________________ जीव 1526 - अमिधानराजेन्द्रः - भाग 4 जीव पर्याप्ताः सर्वेऽपि चापर्याप्ता द्वीन्द्रियाऽऽदयः सामान्यतः समान प्रमाणा उक्ताः, तथाऽपि विशेषचिन्तायाभिदमल्पबहुत्यमवयम-सर्वस्तोकाः पर्याप्ताश्चतुरिन्द्रियाः, पर्याप्ता असंज्ञिपञ्चेन्द्रिया विशेषाधिकाः, पर्याप्ता द्वीन्द्रिया विशेषाधिकाः, पर्याप्तास्त्रीन्द्रिया विशेषाधिकाः, अपर्याप्ता असंज्ञिपञ्चेन्द्रिया असंख्यातगुणाः, तेभ्योऽपर्याप्ताश्चतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्यपर्याप्तास्त्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्यपर्याप्ता द्वीन्द्रिया विशेषाधिकाः। तदेवमसंज्ञिपञ्चेन्द्रियपर्यन्ताः सर्वेऽपि जीवाः संख्यया प्ररूपिताः॥११| सम्प्रति संज्ञिप्ररूपणार्थमाहसन्नी चउसु गईसुं, पढमाएँ असंखसेढिनेरइया। सेढिअसंखेजंसो, सेसासु जहुत्तरं तहय॥१२॥ संज्ञिनश्चतसृष्वपि गतिषु वर्तन्ते, ततो गतीरधिकृत्य तत्प्ररूपणा कर्तव्या। तत्र प्रथमतो नरकगतिमधिकृत्याऽऽहप्रथमायां नरकपृथिव्यां रत्नप्रभाऽभिधानायां घनीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्य असंख्येया एकप्रादेशिक्यः, श्रेणयः एतावत्प्रमाणा नारकाः, असंख्यातासु एकप्रादेशिकीषु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणा नारका इत्यर्थः / गाथाऽन्ते चशब्दस्यानुक्तार्थसंसूचना भवनपतयोऽप्येतावत्प्रमाणा वेदितव्याः / शेषासु द्वितीयाऽऽदिषु नरकपृथिवीषु प्रत्येकम् (सेढिअसंखेजस त्ति) घनीकृतस्य लोकस्यैकस्या अप्येकप्रादेशिक्याः श्रेणेरसंख्येयतमो भागो नारकाः, असंख्येयतमे भागे यावन्तः प्रदेशास्तावत्प्रमाणा नारका इत्यर्थः / (जहुत्तरं तह य त्ति) तथा चेति समुचये / यथोत्तरं च यथा यथा उत्तरा पृथ्वी तथा तथा पूर्वपृथ्वीगतनारकापेक्षया असंख्याततमा असंख्याततमभागमात्रा द्रष्टव्याः। तद्यथा--द्वितीयपृथ्वीगतनारकापेक्षया तृतीयपृथिव्यां नारका असंख्याततमभागमात्राः तृतीयपृथ्वीगतनारकापेक्षया चतुर्थपृथिव्या नारका असंख्यातभागमात्राः / एवं सप्तस्वपि पृथ्वीषु द्रष्टव्यम् / कथमेतदवसेयमिति चेत ? उच्यते युक्तिवशात्। तथाहि सर्वस्तोकाः सप्तमपृथिव्यां नारकाः पूर्वोत्तरपश्चिमदिष्विभाग भाविनः, तेभ्योऽपि तस्यामेव सप्तमपृथिव्यां दक्षिणदिग्भागभाविनोऽसंख्येयगुणाः। कथमिति चेत? उच्यते-इह द्विधा जन्तवःशुक्लपाक्षिकाः, कृष्णपाक्षिकाश्चातेषां चेदं लक्षणम् इह येषां किञ्चिदूनपुद्रलपरावर्तार्द्धमात्राः संसारस्ते शुक्लपाक्षिकाः, अधिकतरसंसारभाजिनस्तु कृष्णपाक्षिकाः / उक्तं च "जेसिमवड्डो पोग्गल परियट्टो सेसओय संसारो।तेसुक्कपक्खिया खलु. अहिए पुण कण्हपक्खीओ // 1 // " अत एव स्तोकाः शुक्लपाक्षिकाः, बहवः कृष्णपाक्षिकाश्च / कृष्णपाक्षिकास्तु प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु, तथास्वाभाव्यात् / तच्च तथास्वाभाव्यं पूर्वाचायैरेवं युक्तिभिरुपबृह्यते तथा कृष्णपाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते, दीर्घतरसंसारभाजिनश्च बहुपापोदया भवन्ति। बहुपादोयाश्च क्रूरकर्माणः / क्रूरकर्माणश्च प्रायस्तथास्वोभाव्यात् तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु / यतं उक्तम्- ''पायमिह कूरकम्मा, भवसिद्धिया वि दाहिणिल्लेसु / नेरइयतिरियमणुसा, सुराइठाणे सु गच्छंति / / 1 / / " ततो दक्षिणस्यां दिशि बहूनां कृष्णपाक्षिकाणासुत्पादसंभवात् संभवन्ति