________________ जीव 1535 - अभिधानराजेन्द्रः - भाग 4 जीव ससम्यक्त्वो द्वितीयाऽऽदिषु नरकपृथिवीषु गच्छत्ति, नाऽपि तत आगच्छति, ततोऽनुत्तरसुरभवं गच्छतः ततो वा च्युत्त्या मनुष्यभवमागच्छतः सर्वोत्कृष्टा सप्तरञ्जुस्पर्शना अवाच्यते, नाधिका क्याप्यन्यत्रा, ततोऽविरतसम्यगदृष्टयोऽपि मिथ्यादृष्टि वदविशेष णाष्टरनुस्पर्शकाः प्रतिपत्तव्याः, न प्रकारान्तरेण / अपरे पुनराहःअविरतसम्यगदृष्टीनामुत्कर्षतोनवरचुस्पर्शना कथमिति चेत् ? उच्यते-- इह तन्मतेन क्षायिकसम्यग्दृष्टयः तृतीयस्यामपि नरकपृथिव्यां गच्छन्ति, ततोऽनुत्तरसुरभवं गच्छतां ततो वाच्युत्त्वा मनुष्यभवमागच्छता सप्तरज्जुस्पर्शना / तृतीयस्यां पृथिव्यामुत्पद्यमानानां, ततो वा उद्भवत्य मनुष्यभवमागच्छतां द्विरजुस्पर्शनेति सामान्यतोऽविरतसम्य-ग्दृष्टीनां नवरजुस्पर्शना। व्याख्याप्रज्ञप्त्याद्यभिप्रायेण पुनरमीषां द्वादशरज्जुस्पर्शनाऽपि प्राप्यते / तथाहि अनुत्तरसुरभवं गच्छता, ततो वा च्यत्त्वा मनुष्यभवमागच्छता सप्तरज्जुस्पर्शना / तथा नरतिरश्चामन्यतरोऽविरतसम्यग्दृष्टिः पूर्वबद्धायु क्षायोपशमिकसम्यक्त्वेन गृहीतेन व्याख्याप्रज्ञप्त्याद्यभिप्रायतः षष्ठनरकपृथिव्यामपि नारकत्वेनोत्पद्यते। ततो वा उद्धृत्य क्षायोपशमिकसम्यक्त्ववानत्रा मनुष्येषु मध्ये समुत्पद्यते / ततोऽविरत सम्यग्दृष्टिः, षष्टनरकपृथिवीं गच्छन्पञ्चरज्जूः स्पृशति। ततः सामान्यतोऽविरतसम्यग्दृष्टीनां सर्वसंख्यया द्वादशरज्जुस्पर्शना / सप्तमपृथिव्यां पुनः सम्यक्त्वसहितस्य गमनमागमनं वा प्रज्ञप्त्यामपि निषिद्ध, ततः षष्ठनरकपृथिवीग्रहणम् // 26 // सम्प्रति सास्वादनानां द्वादशरज्जुस्पर्शनां भावयतिछट्ठाए नेरइओ, सासणभावेण एइ तिरिमाणुए। लोगंतिनिक्खुडेसुं, जं तससासायणगुणत्था / / 30 / / षष्टनरकपृथिव्यां वर्तमानः कश्चिन्नारकः स्वभावन्ते औपश मिकसम्यक्त्वमवाप्य सास्वादनभावं गतः सन कालं करोति, कालं च कृत्या तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते, ततस्तस्य पञ्चरज्जुस्पर्शना भवति / इह सप्तमपृथिवीनारकः सास्वादनभावं परित्यज्य व तिर्यक्षुत्पद्यते, इति षष्ठ पृथिवीग्रहणम् / तथा तिर्यग्लोकादपि केचित्तिर्यञ्चो मनुष्या वा सास्वादनगुणस्थाः सास्वादनसम्यग्दृष्टि - गुणस्थानवर्तिनः सन्त उपरिलोकान्तनिष्कुटेषु त्रासनाडीपर्यन्तवर्तिलोकान्तप्रदेशेषुत्पद्यन्ते, ततस्तेषां सप्तरज्जुस्पर्शना / ततः सामान्यतः सास्वादनगुणस्थानस्थानां सर्वसंख्यया द्वादशरज्जुस्पर्शना समुत्पद्यते। नह्येकं जीवमधिकृत्येयं स्पर्शना चिन्त्यते, किं त्वेकं गुणस्थानं, ततो न कश्चिदोषः / इह प्रायः सास्वादनभावमापन्नानामधोगतिर्नो पजायते, ततो द्वादशरज्जुस्पर्शना प्रतिपादित / यदि पुनरधोगतिः सास्वादनानां भवेत् ततोऽधोलोकनिष्कुटादिष्वपि तेषामुत्पाद- संभवाचतुर्दशरजुस्पर्शनाऽभिधीयते // 30 // संप्रत्यपूर्वकरणाऽऽदीनां स्पर्शनामभिधित्सुराह - उवसामग उवसंता, सव्वत्थे अप्पमत्तविरया य। गच्छंति रिउगईए, पुंदेसजया उ वारसमे // 31 / / उपशमका उपशमश्रेण्याऽऽरूढा अपूर्वकरणानिवृत्तबादरसूक्ष्मसंपरायाः, उपशान्ता