________________ जीयववहार 1514 - अभिधानराजेन्द्रः - भाग 4 जीयववहार अपरिज्ञा प्रत्याख्यानपरिज्ञाया अग्रहणं, गृहीताया वा भंड / सूत्रो विभक्तिलोपः, आर्षत्वात्। तथा कालाऽऽदिषु प्रतिक्रामतो व्यावर्तमानस्य प्रायश्चित्तं निर्विकृतिकम्। किमुक्तं भवति ? यदि नमस्कारपौरुष्यादि दिवसप्रत्याख्यानं न गृह्णाति, गृहीत्वा वा विराधयति, तथा स्वाध्यायं प्रस्थाप्य यदि कालस्य न प्रतिक्रामति, न कालप्रतिक्रमणनिमित्तं कायोत्सर्ग करोति / आदिशब्दात् तु येषु स्थानेषु ईयर्यापथिकया प्रतिक्रमितव्यं, तेषु चेत्तथा न प्रतिक्रामति, तहि प्रायश्चित्तं निर्विकृतिकमिति। तथा (निव्वीतिय इत्यादि) 'आवासे' आवश्यके एकाऽऽदिका -योत्सर्गाकरणे, सर्वाऽऽवश्यकाकरणे च यथासंख्यं निर्विकृतिकपूर्वार्धाऽऽचामाम्लक्षणानि / इयमा भावना-आवश्यके यद्ये कं कायोत्सर्ग न करोति ततः प्रायश्चित्तं निर्विकृतिकं कायोत्सर्गद्वयाकरणे पूर्वार्द्धम्, त्रयाणामपि कायोत्सर्गकरणानामकरणे आचाम्लम सर्वस्यापि चाऽऽवश्यकस्याकरणेऽभक्तार्थमिति / / 11 / / जं जस्स व पच्छित्तं, आयरियपरंपराएँ अविरुद्धं / जोगा य बहुविगप्पा, एसो खलु जीयकप्पो उ|१२|| यत्प्रायश्चित्तं यस्याऽऽचार्यस्य गच्छे आचार्यपरम्पराऽऽगतत्वेनाविरुद्धं,न पूर्वपुरुषमर्यादाऽतिक्रमण विरोधभाक्। यथाऽन्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे, कृतस्य वा भङ्गे प्रायश्चित्तमाचाम्लम्, तथाऽऽवश्यकगतैककायोत्सर्गाकरणे पूर्वार्द्ध, कायोत्सर्गद्वयाकरणे एकाशनकमित्यादि / तथा ये योगा उपधानानि बहुविकल्पा गच्छभेदेन बहुभेदाः, आचार्यपरम्पराऽऽगतत्वेन चाविरुद्धाः, यथा नागिलकुलवंशवर्तिनां साधूनामाचारादारभ्य यावदनुत्तरोपपातिकदशाः, तावन्नास्ति आचाम्ल, केवलं निर्विकृति-केन ते पठन्ति, आचार्यनुज्ञाताश्च विधिना कायोत्सर्ग कृत्वा विकृतीः, परिभुञ्जतेः तथा कल्पव्यवहारयोः, चन्द्रप्रज्ञप्तिसूर्य प्रज्ञप्त्योश्च केचिदागाढ़ योगं प्रतिपन्नाः, अपरे त्वनागाढमिति। (एसो खलु जीयकप्पो उ इति) एष सर्वोऽपि खलु गच्छभेदेन प्रायश्चित्तभेदो, योगभेदश्चाऽऽचार्यपरम्पराऽऽगतो जीतव्यव-हारो वेदितव्यः / व्य०१ उ०१द्वार अथ कोऽसौ जीतव्यवहारं प्रयुजीतेत्यत आह - जो आगमे य सुत्ते, य सुण्णत्ते आण-धारणाए य। सो ववहारं जीए–ण कुणइ वत्ताणुवत्तेण / / 673 / / य आगमेन, सूत्रेण च, गाथायां सप्तमी प्राकृतत्वात् तृतीयाऽर्थे / तथा आज्ञया, धारणया च शून्यो रहितः, स जीतेन वृत्तानुवृत्तेन / अस्य व्याख्यानं प्राग्वत्। व्यवहारं करोति। वृत्तानुवृत्तत्वमेव भावयतिअमुतो अमुतत्थ कतो, जह अमुतस्स अमुतेण ववहारो। अमुतस्स विय तध कतो, अमुतो अमुतेण ववहारो॥६७४|| तंचेवऽणुमजंतो, ववहारविहिं पउंजति जहुत्त। जीएण एस भणितो, ववहारो धीरपुरिसेहिं // 675|| अमुको व्यवहारोऽमुके कारणे समुत्पन्नेऽमुकस्य पुरुषस्यामुकेनाऽऽचार्येण यथा कृतः; एतेन वृत्तत्वं भावितं, तथैवामुकस्य यादृशे एव कारणेऽमुके नाऽऽचार्येणामुको व्यवहारः, कृतः, एतेनानुवृत्वमुपदर्शितं; तमेव वृत्ता नुवृत्तं जीतमनुपजन् आश्रयन् यथोक्त व्यवहारविधिं यत्प्रयुङ्क्ते एष जीतेन व्यवहारो धीरपुरुषैर्भणितः। धीरपुरिसपण्णत्तो, पंचमतो आगमो वि हु पसत्थो। पियधम्मऽवज्ञभीरू-पुरिसज्जायाणुचिण्णो य॥