पूर्वोत्तरपश्चिमेभ्यो दाक्षिणत्या असंख्येय गुणा इति / तेभ्योऽपि षष्ठपृथिव्यां तमः प्रभाऽभिधानायां पूर्वोत्तर पश्चिमदिग्भाविनोऽसंख्येयगुणाः / कथमिति चेत्? उच्यते इह सर्वोत्कृष्टपापकर्मकारिणः संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याः सप्तम नरकंपृथिव्यामुत्पद्यन्ते, किञ्चिद्धीनहीनतरपापकर्मकारिणश्च षष्ट्यादिषु पृथिवीषु, सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोकाः, बहवश्च यथोत्तरं किञ्चिद्धीनहीनतराऽऽदिपापकर्मकारिणः, ततो युक्तमसंख्येयगुणत्वम् / सप्तमपृथिवीदाक्षिणात्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपश्चिमनारकाणाम्, एवमुत्तरोत्तरपृथिवी रप्यधिकृत्य भावितव्यम्। तेभ्योऽपि तस्यामेव षष्ठपृथिव्यां दक्षिणदिग्वर्तिनो नारका असंख्येयगुणाः / युक्तिस्रापि प्रागुक्ताऽनुसतव्या / तेभ्योरपि पञ्चमपृथिव्यां धूमप्रभाऽभिधानायां पूर्वोत्तरपश्चिमदिरभाविनोऽसंख्येयगुणाः तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां दक्षिणदिग्वर्तिनोऽसंख्येयगुणाः तेभ्योऽपि चतुर्थपृथिव्यां पङ्कप्रभाऽभिधानायां पूर्वोत्तरपश्चिमदिग्भागभाविनोऽसंख्येयगुणाः तेभ्योऽपि तस्यामेव चतुर्थपृथिव्यां दक्षिणस्यां दिशि असंख्येय गुणाः, तेभ्योऽपितृतीयपृथिव्यां वालुकाऽभिधानायां पूर्वोत्तर पश्चिमदिग्भाविनोऽसंख्येयगुणाः तेभ्योऽपि तस्यामेव तृतीयपृथिव्यां दाक्षिणात्या असंख्येयगुणाः, तेभ्योऽपि द्वितीयपृथिव्यां शर्कराप्रभाऽभिधानायां पूर्वोत्तरपश्चिमदिग्भाविनोऽसंख्ये यगुणाः, तेभ्योऽपि तस्यामेव द्वितीयपृथिव्यां दाक्षिणात्या असंख्येयगुणाः तेभ्योऽपि रत्नप्रभापृथिव्यां पूर्वोत्तरपश्चिमदिग्भाविनोऽसंख्येयगुणाः, तेभ्योऽपि तस्यामेव रत्नप्रभायां पृथिव्यां दक्षिणस्यां दिशि नारका असंख्येयगुणाः / पं० सं०। (अत्रत्यः संवादी प्रज्ञापनाग्रन्थः 'अप्पाबहुय' शब्दे प्रथमभागे 652 पृष्ठे गतः) ये च येभ्योऽसंख्येयगुणास्तेषां ते असंख्येयतमे भागे वर्तन्ते, ततो रत्नप्रभापृथिव्यां पूर्वोत्तरपश्चिमनारकेभ्योऽपि शर्कराप्रभानारका असंख्येयतमे भागे वर्तन्ते, किं पुनः सकलनारकेभ्यः? एवमधोऽधःपृथिवीष्वपि भावनीयम् / ततो युक्तमुक्तम् - (जहुत्तरं तह य त्ति) // 12 // सम्प्रति व्यन्तराणां प्रमाणमाहसंखेज्जजोयणाणं, सूइपएसेहिँ भाइओ पयरो। वंतरसुरेहिं हीरइ, एवं एक्कक्कमेएणं // 13 // संख्येयानां योजनानां या सूचिरेकप्रादेशिकी श्रेणिः / किमुक्तं भवति? संख्येययोजनप्रमाणा या एकप्रादेशिकी पङ्किः तत्प्रदेशैर्भक्तः प्रतरो व्यन्तरसुररपहियते / अयमत्रा तात्पर्यार्थः यावन्ति संख्येययोजनप्रमाणैकप्रादेशिकश्रेणिमात्राण्याकाशाखण्डान्येकस्मिन् प्रतरे भवन्ति, तावत्प्रमाणा व्यन्तरसुराः / अथ वेयं कल्पनासंख्येययोजनप्रमाणैकप्रादेशिक श्रेणिमात्रां खण्डमेकैकं युगपद् यदि सर्वेऽपि व्यन्तरसुरा अपहरन्ति, तर्हि सकलमपि प्रतरमेकस्मिन्नेव समये ते अपहरन्ति, अत्रापि च एवार्थः / एवमेकैकस्मिन् भेदे व्यन्तरनिकाये द्रष्टव्यम्। किमुक्तं भवति ? यथा सकलव्यन्तरसुराणां परिमाणमुक्तमेवमेकैक स्मिन् व्यन्तरंनिकाये परिमाणमयसेयम् / न चैवं सर्वसमुदायपरिमाणव्याघातप्रसङ्ग,श्रेणिप्रमाणहेतुयोजनसंख्येयत्वस्य वैचित्र्यात्।।१३।। छप्पन्नदोसयंगुल-सूइपएसेहिं भाइओ पयरो। जोइसिएहिं हीरइ, सहाणे त्थी य संखगुणा // 14 // षट्पञ्चाशदधिकशतद्वयसंख्याऽगुलप्रमाणसूचिप्रदेशैर्भाजितः