________________ जीव 1531 - अभिधानराजेन्द्रः - भाग 4 जीव मूलं, तत् स्वमूलेन स्वकीयेन वर्गमूलेन अङ्गुलमात्राक्षेत्राप्रदेश - राश्यपेक्षया तृतीयेन च वर्गमूलेन गुण्यते / गुणिते च सति यावान् प्रदेशराशिर्भवति तावत्प्रमाणाः सौधर्मदेवानां परिमाणावधारणाय श्रेणयो ज्ञेयाः, एतावत्प्रमाणश्रेणिगताऽऽकाशप्रदेशराशितुल्याः सौधर्मदेवा भवन्तीति भावना। एवं पूर्वत्रापि भावना द्रष्टव्या॥१८॥ संप्रत्युत्तरवैक्रियसंज्ञितिर्यकपञ्चेन्द्रिय परिमाणावधारणार्थमाह - अंगुलमूलासंखिय-भागप्पमिया उ होंति सेढीओ। उत्तरपिउव्वियाणं, तिरियाण स सन्निपजाणं / / 16 / / अङ्गुलास्याङ्गुलप्रमाणस्य क्षेत्रास्य प्रदेशराशेर्यन्मूलं वर्गमूलं प्रथम, तस्य योऽसंख्येयो भागस्तेन प्रमितास्तत्प्रमाणास्तिरश्चां संज्ञिपञ्चेन्द्रियाणामुत्तरवैक्रियाणां परिमाणावधारणाय श्रेणयोऽवगन्तव्याः / इयमत्रा भावना-एकप्रादेशिके अङ्गुलमात्र क्षेत्रो यः प्रदेशराशिः, तस्य यत् प्रथम वर्गमूलं, तस्यासंख्येयभागे यावन्तो नभः प्रदेशाः, तावत्प्रमाणासु श्रेणिषु यावान् प्रदेशराशिस्तावत्प्रमाणा उत्तरवैक्रियशरीरलब्धिसम्पन्नाः पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यञ्चो वेदितव्याः। उक्तं च - "पंचेदियतिरिक्खजोणियाण केवइया वेउव्वियसरीरा पन्नता ? गोयमा ! असंखेना, कालओ असंखेज्जाहिं, उस्सप्पिणीओस-प्पिणीहि अवहीरति, खेत्तओ पयरस्स असंखेजइभागे असंखेजाओ सेढीओ, तासि णं सेढीणं विक्खंभसूई अंगुलपढममूलवग्गस्स असंखेजइ भागो" इति / उत्तरवैक्रियशरीरलब्धिसंपन्नाः पर्याप्तसंज्ञितिर्यक् पञ्चेन्द्रिया असंख्येयेषु द्धीप समुद्रेषु गजमत्स्यहंसाऽऽदयो द्रष्टव्याः॥१६॥ सम्प्रति मनुष्यपरिमाणप्रतिपादनार्थमाह - उक्कोसपए मणुया, सेढी रूवाहिया अवहरंति। तइयमूलाहएहिं, अंगुलमूलप्पएसेहिं / / 20 / / इदद्वये मनुष्याः-गर्भव्युक्तान्ताः, संमूर्च्छिमाश्च। तत्र गर्भव्युत्क्रान्ताः, पर्याप्ताः, अपर्याप्ताश्च भवन्ति। समूर्छिमास्तु अन्तर्मुहुर्तायुषोऽपर्याप्ता एव म्रियन्ते / एतच प्रागेव प्रथमाधिका रेऽभिहितम्। ततस्ते पर्याप्ता न भवन्ति / ता ये गर्भव्युक्तान्ताः पर्याप्ता मनुष्यास्ते सदैव लभ्यन्ते, धुवत्वात्तेषाम् / ते च संख्येयाः, संख्या च तेषां जघन्यतोऽपि पञ्चमवर्गगुणितषष्ठवर्गप्रमाणा द्रष्टव्या / अथ वर्गः किमुच्यते ? किंस्वरूपश्च पञ्चमो वर्ग:? किंभूतः षष्ठः? कीदृग्वा पञ्चमवर्गगुणितः स षष्ठो वर्गो भवतीति? उच्यते-इह विवक्षतो राशिस्तेनैव राशिनागुणितो वर्ग इत्यभिधीयते। तौकस्य वर्ग एक एव भवति, ततो वृद्धिरहितत्वादेष वर्ग एव न गण्यते, द्वयोश्च वर्ग श्वत्वारो भवन्ति, इत्येष प्रथमो वर्गः 4 / चतुर्णा वर्गः षोडशति द्वितीयो वर्गः 16 / षोडशाना वर्गा द्वे शते षट् पञ्चाशदधिके, इति तृतीयो वर्गः 256 / द्वयोः शतयोः षट्पञ्चाशदधिकयोर्वर्गः पञ्चषष्टिसहस्राणि पञ्च शतानि षडत्रिशदधिकानि, एप चतुर्थो वर्गः 65536 // अस्य च राशेर्वर्ग, सार्द्धगाथया प्रोच्यते"चत्तारि य कोडिसया, अउणतीसं च होति कोडीओ। अउणावन्नं लक्खा , सत्तट्टी चेव य सहस्सा / / 1 / / दो य सया छन्नउया, पंचमवग्गो इमो विनिदिहो।" अङ्कतोऽपि स्थापना- 4264667266 / अस्यापि राशेर्वर्गो गाथात्रयेण प्रतिपाद्यते। तद्यथा"लक्खं कोडाकोडिण, चउरासीई भवे सहस्साई। चत्तारि य सत्तट्टा, हों ति सया कोडिकोडीणं / / 1 / / चोयाला लक्खाई, कोडीणं सत्त चेव य सहस्सा। तिन्नि य सया य सयरा, कोडीणं होंति नायव्वा / / 2 / / पंचाणउई लक्खा, एगावन्नं भवे सहस्साई। छस्सोलसुतरसया, एसो छट्टो य हवइ वग्गो॥