक्ता नारकवक्तव्यता। भ४१श०१ उ०। अथ असुरकुमारवक्तव्यतामाहअसुरकुमाराणं भंते! पुवाहारिया पोग्गला परिणया ? असुरकुमारामिलावेणं जहा णेरइयाणं० जाव चलियं कम्म णिजरेंति / भ०१श०१ उ० एवं यावत्स्तनितकुमाराणा, पृथिवीकायिकानां यावद्द्वनस्पतिकायिकाना यथा नैरयिकाणां यावदचलितं कर्म निर्जरयन्ति / (द्वीन्द्रियाणां स्थित्याहारौ 'ठिई' शब्दे, तथा 'आहार' शब्दे द्वितीय भागे 505 पृष्ठे द्रष्टव्यौ) एएसि णं भंते ! पोग्गलाणं अणासाइजमाणाणं अफासाइज्ज माणाण य कयरे, कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसे साहिया वा ? गोयमा ! सव्वत्थोवा पोग्गला अणासाइजमाणा, अफासाइजमाणा अणंतगुणा। वेइंदियाणं भंते ! पोग्गला आहारत्ताए गिण्हंति, तेणं ते सिं पोग्गला कीसत्ताए भुजो भुञ्जो परिणमंति ? गोय - ना
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy