________________ जीव 1533 - अभिधानराजेन्द्रः - भाग 4 जीव ति) सयोगिनः सयोगिके वलिनः पुनः कोटिपृथक्त्वं कोटिपृथक्त्वसंख्याः / इह सयोगिकेवलिनः सदैव भवन्ति, ध्रुवत्वात्तेषाम्, ते चजघन्यपदेऽपि कोटिपृथक्त्वमानाः, उत्कर्षतोऽपि कोटिपृथक्त्वमाना एव / केवलमुत्कर्षपदे कोटिपृथक्त्वं बृहत्तरमवसेयम् // 23 // तदेवमुक्त द्रव्यप्रमाणम्। साम्प्रतं क्षेत्राप्रमाणमाह - अप्पज्जत्ता दोन्नि वि, सुहमा एगिदिया जए सव्वे। सेसा य असंखेज्जा, बायरपवणा असंखेसु // 24|| द्वयेऽप्यपर्याप्ताः लब्ध्यपर्याप्ताः, करणापर्याप्तकाश्च / अपिशब्दस्यानुक्तार्थसमुच्चायकत्वात् पर्याप्ताश्च! सूक्ष्मा एकेन्द्रियाः पृथिव्यम्बुतेजोवायुवनस्पतयः प्रत्येकं सर्वेऽपि सर्वस्मिन्नापि जगति भवन्ति, "सुहमा उ सव्वलोए'' इति वचनप्रमाण्यात्। आह - सूक्ष्माः सर्वेऽपि पृथिव्यादवः पर्याप्ता ऽऽदिभेदभिन्नाः प्रत्येक सर्वलोकव्यापिन इत्यञ्जसैवाभीष्टार्थसिद्धिः ततः किमर्थमिह मुख्यया वृत्त्या अपर्याप्तग्रहणं कृतम पिशब्दात्तु पर्याप्तग्रहणमिति ? उच्यते-पर्याप्तापेक्षया स्तोकानामप्यपर्याप्तानां स्वरूपतोऽतिबाहुल्यख्यापनार्थम् / तथाहि-यद्यपि अपर्याप्तेभ्यः संख्येयगुणहीनाः पर्याप्तस्तथाऽपि ते सर्वस्मिन्नपि जगति वर्तन्ते, इत्युचमाने निःसंशयमतिबाहुल्यं तेषां ख्यापितं भवति। अथ कथं पर्याप्ता अपर्याप्तापेक्षया संख्येयगुणहीना ? उच्यते-प्रज्ञापनायामपर्याप्तापेक्षया पर्याप्तानां संख्येय गुणतयाऽभिधानात्। तथा च तद्ग्रन्थः- "सव्वत्योवा सुहुमा अपज्जत्ता पज्जत्ता संरोजगुण त्ति।" अन्यत्राप्युक्तम् - "जीवाणमपज्जत्ता, बहुतरगा वायराण विन्नेया। सुहमाण अपज्जत्ता, ओहेण उ केवली विति / / 1 // " शेषास्तु शेषाः पुनः पर्याप्तापर्याप्तभेदभिन्ना बादरैकेन्द्रियाः पृथिव्यम्बुतेजोवनस्पतयश्च प्रत्येकं लोकस्यासंख्येयतमे भागेऽवतिष्ठन्ते। (बायरपवणा असंखेसुति) बादरपवना बादरवायुकायिकाः पर्याप्ता अपर्याप्ताश्च प्रत्येकं लोकस्यासंख्येयेषु भागेषु वर्तन्ते। लोकस्य हि यत्किमपि सुषिरं, तत्र सर्वत्रापि वायवः प्रसर्पन्ति यत्पुनरतिनिविडनिचितावयवतया शुषिरहीनकनकगिरिमध्यभागादि, तत्र न, तच सकलमपि लोकस्यासंख्येयभागामात्र, तत एकमसंख्येयभागं मुक्त्वा शेषेषु सर्वेष्वप्यसंख्येयेषु भागेषु वायवो वर्तन्ते इति // 24 // सासायणाइ सव्वें, लोयस्स असंखयम्मि भागम्मि। मिच्छा उ सव्वलोए, होइ सजोगि वि समुग्घाए।॥२५॥ सास्वादनाऽऽदयः सास्वादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्यादयो मिथ्यादृष्टिसंयोगिकेवलिवर्जाः प्रत्येकं सर्वेऽपि लोकस्यासंख्येयतने भागेऽवतिष्ठन्ते, सम्यग्मिथ्यादृष्ट्यादयो हि संज्ञिपञ्चेन्द्रियेष्वेव प्राप्यन्ते। सास्वादनास्तु केचित्स्वल्पाः करणापर्याप्तबादरैकेन्द्रियद्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियेष्वपि, ते च संज्ञिपञ्चेन्द्रियाऽऽदयः स्वल्पत्वाल्लोकस्यासंख्येयभागे वर्तन्ते इति। सास्वादनाऽऽदयो लोकासंख्येयभागवर्तिन उक्ताः / तथा मिथ्यादृष्टयः सर्वलोकं सर्वस्मिन्नपि लोके भवन्ति / सूक्ष्मै केन्द्रियाहि सकललोकव्यापिनः ते च मिथ्यादृष्टय इति। तथा सयोग्यपि सयोगिकेवल्यपि, आस्ता मिथ्यादृष्टय इत्यपिशब्दार्थः। समुद्घाते समुद्घातगतः सन् सर्वलोके भवति सकललोकव्यापी भवति / तथाहि-समुद्घात कुर्वन् प्रथमे दण्ड समये, द्वितीये च कपाटसमये लोकस्यासंख्येयतमे भागे वर्तते, तृतीये मन्थनसमये पुनरसंख्येयभागेषु, चतुर्थे सर्वलोके / तथा चोक्तम्-चतुर्थे लोकपूरणमष्टमे संहार इति / 'होइ सजोगि वि समुग्धाए'' इत्युक्तम्॥२५।। ततः समुद्धातप्रस्तावादशेषान् समुद्धातान्प्ररूपयति वेयणकसायमारण- वेउव्वियतेउहारकेवलिया। सग पण चउ तिन्नि कमा, मणुसूरनेरइयतिरियाणं / / 26 / / समुद्धातशब्दः पाश्चात्योऽग्रेसनगाथागतो वा प्रत्येकम-भिसंबध्यते। तद्यथा-वेदनासमुद्धातः, कषायसमुद्धातः मारणसमुद्धातः वैक्रियसमुद्धातः तैजससमुद्धातः आहारकसमुद्धातः, केवलिसमुद्धातश्च / तत्रा वेदनया समुद्धातो वेदनासमुद्धातः, सचासातवेदनीयकर्माऽऽश्रयः / कषायेण कषायोदयेन समुद्धातः कषायसमुद्धातः स च कषायचारित्रा मोहनीय-कर्माऽऽश्रयः। तथा मरणे मरणकाले भवो मारणः, मारणश्चासौ समुद्धातच मारणसमुद्धातः सोऽन्तर्मुहुर्तावशेषायुः कर्मविषयः / तथा वैक्रिये प्रारभ्यमाणे समुद्धातो वैक्रियसमुद्धातः, स च वैक्रियशरीरनामकर्मविषयः, तथा तेजसि विषये भवस्तैजसः, स चासौ समुद्धातश्य तैजससमुद्धातः स च तेजोलेश्याविनिर्गमकालभावी तैजसशरीरनामकर्माऽऽश्रयः / आहारके प्रारभ्यमाणे समुद्धात आहारकसमुद्धातः, स चाऽऽहारकशरीरनामकर्मविषयः। केवलिन्यन्तर्मुहुर्तभाविपरमपदे भवः समुद्धातः केवलिसमुद्धातः। अथ समुदघात इति कः शब्दार्थः? उच्यते - समित्येकीभावः, उत्प्राबल्ये एकीभावेन प्राबल्ये न घातः समुद्घातः / केन सह एकीभावगमनम् ? इति चेत् / उच्यतेअछिदनाऽऽदिभिः / तथाहि बदा आत्मा वेदनाऽऽदिसमुद् घातगतो भवति, तदा वेदनाऽऽद्यनुभवज्ञानपरिणत एव भवति, नान्यज्ञान परिणतः / प्राबल्येन घातः कथम् ? इति चेत। उच्यते-इह वेदनाऽऽदि समुद्घातपरिणतो बहून वेदनीयाऽऽदिकर्मप्रदेशान्कालान्तरानुभवनयोग्यान उदीरणाकरणेनाकृष्योदयावलियकायां प्रक्षिप्यानुभूय च निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् शातयतीत्यर्थः / तत्रा वेदनासमुद्घातगत आत्मा वेदनीयपुद्गलपशातं करोति / तथाहिवेदनाकरालितो जीवः स्वप्रदेशाननन्तानन्तकर्मस्कन्ध वेष्टितान् शरीरादहिरपि विक्षिपति / तैश्च प्रदेशैर्वदनजठराऽऽदिरन्ध्राणि कर्णस्कन्धाऽऽद्यन्तरालानि चापूर्याऽऽयामतो विस्तरतश्च शरीरमात्रां क्षेत्रमभिव्याप्यान्तर्मुहूर्तं यावदवतिष्ठते। तस्मिंश्यान्तर्मुहूर्ते प्रभूतासातवेदनयीकर्मपुद्रलपरिशातं करोति / कषायसमुद् घातसमुद्धतः कषायाख्यचारित्रामोहनीय कर्मपुद्गलपरिशातं करोति / तथाहि कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैः प्रदेशैर्वदनोदराऽऽदिरन्ध्राणि कर्णस्कन्धाऽऽद्यन्तरालानि चापूर्याऽऽयामविस्तराभ्यां देहमानं क्षेत्रमभिव्याप्य वर्त्तते, तथाभूतश्च प्रभूतकषायकर्मपुद्गलपरिशातं करोति / एवं मारणसमुद्धातगत आयुः-पुद्गलशांत, वैक्रियसमुद्धातगतः पुनर्जीवः स्वप्रदेशान् शरीराद् बहिर्निष्कास्य शरीरविष्कम्भबाहल्यमानमायामतः संख्येययोजनप्रमाणं दण्ड निसृजति निसृज्य च यथास्थलान् वैक्रियशरीरनामकर्मपुदलान् प्राग्वत् शातयति / तथा चोक्तम्- "वे उब्वियसमुग्घाएणं समोहन्नइ / समोहणित्ता। संखेज़ाइंजोयणाई दंड निसिरइ। निसिरित्ता अहावायरे पुणले पारेसाडेइ इति। तैजसाऽऽहारकसमुद्धातौ वैक्रियसमुद्घातवदवगन्तव्यौ / केवलं तैजसमुद्घातगतस्तैज सशरीरनामकर्मपुद्गलपरि