३॥" अङ्कतः स्थापना- 18446744073706551616 / एष षष्ठो वर्गः पूर्वोक्तेन पञ्चमवर्गेण गुण्यते। गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणा जघन्यतोऽपि पर्याप्तगर्भजमनुष्याः / स च राशिरेतावान् भवति 76228162514264337563543650336 / अयं च राशिरेकोनशिदङ्कस्थानेन कोटाकोट्यादिप्रकारेणा-भिधातुं कथमपि शक्यते, ततः पर्यन्तवर्तिनोऽङ्कस्थानादारभ्या ङ्कस्थानसंग्रहमात्र पूर्वपुरुषप्रणीतेन गाथाद्वयेनाभिधीयते"छ्य तिन्नि तिन्नि सुन्नं, पंचेव य नव य तिन्नि चत्तारि। पंचेव तिन्नि नवपंच सत्त तिन्नेव तिन्नेव // 1 // चउछचदु चउ एको, पण दो छक्केक्कगो य अद्वैव। दो दो नव सत्तेव य, अंकट्टाणा इगुणतीसं / / 2 / / '' एष च राशिः पूर्वसूरिभिस्त्रियमलपदादूर्ध्वं चतुर्यमलप दस्याधस्तादित्युपवर्ण्यते; तत्राद्वौ द्वौ वर्गीयमलपदम्। तथा चोक्तमनुयोगद्वारचूर्णी'दो विन्नि वग्गा जमलपयं ति भन्नइ'' इति / ततः षड् वर्गाः समुदितास्त्रियमलपदम्, त्रियमलपदसमा हारस्तस्मादूर्ध्वमेव राशिः, षष्ठवर्गस्य पञ्चमवर्गेण गुणितत्वात् / अष्टवर्गसमुदायश्चतुर्यमलपदम्, चतुर्णा यमलक पदानां समाहार इत्यर्थः / तस्याधस्तात् सप्तमवर्गस्याप्यपरिपूर्णत्वात् एष च राशिः षण्णवतिच्छेदन कदायी। तथाहि-प्रथमो वर्गो द्वे छेदनके ददाति / तद्यथा--प्रथमं छेदनकं द्वौ, द्वितीयमेकं, द्वितीयो वर्गश्चत्वारि छेदनकानि। तत्र प्रथमभष्टौ, द्वितीयं चत्वारि, तृतीयं द्वे, चतुर्थ-मेकम्।एवं तृतीयवर्गोऽष्टौ छेदन कानि। चतुर्थः षोडश / पञ्चमो द्वात्रिंशतम् / षष्टश्चतुष्पष्टिम्, स एव पञ्चमबर्गेण गुणितः षण्ण-वतिम्। कथमेतदवसेयमिति चेत् ?उच्यते-इह यो यो वर्गो येन येन वर्गेण गुण्यते, तत्र तत्र द्वयो द्वयोरपि छेदनकानि प्राप्यन्ते। तथा प्रथमवर्गेण द्वितीये वर्गे गुणिते षट्। तथाहि-द्वितीयो वर्गः षोडशलक्षणः प्रथम वर्गेण चतुष्करूपेण गुण्यते / गुणिते च सति जाता चतुःषष्टिः / तस्याः प्रथमछेदनकं द्वात्रिशत्, द्वितीय षोडश, तृतीयमष्टौ, चतुर्थं चत्वारिं, पञ्चमं द्वे, षष्ठमेकमिति। एवमन्यत्रापि भावनीयम् / तत्र पञ्चमवर्गे द्वात्रिशच्छेदनकानि, षष्ठे चतुष्षष्टिः ततः पञ्चमवर्गेण षष्ठ वर्ग गुणिते षण्णवतिच्छेदनकानि प्राप्यन्ते / एवमेकारशिर्विनेयजनमतिप्रकर्षाऽऽधानाय त्रिप्रकार आगमे परमगुरुभिरुपदर्शितः / तथा चानुयोगद्वारसूत्राम् "जहण्णपदे मणुस्सा, संखेज्जासंखेजाउ कोडीओ। तिजमलपयस्स उवरि, तउ जमलपयस्स हेट्ठा य / / 1 / / अहव ण छट्टो वग्गो, पंचमवग्गं पडुप्पन्नो। अहव ण छण्णउई, छेयणगदाई य रासीइ" ||2|| ये तु गर्भव्युत्कान्ताः संमूर्छि माश्चापर्याप्ताः, ते उभयेऽपि