________________ जीव 1528 - अभिधानराजेन्द्रः - भाग 4 जीव सम्प्रति द्रव्यप्रमाणमाहसाहारणाण भेया, चउरो अणंताऽसंखया सेसा। मिच्छाऽणता चउरो, पलियासंखं ससेससंखेजा।।। साधारणानां साधारणवनस्पतिकायिकानां चत्वारो भेदाः, पर्याप्तापर्याप्तसूक्ष्मबादररूपाः,प्रत्येकमनन्ता अनन्तसंख्याः अनन्तलोकाऽऽकाशप्रदेशप्रमाणत्वात्तेषाम्। तथा शेषाः पृथिव्यम्बुतेजोवायवः प्रत्येकं पर्याप्तापर्याप्तसूक्ष्मवादरभेदाचतु भेदाः तथा पर्याप्तापर्याप्तभेदभिन्नाः प्रत्येकबादरवनस्पतिकायिकाः पर्याप्तापर्याप्त द्वित्रिचतुरसंज्ञिसंज्ञिनोऽसंख्याता असंख्यातसंख्याः / अथापर्याप्तासंज्ञिनः कथमसंख्याता गीयन्ते? न हि ते सदैव प्राप्यन्ते किंतु कदाचिदेव, ततः कथमसंख्याता घटन्ते। नैष दोषः / यतो यद्यपिते सदैव न भवन्ति, तथापि यदा भवन्ति तदा जघन्येनैको द्वौ वा उत्कर्षतोऽसंख्येयाः / उक्तं च-"एगो व दो व तिन्निव, संखमसंखा व एगसमएणं।" इति। तथा मिथ्यादृष्टयोऽनन्ताःअनन्तलोका ऽऽकाशप्रमाणाः, तथा चत्वारः सास्वादनसम्यमिथ्यादृष्ट्यविरतसम्यदृष्टिदेशविरतरूपाः प्रत्येक पल्योपमासंख्येयभागवर्तिप्रदेशरशिप्रमाणा इत्यर्थः / इह सास्वादनाः सम्यग्मिथ्यादृष्ट्यश्चाधुवत्वाकदाचिल्लोके प्राप्यन्ते, कदाचिन्नः, यदा प्राप्यन्ते तदा जघन्येनैको द्रौवा, उत्कर्षतः क्षेत्रापल्योपमासंख्येय भागतुल्याः, अविरतसम्यग्दृष्टिदेशविरताः पुनः सदैव प्राप्यन्ते, ध्रुवत्वात्तेषां, केवलं कदाचिस्तोकाः कदाचिद् बहवः तत्रा जघन्यपदेऽपि ते द्वयेऽपि प्रत्येक क्षेत्रापल्योपमासंख्येय भागवर्तिप्रदेशराशितुल्याः , उत्कर्षतोऽप्येतावन्त एव, नवरम-- संख्यातस्य तस्यासंख्यातभेदभिन्नत्वाजघन्यादुत्कृष्टम- संख्यातमसंख्यातगुणं द्रष्टव्यम्। देशविरतेश्चाविरतसम्यग्दृष्ट्यो जघन्यपदे उत्कृष्टपदे च प्रभूतततरा अवसेयाः, शेषाः प्रमत्ताऽऽदिगुण स्थानवर्तिनो जीवा: प्रत्येकं संख्येयाः प्रतिनियतसंख्याकाः, सा च प्रतिनियता संख्या स्वयमेव वक्ष्यते॥८|| तदेवमभिहितं सामान्यतो द्रव्यप्रमाणम्, साम्प्रतमेतदेव विशेषतोऽभिधित्सुराहपत्तेयपजवणका-इया उपयरं हरंति लोगस्स। अंगुलअसंखभागे-ण भाइयं भूदगतणू य || पर्याप्तप्रत्येकबादरवनस्पतिकायिका भूकायिका उदककायि-काश्च पर्याप्तबादराः प्रत्येकं लोकस्य धनीकृतस्व सप्तररज्जु प्रमाणस्य उपरितनाधस्तनप्रदेशरहितै कैकप्रदेशप्रस्तराऽऽत्मकं मण्डकाऽऽकार प्रतरमङ्गलमात्रक्षेत्रासंख्येयभागै जितं खण्डितं सकलमपि हरन्ति / इयमत्र भावना-सर्वेऽपि प्रत्येकबादरपर्याप्तवनस्पतिकायिका जन्तवः प्रतरमेककालपहर्तुमुद्यता विवक्षिताः सन्तो यदि युगपदेकैकमङ्गुलासंख्येभागमात्र खण्डमपसारयन्ति, तत एकेनैव समयेन ते सकलमपि प्रतरमपहरन्ति / तत इदमायातम्घनीकृतलोकस्यैकस्मिन् प्रतरे यावन्त्यकुलासंख्येयभागमात्राणि खण्डानि भवन्ति तावत्प्रमाणाः पर्याप्त प्रत्येक बादरवनस्पतयः / एवं पर्याप्तबादभूकायि को - दककायिकानामपि प्रत्येकं भावना कार्या / यद्यपि चामीषां त्रयाणामपीत्थं समानप्रमाणत्वमभिहितं, तथाऽप्यनुलासंख्येय भागस्यासंख्यातभेदभिन्नत्वात्परस्परमिदमल्पबहुल्वमवसे यम्, स्तोकाः प्रत्येक बादरपर्याप्तवनस्पतयः, तेभ्यः पर्याप्तबाद-भूयकायिको असंख्येयगुणाः, तेभ्योऽपि बादर पर्याप्ताप्कायिका असंख्येयगुणाः।।६।। आवलिवग्गो ऊणा-वलिए गुणिओ हु बायरा तेऊ॥ वाऊ य लोगसंखं, सेसतिगसंखिया लोगा।।१०।। आवलिका असंख्येयसमयाऽऽत्मिकाऽप्यसत्कल्पनया दशसमयाssत्मिका कल्प्यते, ततस्तस्या दशसमयाऽऽत्मिकाया आवलिकावर्गः, स चि किल कल्पनया शतसमयप्रमाणः, तत आवलिकावर्ग ऊनावलिकया कतिपयसमयन्यूनया आवलिकया कतिपयसमयन्यूनैरावलिकासमयैरष्टभिरित्यर्थः गण्यते। गुणने च कृते सति यावन्तो वर्गा भवन्ति, तेषु च वर्गेषु यावन्तः समया-स्तावत्प्रमाणा बादरपर्याप्ततेजस्कायिकाः। तथा (वाऊय लोगसंखं ति) वायवो बादरपर्याप्तवायवो लोकसंख्येयभागतुल्याः, घनीकृतस्य लोकस्यासंख्येयेषु प्रतरेषु संख्यातत् मभागवर्तिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणा इत्यर्थः / अमीषां पृथिव्यम्बुतेजोवायुप्रत्येकवनस्पतीनां बादरपर्याप्तानां परस्परमल्पबहुत्वमिदम्-सर्वस्तोकाः पर्याप्तबादरतेजस्कायिकाः, तेभ्यः पर्याप्त प्रत्येकबादरवनस्पतिकायिका असंख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरभूकायिका असंख्येयगुणाः, तेभ्योऽपि पर्याप्तवादराप्कायिका असंख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरवायुकायिका असंख्ये यगुणाः / (से सतिगमसंखियो लोगा इति) शेषत्रिक पृथिव्यम्बुतेजोवायु कायिकानामपर्याप्तबादरपर्याप्ता पर्याप्तसूक्ष्मलक्षणमसंख्येया लोकाः, असंख्येयेषु लोकेषु यावन्त आकाशप्रदेशास्तावत्प्रमाणाः / किमुक्त भवति ? असंख्येयलोकाऽऽकाशप्रदेशप्रमाणाः पृथिव्यम्बुतेजोवायूनां प्रत्येकमपर्याप्ता बादराः, पर्याप्ता अपर्याप्ताश्च सूक्ष्मा भवन्तीति। इदं सामान्येनोक्तं, विशेषचिन्तायां पुनः पृथिव्यम्बुतेजोवायूनां स्वस्थाने प्रत्येकं त्रयाणामपिराशीनामिदमल्पबहुत्वम्-सर्वस्तोका अपर्याप्तबादराः तेभ्योऽपर्याप्तसूक्ष्मा असंख्येयगुणाः तेभ्योऽपि पर्याप्तसूक्ष्माः संख्येयगुणाः, शेषत्रिकग्रहणं चोपलक्षणं, तेनापर्याप्तबादरप्रत्येक वनस्पतयोऽसंख्येयलोकाकाशप्रमाणा अवगन्तव्याः / साधारणवनस्पतीनां च प्रागेण पर्याप्तापर्याप्तसूक्ष्मबादररूपाश्चत्वारोऽपि भेदाः सामान्यतोऽनन्तलोकाकाशप्रदेशप्रमाणा उक्ताः / यदि पुनस्तेषामपि विशेषचिन्ता क्रियते, तदेदमल्पबहुत्वमवसे यम बादरपर्याप्तसाधारणाः सर्वस्तोकाः, तेभ्यो बादरापर्याप्तसाधरणा असंख्येयगुणाः, तेभ्योऽपि सूक्ष्मापर्याप्तसाधारणा असंख्येयगुणाः, तेभ्योऽपि सूक्ष्मपर्याप्तसाधारणाः संख्येयगुणाः / / 10 / / पज्जपत्ताजत्ता-वितिचउअस्सण्णिणो / अवहरंति ।अंगुलसंखासंख-प्पएसभइयं पुढो पयरं / / 11 / / द्वित्रिचतुरसंज्ञिनो द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाः पृथकप्रत्येक पर्याप्ता अपर्याप्ताश्च यथासंख्यमड्गुल-संख्येयासंख्येयभागप्रदेशैर्भाजितं खण्डितं प्रतरमपहरन्ति / इयमत्रा भावना-सर्वेऽपि पर्याप्ता द्वीन्द्रिया यदि युगपदेकैकमङ्गुलमात्रक्षेत्रासंख्येयभागमात्रां खण्ड प्रतरस्यापहरन्ति, तत एकेनैव समयेन ते सकलमपि प्रतरमपहरन्ति। इदमुक्तं भवति घनीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्यैकस्मिन् प्रतरे यावन्त्यगु संख्येयभागमात्राणि खण्डानि तावन्तः पर्याप्ता द्वीन्द्रियाः / एवं पर्याप्तास्त्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रिया अपि प्रत्येकमवगन्तव्याः / यावन्ति पुनरे कस्मिन् प्रतरेऽङ्गुलमात्रक्षेत्रासंख्ये यभागप्रमाणानि खण्डानि, तावन्ताऽपर्याप्ता द्वीन्द्रिय - त्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाः प्रत्येक मवसेयाः। यद्यपि च सर्वे