________________ जीव 1534 - अभिधानराजेन्द्रः - भाग 4 जीव शातम्, आहारकसमुद्घातगतस्त्याहारकशरीरनामपुगपरिशातं करोति, आहारकसमुद्घातश्चाऽऽहारकशरीरप्रारम्भकाले वेदितव्यः / केवलिसमुद्घातसमुद्धस्तु केवली सदसवेद्यशुभाशुभनामोच्चनीचैर्गोत्रकर्मपुद्गलपरिशातं करोति, केवलिसमुद्धातवर्जाः शेषाः षडपि समुद्घाताः प्रत्येकमान्तमौहर्तिकाः, केवलिसमुद्घातः पुनरष्टसामयिकः / उक्तं च प्रज्ञापनायाम्- "वेयणासमुग्धाएणं भंते ! कइ समयए पन्नत्ते ? गोयमा असंखेज्जसमइए अंतोमुहुत्तिए पण्णत्ते / एवं० जाव आहारसमुग्धाए। केवलिसमुग्घाएणं भंते ! कइ समइए पन्नत्ते? गोयमा ! अट्ठसमइए पण्णत्ते।" इति / एतानेव समुद्घातान् गतिषु चिन्तयति"सग'' इत्यादि / मनुष्यगतौ सप्तापि समुद्धाता भवन्ति, मनुष्येषु सर्वभावसंभवात् / सुरगतावाद्याः पञ्च समुद्धाताः, आहारकसमुद्घातकेवलिसमुद्धातयोस्तत्रा संभवात् / पुनरेषु चतुर्दशपूर्वाधिगमक्षायिक-ज्ञानदर्शनचारित्रालब्ध्यसंभवात् / निरयगतावाद्याश्चत्वारः समुद्धाताः, तत्रा तैजससमुद्घातस्याप्यसंभवात्, तदसंभवश्च नैरयिकाणा तेजोलेश्यालब्धेरभावात् / तिर्यग्गतौ वैक्रियलब्धिमत्संज्ञिपञ्चेन्द्रियपवनवर्जानां शेषजीवानामाद्यास्त्रयः समुद्-घाताः,तेषां वैक्रियलब्धेरप्यसंभवात् // 25 // वैक्रियलब्धिमत्संज्ञिपञ्चेन्द्रियपवनयोर्विशेषमाहपंचिंदियतिरियाणं, देवाण च होंति पंच सण्णीणं / चेउव्वियवाऊणं, पढमा चउरो समुग्घाया॥२६॥ पञ्चेन्द्रियतिरश्चा संज्ञिनां देवानामिव प्रथमाः पञ्च समुद्धाता भवन्ति / पञ्चेन्द्रियतिर्यक्ष्वपि संज्ञिषु केषुचिद्वैक्रिय तेजोलेश्यालब्धिसंभवात्। वैक्रियलब्धिमतां पुनर्वायूनां वायुकायानां प्रथमा वेदनाकषायमारणवैक्रियरूपाश्चत्वारः समुद्घाताः॥२६|| गतं क्षेत्राद्वारम्। अधुना स्पर्शनाद्वारमाह - चउदसविहा वि जीवा, समुघाएणं फुसंति सव्वजगं। रिउसेढीऐं व केई, एवं मिच्छा सजोगीया / / 27 / / चतुर्दशविधा अपि अपर्याप्तपर्याप्तसूक्ष्मैकेन्द्रियाऽऽदिभेदा-चतुर्दशप्रकारा अपि, जीवाः सर्व जगत् स्पृशन्ति। कथम् ? इत्याह समुद्घातेन मरणसमुद्घातेन / इयमत्रा भावना- इह सूक्ष्मैकेन्द्रियाः पर्याप्ता अपर्याप्तश्च प्रत्येकं सकललोकवर्तिनः, ततस्ते स्वण्यानतोऽपि सकललोकस्पर्शिन उपपद्यन्ते, किं पुनरिणान्तिकसमुद्घातयोगतः? बादरापर्याप्तकेन्द्रियाऽऽदयः स्वस्थानमधिकृत्य प्रत्येक लोकासंख्येयभागवर्त्तिन एव समुद्घातमधिकृत्य पुनः सकललोकस्पर्शिनोऽपि भवन्ति / तथाहि-समुद्धात इह मरणसमुद्धात उच्यते, मरणसमुद्घातसमुद्धस्तु जीवः स्वशरीरविष्कम्भबाहुल्यं जघन्यतो दैय॒णामुला - संख्येयभागमात्रम, उत्कर्षेण संख्येयानि योजनानि स्वप्रदेश दण्ड निसृजति। निसृज्य च यत्रा स्थानेऽग्रेतनभवे समुत्पत्स्यते, तत्रा स्थाने तं स्वप्रदेशदण्ड प्रक्षिपति। तचोत्पत्तिस्थानं ऋजु गत्या एकेन समयेन स्वप्रदेशदण्डः प्राप्नोति / विग्रहगत्या तूत्कर्षतश्चतुर्थे समये, वतो मरणसमुद्घातमधिकृत्य नानाजीवापेक्षया बादरपप्तिकेन्द्रियाऽऽदयो द्वादशभेदाः प्रत्येकंसर्वेऽपि सर्वजगतस्पृशन्तः प्राप्यन्ते इति। (रिउसेढीऍ व केई इति) केचित्पुनर्जीवाः सूक्ष्मैकेन्द्रियलक्षणा ऋजुश्रेण्या ऋजुगत्या। | वाशब्दः पक्षान्तर सूचने। न केवलं समुद्घातेन ऋजुश्रेण्या वा इत्यर्थः / सर्व जगत् स्पृशन्ति / तथाहि- अधोलोकान्तादृवों कान्ते उत्पद्यमानाश्चतुर्दशापि रज्जूः स्पृशन्ति। एवं सर्वास्वपि दिक्षु भावनीयम् / ततो नानाजीवपेक्षया ऋजुश्रेण्याऽपि सूक्ष्मैकेन्द्रियाः सकललोकस्पर्शिनः / संप्रति गुणस्थानके स्पर्शनां चिन्तयति- (एवं मिच्छा सजोगीय त्ति) एवं सर्वजगत् स्पर्शितया मिथ्यादृष्टयः सयोगिनश्चावगन्तव्याः तत्र मिथ्यादृशः सूक्ष्मैकेन्द्रियाऽऽदयः, सूक्ष्मैकेन्द्रियाश्च सकललोकस्पर्शिनः, सयोगिकेवलिनः पुनः केवलिसमुद्घातगताश्चतुर्थसमये सर्वलोकस्पर्शिनः प्रागेवोपदर्शिताः।।२७।। शेषगुणस्थानकेषु स्पर्शनामाहमीसा अजया अड अड, वारस सासायणा छ देसजई। सग सेसा उ फुसंती, रज्जू खीणा असंखंसं // 26 / / मिश्राः सम्यग्मिथ्यादृष्टयः अयता अविरतसम्यग्दृष्टयः, प्रत्येकमष्टावष्टौ रजूः स्पृशन्ति, द्वादश पुनः सास्वादनाः, देशयतयो देशविरताः षट् / शेषा उक्तव्यतिरिक्ताः क्षीणमोहवर्जाः प्रमत्ताऽऽद्याः प्रत्येकं सप्त सप्त रज्जूः स्पृशन्ति / क्षीणाः क्षीणमोहाः पुनरसंख्येयांशं रोरसंख्येय भागम् // 28 // एनामेव गाथा स्वयमेव भावयतिसहसारंतियदेवा, नारयणेहेण जंति तइयभुवं / निजंति अचुयं जा, अचुयदेवण इयरसुरा // 26|| इह सहस्रारान्तकाः सहस्रारपर्यवसाना देवा नारक स्नेहेन पूर्व साङ्गतिकनारकस्नेहेन, तस्य वेदनोपशमनार्थम्, उपलक्षण मेतत्, पूर्ववैरिकस्य नारकस्य वेदनोदीरणार्थ वा, तृतीयां भुवं नरकपृथिवीं, गच्छन्ति / आनताऽऽदयो देवाः पुनरल्पस्नेहाऽऽ दिभावाः स्नेहाऽऽदिप्रयोजनेनापि नरकं न गच्छन्तीति सहस्रारा न्तग्रहणम / तथाऽच्युतदेवेन जन्मान्तरस्नेहतस्तद्भवोह तो वा, इतरे सुराः शेषसुरा अच्युतदेवलोकं यावन्नीयन्ते / ततः सम्यग्मिथ्यादृष्टीनामविरतसम्यग्दृष्टीनां च प्रत्येकमष्टाष्टरज्जुस्पर्शना घटते / इयमत्रा भावना- इह यदा सम्यग्मिथ्यादृष्टिर्भवनपत्यादिको देवः पूर्वसाङ्गतिकेनाच्युतदेवलोकवासिना देवेनाच्युत देवलोकेस्नेहान्नीयते, तदा तस्य षड्जुस्पर्शना भवति, "छ अचुए" इति वचनात्। तथा कश्चिदमरः सहस्रार कल्पवासी सम्यग्मिथ्यादृष्टिः पूर्वसाङ्गतिकस्य वेदनोपशमनाय, पूर्ववैरिकस्य वेदनोदीरणाय वा वालुकाप्रभाऽभिधानामपि नरकपृथिवीमुपगच्छति, तदा भवनपतिनिवासस्याधस्तादन्यदपि रज्जुद्वय मधिकं प्राप्यते, इति पूर्वोक्ताः षड् रजवो रजुद्वयेन सहिता अष्टौ भवन्ति। एवं नानाजीवापेक्षया सम्यग्मिथ्यादृष्टयो अष्टरज्जुस्पर्शकाः प्राप्यन्ते / अथवा कोऽपि सहस्रारकल्पनिवासी देवः सम्यग्मिथ्यादृष्टिः पूर्वोक्तकारणवशात् तृतीयां नरकभुवं गच्छन् सप्त रज्जुः स्पशृति, स एव सहस्रारदेवो यदा अच्युतदेवेन स्नेहादच्युते देवलोके नीयते, तदा अन्यामप्येकामधिका रज्जु स्पृशतीत्यष्टरज्जुस्पर्शना / एवमविरतसम्यग्दृष्टीनामप्यष्ट- रज्जुस्पर्शना भावनीया। नन्वविरतसम्य गदृष्टयस्तद्भवे वर्तमानाः कालमपि कुर्वन्ति, तत स्तेषामन्यथाऽपि कथं न भावना / क्रियते ? उच्यते अन्यथा तेषामष्टरज्जुस्पर्शनाया असंभवात् / तथाहि तिर्यड्मनुष्यो वा