________________ जीव 1532 - अभिधानराजेन्द्रः - भाग 4 जीव कदाचित् प्राप्यन्ते, कदाचिन्न / यतो गर्भव्युत्क्रान्तानामपर्याप्तानां जघन्यतः समयमात्राम, उत्कर्षतो द्वादश मुहूर्ता अन्तरं, संमूर्छिमानांत्वपर्याप्तानां जघन्यतः समयमात्रम्, उत्कर्षत - श्चतुर्विशतिरन्तर्मुहुर्ताः, अपर्याप्ताश्चान्तर्मुहूत्र्तायुषः, अतोऽन्त - मुहूर्तानन्तरं सर्वेऽपि निर्लेपमपगच्छन्ति / तस्मादमी द्वयेऽप्यपर्याप्ताः कदाचिद्भवन्ति, कदाचिन्न / यदा पुनरमी द्वयेऽपि अपर्याप्ता गर्भव्युत्क्रान्ताश्च पर्याप्ताः समुदिताः सर्वोत्कर्षेण भवन्ति, तदा तेषा मिदं परिमाणम - "उक्कोसपए'' इत्यादि / उत्कृष्ट पदे सर्वोत्कृटसंमूर्छिमगर्भव्युत्क्रान्तसमुदायग्रहणरूपे मनुजा मनुष्या रूपाधिका एकेन रूपेण परमार्थतोऽसताऽपि कल्पिते नाधिकाः सन्त एकप्रादेशिकश्रेणिरूपे अड्डलमाो क्षेत्रा यः प्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्तत्प्रथम वर्गमूलं षोडशलक्षणं तृतीयेन वर्गमूलेन द्विकलक्षणेन गुण्यते / ततो जाता द्वात्रिशत् / ततस्तैरङ्गुलप्रथमवर्गमूलप्रदेश स्तृतीयवर्गमूलप्रदेशैराहतैर्गुणितैरसत्कल्पनया द्वात्रिशत्संख्यैः प्रतरस्यैकां श्रेणिं सकलामप्यपहरन्ति। इयमत्रा भावना एक प्रादेशिके श्रेणिरूपे अङ्गुलमात्रो क्षेत्र यः प्रदेशराशिस्तस्य-त्प्रथमवर्गमूलं तृतीयवर्गमूलगुणितं सत् यावद्भवति, तावन्मानं खण्डं प्रत्येक यदि सर्वेऽपि पर्याप्तापर्याप्त संमूर्छिमगर्भजमनुव्या गृहन्ति, ततः सकलामपि श्रेणिमेकस्मिन्नेव समयेते अपहरन्ति, परमेकं मनुष्यरूपं न प्राप्यते; सर्वोत्कर्षेऽपि तेषामेताक्तामेव केवलवेदतोपलब्धत्वात्। तथा चोक्त मनुयोगद्वारचूर्णी- "उक्कोसपए जे मणुस्सा हवंति, ते इक्कम्मि मणुयरूवे परिकट्टे समाणे तेहिं मणुरसेहि सेढी अवहीरइ, तीसेय सेढीए कालखेत्तेहिं अवहारो मणिज्जइ। कालओ ताव असंखेजाहिं ओसप्पिणीहिं उस्सप्पि-णीहिं / खेत्तओ अंगुल पढमवग्गमूलं तइयवगमूलपडुप्पन्न। किं भणिय होइ ? तीस सेढीए अंगुलायएखेते जो य पएसरासी, तस्स जंघढम वग्गमूलं पएसरासिमाणं, तंतइयवग्गमूलपएसरारिणा पडुप्पाइजइ. पडुप्पाइए समाणे जो पएसरासी भवइ, एवइएहिं खंडेहिं अवही-रमाणी अवहीरमाणी जाव निद्धाइ ताव माणुस्सा वि अवहीरमाणा निद्धति। आह-कहमेगसेढीएदहमेत्तेहिंखहेहिं अवहीरमाणी अवहीरमाणी असंखेजा उस्सप्पिणीओसप्पिणीहिं अवहीरइ? आयरिओ असंखेजा उस्सप्पिणीओसप्पिणीहि अवहीरइ? आयरिओ आह-खेत्तस्स सुहुमत्तणओ। सुत्ते विमं भणियं "सुहुमो य होइ कालो, तत्तो सुहुमयरं हवइ खेत्तं / अंगुलसेढीमेत्ते, उसप्पिणिओ अंखेज्जा / / 1 // " इति। ततश्चेदमायातमकालतोऽसंख्येयोत्सर्पिण्यवसर्पिणीसमय समानाः, क्षेत्रातः पुनरे कस्यामक प्रादेशिक्यां श्रेणावगुलमात्र क्षेत्रप्रदेशराशेः प्रथमवर्गमूलं तृतीयवर्गमूलगुणितं सत् यावत्प्रदेशपरिमाणं भवति, तावन्मात्राणि खण्डानि यावन्ति भवन्त्येकखण्डहीनानि, तावन्तः सर्वोत्कृष्टपदे मनुष्याः तदेवम पर्याप्तसूक्ष्मैके न्द्रियाऽऽदिभेदेन चतुर्दशविधानामपि जीवानां परिमाणमुक्तम् // 20 // संप्रति गुणस्थानकभेदेन चतुर्दशविधानां परिमाणमाह - सासायणाइचउरो, होति असंखा अणंतया मिच्छा। कोडिसहस्सपुहुत्तं, पमत्त इयरे उ थोवयरा / / 21 / / सास्वादनाऽऽयः सास्वादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टयविर तदेश- | विरतरूपाश्चत्वारः प्रत्येकमसंख्याताः, सास्वादनाऽऽदीनां चतुर्णामपि | प्रत्येकमुत्कर्षपदे क्षेत्रपल्योपमासंख्येयभागवर्तिप्रदे शराशिप्रमाणत्वात् / तथा अनन्ता अनन्तसंख्या मिथ्यादृष्टयः, तेषामनन्तलोकाऽऽकाशप्रदेशराशिप्रमाणत्वात्। तथा प्रमत्ताऽ-प्रमत्तासंयता जघन्यतोऽपि कोटिसहस्रपृथक्त्वपरिमाणाः प्राप्यन्ते, उत्कर्षतोऽपि कोटिसहस्रपृथक्त्वमानाः / इह पृथक्तवं द्विप्रभृत्या नवकोटिसहसाणीति / तथा इतरे अप्रमत्तसंयताः स्तोकतराः प्रमत्तसंयतेभ्यः स्वल्पतराः।।२१।। एगाई चउपण्णा-समग उवसामगा य उवसंता। अद्धं पडुच सेढी-ऍ हों ति सव्वे वि संखेज्जा / / 22 / / इहोपशमका उपशान्ताश्च कदाचिद्भवन्ति, कदाचित्र, उपशमश्रेणेरन्तरस्य भावात्। ततश्च यदा उपशमका अपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपराया उपशान्ता उपशान्तमोहा भवन्ति, तदा जघन्यत एको द्वौ त्रयो वा, उत्कर्षतश्चतुः पञ्चाशत्। इदं प्रमाणे प्रवेशनकमधिकृत्योक्त्म्, एतावन्त एकस्मिन् समयेऽपूर्वकरणाऽऽदिषु गुणस्थानकेषु प्रत्येक मुपशम श्रेणिमधिकृत्य प्रविशन्तः प्राप्यन्ते इत्यर्थः / श्रेणेरूपशमश्रेणे रूद्धांकालं प्रतीत्य पुनर्भवति सर्वेऽपि