________________ जीव 1537- अभिधानराजेन्द्रः - भाग 4 जीव गाहा"परिणत चिया उवचिया, उदीरिता वेइया य णिजिण्णा। एकिक्कम्मिपदम्मी, चउव्विहा पोग्गला होंति" ||1|| (पुव्वाहारियत्ति) ये पूर्वमाहृताः पूर्वकाले एकीकृताः सङ्-गृहीता इति / यावत् / अभ्यवहृता वा; (पोग्गल त्ति) स्कन्धाः / (परिणय त्ति) ते परिणताः, पूर्वकाले शरीरेण सह संपृक्ताः, परिणतिं गता इत्यर्थः / इति प्रथमः प्रश्नः 1 / इह च सर्वत्रा प्रश्नत्वं काकुपाठादवगम्यते / तथा(आहारिय त्ति) पूर्वकाले आहृताः संगृहीताः अभ्यवहृता वा; (आहारिजमाण त्ति) ये च वर्तमानकाले आहियमाणाः संगृह्यमाणाः, अभ्यवहियमाणा वा पुद्गलाः (परिणय त्ति) ते परिणताः / इति द्वितीयः 2 / तथा - (अणाहारिय त्ति) येऽतीतकालेऽनाहृताः / (आहारिजस्समाण त्ति) ये चानागते काले आहरिष्यमाणाः पुद्गलास्ते परिणताः। इति तृतीयः३। तथा-"अणाहारिआ अणाहारिजस्समाण'' इत्यादि। अतीतानागताऽऽहरणक्रियानिषेधाचतुर्थः 4 / इह च यद्यपि चत्वार एव प्रश्ना उक्ताः, तथाऽप्येते त्रिषष्टिः सभवन्ति। यतः पूर्वाहता आह्रियमाणा आहरिष्यमाणाः, अनाहृता अनाह्यिमाणा अनाहरिष्यमाणाश्चेति षट् पदानीह सूचितानि। तेषु च एकैकपदाऽऽश्रयणेनषद्विकयोगे पञ्चदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पञ्चदश, पञ्चकयोगे षट्, षड्योगे एक इति / अत्रोत्तरमाह --- 'गोयम'' इत्यादि व्यक्तम् / नवर ये पूवमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणाम-भावात् १।येपुनराहृता आह्रियमाणाश्च ते परिणताः आहृतानां परिणामभावादेव परिणमन्ति च, आह्रियमाणानां परिणाम-भावस्य वर्तमानत्वादिति 2 / वृत्तिकृता तु द्वितीयः प्रश्नोत्तरविकल्प एवंविधो दृष्टः, यदुत-आहृता आहरिष्यमाणाः पुद्गलाः परिणताः परिणंस्यन्ते च, यतोऽयं तेनैव व्याख्यातः यदुत ये पुनराहता आहरिष्यन्ते, पुनस्तेषां केचित्परिणताः अपरिणताश्च ते सम्पृक्ताः शरीरेण सह / ये तु न तावत् संपृच्यन्ते, कालान्तरे तु संपृक्ष्यन्ते, ते परिणंस्यन्त इति / ये पुनरनाहृता आहरिष्यन्ते, पुनस्तेनो परिणताः, अनाहतानां संपर्काभावेन परिणामाभावात् / यस्मात्त्वाहरिष्यन्ते, ततः पारणंस्यन्ते, आहतस्यावश्यं परिणामभावादिति 3 / चतुर्थस्त्वतीत भविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति / एतदनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाच्यानीति। अथ शरीरसंपर्कलक्षण–परिणामात् पुद्गलानां चयाऽऽयो भवन्तीति तद्दर्शनार्थं प्रश्नयन्नाहू- "नेरइयाणं'' इत्यादि। चयाऽऽदिसूत्राणि परिणामसूत्रासमानीतिकृत्वा अतिदेशतोऽधीतानीति। तथाहि - "जहा परिणया तहा चिया वि' इत्यादि। इह च पुस्तकेषु वाचनाभेदो दृश्यते, तान संमोहः कार्यः, सर्वत्राभिधेयस्य तुल्यत्वात् / केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽध्येनीति / तत्रा चिताः शरीरे चयं गताः / उपचिताः पुन बहुशः | प्रदेशसामीप्येन शरीरे चिता एवेति / उदीरितास्तु स्वभावतोऽनुदितान् पुदलान् उदयप्राप्ते कर्मदलिके करणविशेषण प्रक्षिप्ययान् वेदयते / उदीरणालक्षणं चेदम् - "ज करणेणाकड्डिय, उदए दिजइ उदीरणा | एसा / ' तथा वेदिताः स्वेन रसविपाकेन प्रतिसमयमनुदयमाना | अपरिसमाप्ताः शेषानुभावा इति / तथा निर्जीर्णाः कात्स्येनानुसमयमशेषत द्विपाकहानियुक्ता इति। "गाह ति" परिणताऽऽदिसूत्राण संग्रह णाय गाथा भवति / सा चेयम्- ''परिणय'' इत्यादि / व्याख्यातार्था / नवरम् एकैकस्मिन् पदे परिणतचितोपचिता-ऽऽदी चतुर्विधाः-आहुताः 1, आहृता आहियमाणाश्च 2, अनाहता आहरिष्यमाणश्च 3. अनाहुता अनाहरिष्यमाणाश्च 4 / इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रश्ननिर्वचनविषयाः स्युरिति। पुद्गला भिद्यन्तेणेरइयाण भंते! कतिविहा पोग्गला भिज्नति ? गोयमा ! कम्मदव्वग्गणमहिकिच्च दुविहा पोग्गला भिजंति। तं जहा-अण चेव, बायरा चेव 1 / णेरइयाणं भंते ! कतिविहा पोग्गला चिजंति ? गोयम ! आहारदव्वमग्गणमहिकिच दुविहा पोग्गला चिजति ? तं जहा-अणू चेव, बायरा चेव 21 एवं उवचिज्जति 3 / णेरइयाणं भंते ! कतिविहा पोग्गला उदीरंति ? गोयमा ! कम्मदव्ववग्गणमहिकिच दुविहा पोग्गला उदीरंति / तं जहाअणू चेव, बायरा चेव / सेसा विएवं चेव भाणियव्वा / वेदंति 5, णिज्जरंति 6, उयर्टिसु 7, उयमुति 8, उयट्टिस्संति 6, संकमिंसु 10, सकामंति 11, संकामिस्संति 12, निहात्तसु 13, निहत्तति 14, निहत्तिस्संति 15, निकाइंसु १६,निकायंति 17, निकाइस्संति 18 / सव्वसु वि कम्मदब्दमग्गणमहिकिच गाहा"भेदिय चिता उवचिता, उदीरिता वेदिया य णिज्जिण्णा। उव्वट्टणसंकामण-णिहत्तणिकायणे तिविहकाले" ||1|| "नेव्याण भते! कइविहा पोग्गला भिजंति' इत्यादि व्यक्तम्, नवरम् (भिजंति त्ति) तीव्रमन्दमध्यमतयाऽनुभागभेदेन भेदवन्ता भवन्ति, उद्वर्त्तनकरणापवर्तनकरणाऽभ्यां मन्दरसास्तीवरसाः, तीव्ररसास्तु मन्दरसा भवन्तीत्यर्थः। उत्तरम् - (कम्मदव्ववग्गणमहिकिच ति) समानजातीयद्रव्याणां राशिर्द्रव्यवर्गणा, सा चौदारिकाऽदिद्रव्याणामप्यस्तीत्यत आह -- कर्मरूपा द्रव्यवर्गणा, कर्मद्रव्याणां वा वर्गणा कर्मद्रव्यवर्गणा, तामधिकृत्य तामाश्रित्य, कर्मद्रव्यवर्गणासत्का इत्यर्थः / कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति, न द्रव्यान्तराणा - मितिकृत्वा कर्मद्रव्यवर्गणामधिकृत्येत्युक्तम्। (अणूचेव बायरा चेव त्ति) चैवशब्दः समुच्चयार्थः / ततश्च अणवश बादराश्च, सूक्ष्माश्च स्थूलाश्चेत्यर्थः / सूक्ष्मत्वं स्थूलत्वं चैषां कर्मद्रव्या पेक्षयैवावगन्तव्यं, नान्यापेक्षया, यत औदारिकाऽऽदिद्रव्याणां मध्ये कर्मद्रव्याण्येव सूक्ष्माणीति / एवं चयोपचयोदोरणावेदनानिर्जराः शब्दार्थभेदेन वाच्याः कि तुचयसूत्रे उपचयसूत्रोच'आहारदव्ववग्गणमहिकिच्च' इति यदुक्तं, तत्रायमभिप्रायः शरीरमाश्रित्य चयोपचयौ प्राग्व्याख्यातो, तो चाऽऽहारणाद्रव्येभ्य एव भवतो नान्यतोऽत आहारद्रव्यवर्गणामधिकृत्येत्युक्तामिति / उदीरणाऽऽदयस्तु कर्मद्रव्याणमेव भवन्त्यतन्तत्सूत्रषूक्तं कर्मद्रव्यवर्गणमधिकृत्येति / (उयट्टिसु त्ति) अपवर्तितवन्तः, इहापवर्तनं कर्मणां स्यित्यादरव्यवसायविशेषण हीनताकरणम्, अपवर्त