उपशान्तमोहाः, तथा अप्रमत्तविरता अप्रमत्तसंयताः, चशब्दात्प्रमत्तभावाभिमुखाः, सर्वार्थे सर्वार्थ सिद्धे महाविमाने, | ऋजुगत्या, गच्छन्ति उत्पद्यन्ते / ततस्ते सप्तरज्जुस्पर्शिनः, इह क्षपकश्रेण्याऽऽरूढा अपूर्वकरणाऽऽदयो न म्रियन्ते, न च मारणसमुद्घातमारभन्ते, ततस्तेषामसंख्येयभागमात्रौव स्पर्शना घटते, नाधिका / अत एव क्षीणमोहस्या संख्येयभागमात्रास्पर्शना प्रागम्यधायि, ततोऽ - पूर्वकरणाऽऽदीनामुपशमश्रेणिमधिकृत्य सप्तरज्जुस्पर्शना प्रत्यपादि। पर आहननु मनुष्यभवायुषः क्षये, परभवायुष उदये परलोकगमनं, तदानीं चाऽविरतता, नोपशमकत्वादि, तत्क्थमपूर्वकरणाऽऽदीनां सप्तरज्जुस्पर्शनेति ? नैष दोषः / इह द्विविधा गतिः कन्दुकगतिः इलिकागतिश्च / तत्रा कन्दुकस्येव गतिः कन्दुकगतिः। किमुक्तं भवति ? यथा कन्दुकः स्वप्रदेशसंपिण्डित ऊर्द्धव गच्छति, तथा जीवोऽपि कश्चित्परभवायुष उदये परलोकं गच्छन् स्वप्रदेशानेकत्रा संपण्ड्यि गच्छति। तथा इलिकाया इव गतिरिलिकागतिः यथा इलिका पुच्छदेशमपरित्यजन्ती मुखेनातनं स्थानं शरीरप्रसारणेन संस्पृश्य ततः पुच्छ संहरति, एवं जीवोऽपि कश्चित्स्वभवान्तकाले स्वप्रदेशैरुत्पत्तिस्थानं संस्पृश्य परभवायुःप्रथमसमये शरीरंपरित्यजति। तत इलिकागतिमधिकृत्यापूर्वकरणाऽऽदीनां सप्तरज्जुस्पर्शना नि विहन्यते। तथा ऋजुगत्यैव (पुंदेसजया इति) अा पुंग्रहणेन मनुष्यग्रहणम् ततोऽयमर्थः- मनुष्यरूपा देशयता देशविरता द्वादशेऽच्युताभिधाने देवलोके गच्छन्ति उत्पद्यन्ते, ततस्तेषां षड् रजुस्पर्शना, तिर्यग्लोकमध्यादच्युतदेवलोकस्य षड्रज्जु मानत्वात् / तदेवमुक्त स्पर्शनाद्वारम्॥३१॥ पं० सं०२ द्वार। (एषां भवस्थितिकालः 'भवद्विइकाल' शब्दे वक्ष्यते। गुणस्थानाविभागेन कालमानं 'गुणट्ठाण' शब्दे तृतीयभागे 615 पृष्ठे गतम्) पुढवी य आऊ अगणी य वाऊ तण क्खवीया य तसा य पाणा। जे अंडजा जे य जराउपाणा, संसेयजा जे रसजाभिहाणा / / 1 / / पृथिवीकायिकाः सत्त्वाः, चकारः स्वगतभेदसंसूचनार्थः। सचायं भेदःपृथिवीकायिकाः सूक्ष्मा बादराश्च, तेच प्रत्येकं पर्याप्तकाऽपर्याप्तकभेदेन द्विधा, एवमप्कायिका अपि।तथाऽग्निकायिका वायुकायिकाश्च द्रष्टव्याः / वनस्पतिकायिकान् भेदेन दर्शयतितृणानि कुशाऽऽदीनि, वृक्षाश्चाश्वस्थाऽऽदयो, बीजानि शाल्यादीनि / एवं वल्लीगुल्माऽऽदयोऽपि वनस्पतिभेदा द्रष्टव्याः / त्रस्यन्तीति ासाः, द्वीन्द्रियाऽऽदयः प्राणाः प्राणिनः / ये चाण्डाजाता अण्डजाःशकुनिसरीसृपाऽऽदयः, ये च जरायुजा जम्बालवेष्टिताः समुत्पद्यन्ते, ते च गोमहिष्यजाऽविकमनुष्याऽऽदयः। तथा संस्वेदाज्जाताः संस्वेदजाःयूकामत्कुण कृम्यादयः / ये च रसजाभिधानाः दधिसौवीराकाऽऽदिषु रुतपक्ष्मसन्निभा इति / / 1 / / सूत्रा०१ श्रु०७ अ०। द्वात्रिशद्भेदा जीवा यथा - एगविह दुविह तिविहा-चउहापंचविहछव्विहा जीवा। चेयण तस इयरेहिं, वेयगइकरणकाएहिं / / 2 / / एक विधद्विविधगिविधवतुर्कीपञ्चविधषड्विधा इति / एका विधा विधानं येषां ते एक विधाः, एवं सर्वत्रा / एक विधाश्च द्विविधाश्च त्रिविधाश्चचतुर्द्धा च पञ्चविधाश्च षविधाः एकविध--