संख्येयाः / इदमुक्तं भवति-सकलेऽप्यन्तर्मुहूर्तलक्षणे उपशमश्रेणिकालेऽन्येऽन्ये प्रविशन्तः सर्वेऽपि संख्येयाः प्राप्यन्ते। आह-नन्वन्तर्मुहूर्तप्रमाणेऽप्युपशमश्रेणिकाले असंख्येयाः समयाः प्राप्यन्ते, ता यदि प्रतिसमयमे कैकः प्रविशति, तथाऽपि सकलं श्रेणिकाल मधिकृत्यासंख्येयाः प्राप्नुवन्ति, किं पुनर्दित्रादेरारभ्योत्कर्षतश्चतुष्पञ्चाशतः प्रवेशने? अत्रोच्यते-- स्यादियं कल्पना यदि सकलेष्वपि श्रेणिसमयेषु प्रवेशो भवेत, यावता स एव न भवति, किंतु केषु चिदेव समयेषु / अथैतदपि कथमवसीयते इति चेत ? उच्यते इहोपशमश्रेणिं प्रतिपद्यन्ते पर्याप्तगर्भजमनुष्या एव, न शेषजीवाः तेऽपि चारित्रिणः न ये केचन, चारित्रिणश्चोत्कर्षतोऽपि कोटिसहसपृथक्त्वमानाः, तेऽपि च न सर्वेऽपि श्रेणिं प्रतिपद्यन्ते, किं तु कतिपया एव, ततो ज्ञायते-न सर्वेष्वपि उपशमश्रेणि समयेषु प्रवेशो भवति, किं तु केषुचिदेव, तत्रापि कदाचित् कुत्रचित् समये पञ्चदशापि कर्मभूमीरधिकृत्योत्कर्षतश्चतुः- पञ्चाशत् प्रविशन्तः प्राप्यन्ते, नाधिकाः, ततः सकलेऽपि श्रेणिकाले संख्येया एव भवन्ति / तेऽपि च शतानि द्रष्टव्याः न सहस्राणि तथा पूर्वसूरिभिरावेदितत्वात्॥२२॥ खवण खीणाजोगी, एगाई जाव होंति अट्ठसयं। अद्धाएँ सयपुहत्तं, कोडिपुहत्तं सजोगीओ // 23 // इहापि क्षपकाः क्षीणमोहा अयोगिनश्च कदाचिद्भवति, कदाचिन्न, क्षपक श्रेणे रयो गिकालस्य चान्तरसंभवात् / ततो यदा क्षपका अपूर्वकरणानिवृत्तबादरसंपरायसूक्ष्मसंपरायाः, क्षीणाः क्षीणमोहा अयोगिनोऽयोगिकेवलिनश्च भवन्ति, तदा जघन्यत एको द्वौ वा, उत्कर्षतोऽष्टशतम् अष्टाधिकशतप्रमाणाः / इदमपि प्रमाणं प्रवेशनमधिकृत्योक्तमवसेयम् / एतावन्त एकस्मिन्समये क्षपकत्वे, क्षीणमोहत्वे अयोगित्वे चोत्कर्षतः प्रविशन्तीत्यर्थः / (अद्धाए सयपुहत्तं त्ति) अद्धा क्षपक श्रेणिकालोऽयोगिकालश्च / तस्यामद्धायां सकलायामपि प्रत्येकमन्येऽन्ये प्रविशन्तः सर्वसंख्यया शतसंख्याः प्राप्यन्ते। इयमत्र भावना-सकलेऽपि क्षपक श्रेणिकालेऽन्तर्मुहूर्तप्रमाणे पञ्चदशस्यपि कर्मभूमिष्वन्येऽन्ये प्रविशन्तो यदि सर्वेऽपि संख्यायन्ते, तथाऽप्युत्कर्षतोऽपि शतपृथकत्वसंख्या एव लभ्यन्ते, नाधिकाः। एवमयोगिके वलिनोऽपि भावनीयाः / (कोडिपुहुत्तं सजोगीओ)