६७६|| एष पञ्चमको जीतव्यवहारो धीरपुरुषप्रज्ञप्तः तीर्थकरगणधरैः प्ररूपित आगमः पञ्चविधः, व्यवहारसूत्राऽऽत्मकतया श्रुतज्ञानविदश्चतुर्दशपूर्विणः, तैः कालं प्रतीत्य प्रशस्तः प्रशंसितः, तथा प्रियधर्मभिरवद्यभीरुभिः पुरुषजातैः अनुचीर्णः, तस्मात्सत्यतया प्रत्येतव्यः, अर्थतः सूत्रतश्च यथाक्रमं तीर्थकरगणधरैरभिहितत्वात्। तथाहि - ''पंचविहे ववहारे पण्णते।'' इत्यस्य सूत्रस्यार्थस्तीर्थकरैर्भाषितो, गणधरैश्चश्रद्धाय सूत्रीकृतः, अत एवोत्तमैः पुरुषजातैराचीर्णः ततः कथमत्रा न प्रत्ययः? इति। अधुना जीतव्यवहारनिदर्शनमाह -- जो जध कालाऽऽदीणं, अपडिकंतस्स णिव्विगइयं तु। मुहणंतफिडिय पाणग-संवरणे एवमादीसु // 677|| स जीतव्यवहारो, यथेत्युदाहरणमात्रोपदर्शने, कालादिभ्यः, आदिशब्दात् स्वाध्यायऽऽदिपरिग्रहः / अप्रतिक्रान्तस्य / गाथायां षष्ठी पञ्चम्यर्थे / मुखानन्तिके मुखपोत्तिकायां, स्फिटितायां, मुखपोत्तिकामन्तरेण इत्यर्थः। तथा पानकस्यासंवरणे पानाऽऽहारप्रत्याख्यानकरणे निर्वेिकृतिकं प्रायश्चित्तम्। एगिदिऽणंतवज्जे, घट्टणतावेऽणगाढऽऽगाढे य। णिब्दीतिगमादीयं,जा आयामंत उद्दवणे॥६७५|| एकेन्द्रियस्यानन्तकायिकवर्जस्य, पृथिव्यप्तेजोवायुप्रत्येक-वनस्पतीनामित्यर्थः। घट्टने अनागाढे, तापने आगाढे च, निर्विकृतिकाऽऽदिकं, यावदाचाम्लमपद्रावणे जीविताद् व्यपरोपणे / इयमा भावना--- पृथिवीकायिकाप्कायिकतेजस्कायिकवायुवन स्पतीनां घट्टने निर्विकृतिकम्, अनगाढापरितापने पुरिमार्द्धम्, आगाढपरितापने एकाशनम् - अपद्रावणे आचामाम्लमिति। विगलिंदियघट्टणता-वडणगाढऽऽगाढे तहेव उदवणे। पुरिमडातिकमेणं, नेयव्वं जाव खवणं तु // 676 / / पंचिदियघट्टणता-वऽणगाढाऽऽगाढे तहेव उद्दवणे। एक्कासण आयाम,खवणं तह पंचकल्लाणं / / 680 / / विकलेन्द्रियाणां द्वीन्द्रियप्रभृतीनां घट्टने, तापने अनागाढे आगाढे च तथा अपद्रावणे, क्रमेण पूर्वार्धाऽऽदिक्रमेण ज्ञातव्यं यावत् क्षपणम् / किमुक्त भवति ? घट्टने पूर्वार्द्धम्, अनागाढपरितापने आचामाम्लम्, आगाढपरितापने निर्विकृतिकम्, अपद्रावणे क्षपणमिति॥६७६ / / तथा पञ्चेन्द्रियाणां घट्टने एकाशनमकम्, अनागाढपरितापने आचामाम्लम्, आगाढपरितापने क्षपणमभक्तार्थम्, अपद्रावणे पञ्चकल्याणनिर्विकृतिकपूर्वार्द्वकाशनकाचामाम्लक्षपणरूपम्। एमाईओ एसो, नातव्वो होइ जीयववहारो। आयरियपरंपरए --ण आगतो जो व जस्स भवे // 681 / / एवमादिक एष जीतव्यवहारो भवति ज्ञातव्यः, यो वा यस्य आचार्यपरम्परकेणाऽऽगतः स तस्य जीतव्यवहारो ज्ञातव्यः। बहुसो बहुस्सुतेहिं, जो वत्तो न य निवारितो होति। वत्तऽणुवत्तपमाणं,जीएण कयं हवति एयं / / 652 / / यो व्यवहारो बहुश्रुतै बहुं शोऽनेक वारं वृत्तः प्रवर्तितो, न चान्यै बहुश्रुतैर्भवति विद्यते निवारितः, एतेन वृत्तानुवृत्तं जी -