SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ जीव 1527 - अभिधानराजेन्द्रः - भाग 4 जीव सव्वद्धं इयरगुणा, नाणाजीवेसु वि न होति / / 6 / / मिथ्यादृष्ट्यविरतदेशविरतप्रमत्ताप्रमत्तसयोगि के वलिलक्षणानि गुणस्थानकानि सद्धिं सर्वकालं विद्यन्ते, इतराणि शेषाणि (गुण त्ति) गुणस्थानकानि सास्वादनसम्यग्मिथ्यादृष्ट्यपूर्वकरयानिवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहक्षीणमोहायोगिकेवलिलक्षणान्यष्टसंख्याकानि नानाजीवेष्वपि, आस्तामेकस्मिन् जीवे इत्यपिशब्दार्थः / न सर्वकालं भवन्ति, न सर्वकालं विद्यमानानि प्राप्यन्ते इत्यर्थः, किन्तु कदाचिदेव / यदाऽपि च सास्वादनाऽऽदयः प्राप्यन्ते, तदाऽपि कदाचिदेककाः, कदाचिद् बहवः, बहुत्वं च प्रतिनियतं प्रत्येकमग्रे वक्ष्यति॥६॥ एतेषां च सासादनाऽऽदीनामष्टसंख्याकानां यावन्तो भेदा एकद्विकाऽऽ-दिसंयोगतः सर्वसंख्यया भवन्ति, तावन्तः प्रतिपिदयिषुः सामान्यतः करणगाथामाह - इगदुगजोगाईणं, ठवियमहो एगऽणेग इइ जुयलं / इति जोगा उ दुदुगुणा, गुणियविमिस्सा भवे भंगा / / 7 / / एकद्विकयोगाऽऽदीनाम् एककद्विकत्रिकसंयोगाऽऽदीनां प्रत्येकमधस्तादेकानेकरूपं युगलं द्विकमवस्थाप्यते, तत एकक- योगादारभ्य (दुदुगुण त्ति) द्विगुणा द्वाभ्यां सहिता द्विद्विगुणाः / तथाहि-पाश्चात्या भगा द्विगुणाः क्रियन्ते, ततो द्विकसहिता विधेयाः। ततः पुनरपि गुणितविमिश्रा ये भङ्गाः प्राचीना द्वाभ्यां गुणितास्तैः केवलैः सहिताः क्रियन्ते, तद ईप्सितपदे इष्टसंख्याका भङ्गा भवन्ति / इयमत्रा भावनायावन्तः पदार्था विकल्पेन भवन्तो भेदसंख्यया ज्ञातुमिष्टास्तावन्तोऽसत्कल्पनया बिन्दवः स्थाप्यन्ते / इह च प्रकृता अष्टौ सास्वादनाऽऽदयः ततोऽष्टौ बिन्दवः स्थाप्यन्ते, तेषां चाधस्तात् प्रत्येक द्विकः स्थाप्यः / स्थापना चेयम् -22222222222 1.शायनागार 00000000000 तत्रीकपदे द्वौ भङ्गौ / तद्यथा-एको बहवो वेति पदद्धये भङ्गा अष्टौ / तद्यथा- पाश्चात्यो द्वौभङ्गौ द्वाभ्यां गुणितौ जाताश्चत्वारः, ते द्वितीयबिन्दुस्थाने स्थाप्यन्तेः, ततोऽधस्तनो द्विकः प्रक्षिप्यते, जाताः षट्, ततो 'गुणियविमिस्सा' इति वचनात्यौपाश्चात्यौ द्वौ भङ्गो द्वाभ्यां गुणितौ तौ षट्षु मध्ये प्रक्षिप्येते, ततो जाता अष्टौ, एतावन्तः पदद्वये भङ्गाः / ननु पदद्वये भङ्गा रचत्वार एव प्राप्यन्ते। तथाहि-किल एकः सास्वादन एको मिश्र इत्येको भङ्ग, एकः सास्वादनो बहवो मिश्रा इति द्वितीयः, बहवः सास्वादना एको मिश्र इति तृतीयः, बहवः सास्वादना बहवो मिश्रा इति चतुर्थः / अतः परमेकोऽपि भङ्गो न संभवति, तत्कथमुच्यतेपदद्वये भङ्गा अष्टौ भवन्तीति ? तदयुक्तम् / अभिप्रायपरिज्ञानात् / इह हि यदि सास्वादनाभिश्री सदैवावस्थितौ भवेताम्, भजना तु तयोरेकानेकत्वमात्राकृतैव के वला भवेत्, तदोक्तप्रकारेण द्वयोः पदयोर्भङ्गाश्चत्वार एव भवन्ति / यावता सास्वादनमिश्री स्वरूपेणापि विकल्पनीयौ / तथाहि-कदाचित् सास्वादनो भवति, कदाचिन्मिश्रः, कदाचिदुभौ। यत्र सास्वादनः केवलो जायमानः कदाचिदेकः कदाचिदनेक इतिद्वौ भङ्गौ। एवं मिश्रेऽपिद्वाविति चत्वारः। उभौ चयुगपज्जायमानौ भवदुक्तप्रकारेण चतुर्भङ्गिकतया जायते, ततः पदद्वये भगा अष्टौ भवन्ति / एवमुत्तरत्रापि भङ्गार्थभावना भावनीया / सम्प्रतिपदायभङ्गादर्श्यन्ते तत्रा पाश्चात्याः पदद्वये भङ्गा अष्टौ (द्वाभ्या) गुण्यन्ते, जाताः षोडशातेतृतीयबिन्दुस्थाने स्थाप्यन्ते ततोऽधस्तनो द्विकः प्रक्षिप्यते, जाता अष्टादश / ततो भूयः पाश्चात्या अष्टौ प्रक्षिप्यन्ते, जाताः षड्विंशतिः। एतावन्तः पदत्रये भङ्गाः। ततः सैव षड्विशतिद्वीभ्यां गुण्यते, जाता द्विपञ्चाशत्। सा चतुर्थबिन्दुस्थाने स्थाप्यते, ततोऽधस्तनो द्विकः प्रक्षिप्यते, ततो जाताश्चतुः पञ्चाशत्। ततः पुनरपि पाश्चात्य पविशतिः प्राक्षप्यते, जाताअशीतिः। एतावन्तः पदचतुष्टये भङ्गाः / ततः सा अशीतिभ्यां गुण्यते, जातं षष्टयेधिक शतम्,तत्पञ्चमाबिन्दुस्थाने स्थाप्यते, ततोऽधस्तनो द्विकः प्रक्षिप्यते, जातं द्विषष्टयधिकं शतम्, ततः पुनरपि प्राक्तनी अशीतिः प्रक्षिप्यते, ततो जाते द्वे शते द्विचत्वारिंशे / एतावन्तः पदपञ्चके भगा। ततस्ते द्वे शते द्विचत्वारिंशे द्वाभ्यां गुण्ये तेः, जातानि चत्वारि शतानि चतुरशीत्यधिकानि। तानि षष्ठबिन्दुस्थाने स्थाप्यन्ते, ततोऽधस्तनो द्विकः प्रक्षिप्यते, जातानि चत्वारि शतानि षड्शीत्यधिकानि / ततो भूयः प्राक्तने द्वे शते द्विचत्वारिंशदधिके प्रक्षिप्येते, जातानि सप्तशतान्यष्टाविंशत्यधिकानि। एतावन्तः षटषुपदेषु भङ्गाः। ततः सप्तशतान्यष्टाविंशत्यधिकानि द्वाभ्यां गुण्यन्ते, जातानि चतुर्दश शतानि षट्पञ्चाशदधिकानि। तानि सप्तमबिन्दुस्थाने स्थाप्यन्ते, ततोऽधस्तनो द्विकः प्रक्षिप्यते, जातानि चतुर्दशशतानि अष्टपञ्चाशदधिकानि। ततः पुनरपि प्राक्तनानि सप्तशतानि अष्टाविंशत्यधिकानि प्रक्षिप्यन्ते, ततो भवन्त्येकविंशतिशतानि षडशीत्यधिकानि। एतावन्तः सप्त-पदभगा। अमूनि चैकविंशतिशतानि षडशीत्यधिकानि द्वाभ्यां गुण्यन्ते, जातानि त्रित्वारिंशच्छतानि द्विसप्तत्यधिकानि। तान्यष्टमबिन्दुस्थाने स्थाप्यन्ते, ततोऽधस्तनो द्विकः प्रक्षिप्यते, ततो जातानि त्रिचत्वारिंशच्छतानि चतुःसप्तत्यधिकानि / सतो भूयोऽपि प्राक्तनान्येकविंशतिशतानि षड्शीत्यधिकानि प्रक्षिप्यन्ते, ज्ञातानिषष्ट्यधिकानि पञ्चषष्टिशतानि। एतावन्तोऽष्टपदभङ्गाः॥७॥ संप्रत्येषामेव भङ्ग कानां प्रकारान्तरेण प्ररूपणामाहअहवा एकपईया, दो भंगा इगिबहुत्तसन्ना जे। ते चिय पयवुड्डीए, तिगुणा दुगसंजुया भंगा॥८॥ अथवेति प्रकारान्तरोपदर्शने, एकपदिको एकपदभवौ द्वौ भङ्गौ भवतः, कौ तौ ? इत्याह-यौ एकबहुत्वसंज्ञौकदाचिदनेक इत्येवंरूपौ, ततस्तावेव द्वौ भड़ावादी कृत्वा पदवृद्धौ द्विकाऽऽदिपदवृद्धौ प्राक्तनाः प्राक्तनास्त्रिगुणाः क्रियन्ते, ततो द्विकेन संयुक्ता विधेयाः, ततस्तत्तत्पदभङ्गा भवन्ति / इयमत्रा भावनातावेवैकपदिको भङ्गौ पदद्वये त्रिगुणीक्रियेते, ततो जाताः षट्। ते द्विकेन संजुज्यन्ते, ततो जायन्तेऽष्टौ / एतावन्तः पदद्वये भगा। ततस्तेऽष्टौ त्रिगुणाः क्रियते, जाता चतुर्विशतिः / सा द्विकेन संयुक्ता जाता पविशतिः। एतावन्तः पदाये भङ्गा।ततः साऽपिषड्विशतिस्त्रिगुणीक्रियते, जाता अष्टसप्ततिः / ततो द्विकप्रक्षेपः ततो भवत्यशीति। एतावन्तः पदचतुष्टये भङ्गाः / एवं तावद् वाच्यं, यावत्सप्तपदभङ्गाः षडशीत्यधिकान्येकविंशतिशतानि / तानि भूयस्त्रिगुणीक्रियन्ते, ततो द्विकः प्रक्षिप्यते, जातानिषष्ट्यंधिकानिपञ्चषष्टिशतानि। एतावन्तोऽष्टसु सास्वादनाऽऽदिपदेषु भङ्गाः / / 7 / / तदेवं कृता सत्पदप्ररूपणा।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy