SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ जीव 1526 - अभिधानराजेन्द्रः - भाग 4 जीव भेदी, तत इह साक्षादौपशमिकस्य भावस्योपादानमिति। ततः 'कस्य प्रभवः स्वामिनो जीवाः?" इति प्रश्ने कृते सति उत्तरम् - स्वरूपस्य आत्मीयस्य रूपस्य, निश्चयनयमतमेतत् / तथाहि--कर्मबिनिर्मुक्तस्वरूपा आत्मानो न केषामपि प्रभवः, किं तु स्वरूपस्यैव, तथास्वाभाव्यात्। यस्तु स्वस्वामिभावः संसारे, स कर्मोपाधिजनितत्वादीपाधिकः, न पारमार्थिक इति। तथा केन कृता जीवा? इति प्रश्ने कृते सति समाधिः-न केनचित्कृताः किन्तु नभस्वदकृत्रिीमा एव, यथा चाकृत्रिमता जीवानां, तथा धर्मसंग्रहणीटीकायां सप्रपञ्चमभिहितमिति नेह भूयोऽभिधीयते, ग्रन्थगौरवभयात्॥२॥ कत्थ सरीरे लोए, व हुंति केवचिर सव्वकालं तु। कइ भावजुआ जीवा, विगतिगचउपंचमीसेहिं / / 3 / / कुत्रा जीवा अवतिष्ठन्ते? इति प्रश्ने कृते सति उत्तरमाचार्य आह शरीरे, लोके वा, तन्न सामान्यचिन्तायां लोके, नाऽलोके, अलोके स्वभावत एव धर्माधर्मास्तिकायजीवपुद्रलानामसंभवात्। विशेषचिन्तायां शरीरे, नान्यत्रा, शरीरपरमाणुभिरेव सह आत्मप्रदेशानां क्षीरनीरवदूयोन्यानुगमभावात् / उक्तञ्च - 'अन्नोन्नमणुगयाइं, इमं च तं च त्ति विभयणमजुत्तं / जह खीरपाणियाई' ति। तथा (केवचिर त्ति) कियचिरं कियत्कालं जीवा भवन्ति ? इति प्रश्ने कृते सति उत्तरम् - सर्वकालमेव, तुरेवकारार्थः / इह "कण तिन केणइ कया उ(२)" इत्यनेन ग्रन्थेन पूर्व जीवानामनादित्वमावेदितम्, इदानीं त्वनिधनत्वम्, ततश्चानादिनिधना जीवा इति द्रष्टव्यम्। तथा च सति मुक्त्स्य वस्थामधिगता अपि जीवा न विनश्यन्ति, किन्तु ज्ञानाऽऽदिके स्वरूपेऽवतिष्ठन्त इति श्रद्धेयम् / तेन यत्कश्चिदुच्यते"दीपो यथा निर्वृतिमभ्युपेतो. नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात्केवलमेति शान्तिम् / / 1 / / जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात्केवलमेति शान्तिम्॥२॥ तथाअर्हन्मरणचित्तस्य, प्रतिसन्धिर्न विद्यते॥ प्रदीपस्येव निर्वाणं, विमोक्षस्तस्य चेप्सितः॥३। इति तदपास्तमवसेयम्। सतः सर्वथा विनाशायोगात्, तथादर्शनादिति कृतं प्रसङ्गेन, मा भूद् ग्रन्थगौरवमिति कृत्वा / तथा कतिभिरुपशमाऽऽदिभिर्भावैर्युताः संयुक्ता जीवाः? इति प्रश्ने कृते सति, उत्तरमाह - द्विकत्रिकचतुःपञ्चमित्रैः / पं० सं०। (जीवस्थानेषु भावस्थितिः 'गुणद्वाण' शब्दे तृतीयभागे 623 पृष्ठे कर्मग्रन्थने गतार्था) तत्रा ये जीवा यावत्सु शरीरेषु संभवन्ति, तान्तावत्सु प्रतिपादयन्नाह -- सुरनेरइया तिसु तिसु, वाउपणिंदीतिरिक्ख चउ चउसु / मणुया पंचसु सेसा, तिसु तणुसु अविग्गहा सिद्धा // 4 // सुरा नैरयिकाश्च प्रत्येकं तिसृषु तनुषु शरीरेषु वर्तन्ते / तद्यथा तैजसे, कार्मणे, वैक्रिये च। तथा वायवो वातकायाः, तथा पञ्चेन्द्रियतिर्यञ्चः प्रत्येकं चतसृषु तनुषु संभवन्ति / तत्रा त्रीणि शरीराणि पूर्वोक्तान्येव, चतुर्थं त्यौदारिकमवगन्तव्यम्, वैक्रियं च वायुकायिकानां पञ्चेन्द्रियतिरश्चां वैक्रियलब्धिमतामवसेयम्, सर्वेषामविशेषेण तथा मनुजा मनुष्याः पञ्चस्वपि तनुषु संभवन्ति। तद्यथा, औदारिके वैक्रिये आहारके तैजसे कार्मणे च / तत्र वैक्रियं वैक्रियलब्धिभताम्, आहारकं चतुर्दश पूर्ववेदिनाम्, औदारिकतैजसकार्मणानि सुप्रतीतानि शेषास्त्वेक द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियतिर्यचः प्रत्येकं तिसृषु तिसृषु औदारिकतैजसकार्मणरूपासु तनुषु वेदितव्याः, सिद्धा व्यपगतसकलकर्ममलकलङ्का पुनरविग्रहा विग्रहरहिताः, अशरीरा इत्यर्थः / / 4 / / तदेव किमादिपदैः प्ररूपणाकृता / संप्रति सत्पदाऽऽदिपदैः प्ररूपणा कर्त्तव्या सत्पदाऽऽदीनि च पदान्यमूनि-"संतपयरूवणया, दव्वपमाणं च खित्तफुसणा य / कालो य अंतरं भागभाव अप्पाबहुं चेव / / " तत्र प्रथमतः सत्पदरूपणां विदधातिपुढवाई चउ चउहा, साहारणवणं पि संततं सययं। पत्तेयपज्जऽपज्जा, दुविहा सेसा उ उववन्ना / / 5 / / इह ये पृथिव्यादयश्चत्वारः पृथिव्यप्ते जो वायुरूपाः, प्रत्येक सूक्ष्मबादरपर्याप्ताऽपर्याप्तभेदाचतुर्द्धा चतुःप्रकाराः, सर्वभेदसंख्यया षोडशसंख्या, ततो भूयः सर्वेऽपि प्रत्येक द्विधा द्विप्रकाराः। तद्यथाप्रागुत्पन्ना उत्पद्यमानाश्च, प्रागुत्पन्नोत्पद्य मानता च प्रज्ञापकापेक्षया वेदितव्या / ते सर्वेऽपि सततमनवरतम् (संततं ति) यथायोगं सर्वत्रा वचनलिङ्गपरिणामेन संबद्ध्यन्ते, सन्तो विद्यमानाः सर्वकालं सन्तः प्राप्यन्ते इत्यर्थः। तथा साधारणवनमपि साधारणवनस्पतयोऽपि पर्याप्त -सूक्ष्मबादरभेदभिन्नाः प्रत्येकं द्विधा, प्रागुत्पन्ना उत्पद्यमानाच, सततं सन्तो विद्यमानाः सर्वेऽपि सर्वदैव सन्तइत्यर्थम्। तथा-(पत्तेय इत्यादि) प्रत्येकबादरवनस्पतयः पर्याप्ताऽपर्याप्ताश्च / प्रत्येक द्विधा-प्रागुत्पन्नाः, उत्पद्यमानाश्च। सततं सन्तः सर्वकालंसतःप्राप्यन्ते इति यावत्।शेषास्तु द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाः प्रत्येकं पर्याप्ताऽपर्याप्ताश्च, संज्ञिपञ्चेन्द्रियाः पुनः पर्याप्ताः प्रागुत्पन्नाः सततं सन्तः, उत्पद्यमानकास्तु भाज्याः, तुशब्दस्यानेकार्थत्वात् संज्ञिनो लब्ध्यपर्याप्तकाः प्रागुत्पन्ना उत्पद्यमानाश्च भाज्याः / कथमेतदवसीयते? इति चेत् / उच्यते-इह संज्ञिना लब्ध्यपर्याप्तकानावस्थामन्तर्मुहुर्त्तमात्रा, तेषामायुषोऽन्तर्मुहूर्तमात्रत्वात्। अन्तरं चैतेषामुत्पत्तिमधिकृत्योत्कर्षतोद्वादशमुहूर्ताः ततस्ते प्रागुत्पन्ना अपि सत्तायां भाज्याः। ननु द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाः अपि लब्ध्यपर्याप्तका अन्तर्मुहुर्तायुषः, अन्तरमपि च तेषामन्तर्मुहूर्तमात्रमन्य-त्रो ष्यते, ततः कथं तेऽपि प्रागुत्पन्ना भाज्या न भवन्ति? नैष दोषः। तेषामवस्थानस्य बृहत्तरोन्तर्मुहुर्त प्रमाणत्वात्तदायुषस्तावन्मात्रात्वात् / कथंमिदमवसितमिति चेत् ? उच्यते-ग्रन्थान्तरे नित्यराश्यधिकारे नित्यराशिभिः सह तेषां यौगपोनाभिधानात् / / 5 / / तदेवं चतुर्दशविधान सत्पदप्ररूपणया प्ररूप्य सांप्रतमेतेषा मेवान्तिमो भेदश्चतुर्दशप्रकारः सत्पदप्ररूपणया प्ररूपयितव्यः; स च चतुर्दशधा गुणस्थानकभेदाद्भवति, ततो गुणस्थानकान्येव सत्पदप्ररूपणया प्ररूपयतिमिच्छा अविरयदेसा, पमत्तअपमत्तया सजोगीय।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy