________________ जीयघर 1513 - अभिधानराजेन्द्रः - भाग 4 जीयववहार जीयधर त्रि० (जीतधर) सूत्राधरे, आर्यगोत्रोत्पन्ने शाण्डिल्यशिष्ये स्वनामख्याते आचार्य च / जी०। 'संडिल्लं अज्जजीयधरं / ' आरात्सर्वहेयधर्मेभ्योऽगि यातमार्यम्। जीतमिति सूत्रमुच्यते। जीतं, स्थितिः, कल्पो, मर्यादा, व्यवस्था इति हि पर्यायाः। मर्यादाकारणं च सूत्रमुच्यते / तथा 'धृ' धारणे। ध्रियते, धारयतीति धरः। "लिहाऽऽदिभ्यः" / / 51 / 50 / / इत्यच् प्रत्ययः / आर्यजीतस्य धर आर्यजीतधरः, तुम।अन्येतुव्याचक्षतेशाण्डिल्यस्यापि शिष्य आर्यगोत्रो जीतधरनामा सूरिरासीत्, तं वन्दे इति। नं. / जीयलक्खण न० (जीवलक्षण) जीवस्याऽऽत्मनो, लक्षणं-लक्ष्यते ज्ञायते यदन्यव्यवच्छेदेनेति तल्लक्षणम्,असाधारणं स्वरूपं, जीवलक्षणम् / जीवस्यासाधारणे स्वरूपे, कर्म० / तच्च ज्ञानाऽऽदिक उपयोगः, अत एवोक्तमन्यत्र- 'उपयोगलक्षणो जीवः" इति। कर्म० 4 कर्म०। जीयवं त्रि० (जीवितवत्) प्राणिनी, "वप्प ! ताय ! जीयवं' जीवितवन् !, प्रश्न०१ आश्र० द्वार। जीयववहार पुं० (जीतट्यवहार) द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवाऽनुवृत्त्या संहननवृत्त्यादिपरिहाणिमवेक्ष्य यत्प्रायश्चित्तदानं, यो वा यत्रा गच्छे सूत्रातिरिक्त कारणतः प्रायश्चित्तव्यवहार-प्रवर्तितो बहुभिरन्यैश्चानुवर्तितं तज्जीतम् / स्था० 5 ठा०२ उ०। भ० / जीतं श्रुतोक्तादपि हीनमधिकं वा परम्परयाऽऽचीर्ण , तेन व्यवहारो जीतव्यवहारः / ध०२ अधि० / व्यवहारभेदे, "जीए य पंचमए।" जीत गीतार्थसंविग्नप्रवर्तितशुद्धव्यवहारः। पञ्चा०१६ विव०। तथाचकयपवयणप्पणामो, वुच्छं पच्छित्तदाणसंखेवं / जीयव्ववहारगयं, जीयस्स विसोहणं परमं / / 1 / / प्रकर्षेण परसमयाद् यथावस्थितभूरिभेदप्रभेदेरुच्यन्ते जीवाजीवाऽऽदयः पदार्था अनेनास्मिन्निति वा प्रवचनम् --सामायिकाऽऽदिविन्दुसारपर्यन्तं मुख्यतः श्रुतज्ञानम् उपचारात् तत्रोपयुक्तश्चतुर्विधः सङ्घोऽपिः, कृतः प्रवचनस्य प्रणामो येन स कृतप्रवचनप्रणामोऽहं, वक्ष्ये प्रायश्चित्तदानसंक्षेपम्, पाप छिनत्तीति पापच्छित्। अथवा प्रायश्चित्तम् - जीवं, मनो, वाऽतीचारमलमलिनितं शोधयतीति प्रायश्चित्तम्। आर्षत्वात् प्राकृतेन 'पच्छित्तं'। उक्तं च– 'पाव छिदइ जम्हा, पायच्छित्तं ति भन्नए तम्हा। पाएण वा वि चित्तं, सोहेई तेण पच्छित्त' / / 1 / / तस्य दानं, तस्य संक्षेपः सङ्गहस्तं, जीतव्यवहारकृतम्, जीतव्यवहारः"वत्तऽणुवत्तपवत्तो," इत्यग्रे तनगाथयैव वक्ष्यमाणलक्षणः, तेन कृतमुपदिष्ट, जीतव्यवहारगतं वा जीतव्यवहारात् प्रविष्टम् जीवस्य, "जीव प्राणधारणे" जीवति, जिजीव, जीविष्यतीत्युपयोगलक्षणत्वेन त्रिकालमपि जीवनाजीवः, तस्य, विशेषेण शोधनम् ! विशेषश्चायम्द्विजाऽऽदयोऽपि स्थूलबुद्धयः क्वापि प्राणिवधादी सामान्येन प्रायश्चित्तं ददति, न पुनः संघटनपरितापनोपद्रवाऽऽदिभेदैः सर्वेषामेकेन्द्रियाऽऽदिास पर्यन्तानां विषयभेदेन प्रायश्चित्तं दातुं जानन्ति। न ह्ययमुपदेश स्तदीयशास्त्रेष्वस्ति / इह पुनः प्रवचने सर्वमस्ति / अत एव यथोपलसक्षारारिष्टकोदकाऽऽदिभिर्वस्त्रमलस्य शोधनं, तथाऽापि कर्ममलमलिनस्य जीवस्य जीतव्यवहारोपदिष्ट विशोधनम्: परम-- प्रकृष्टम, अनन्यसदृशम्, नान्यत्रीवविशिष्टः प्रायश्चित्तविधिरस्तीत्यर्थः / इह शिष्यः प्राह -विशेषणं हि व्यवच्छेदकं भवति, यथा नीलोत्पलनित्यत्रा नीलविशेषणं, उत्पलशब्दस्य रक्तोत्पलाऽऽदिभिरपि सामाना- | धिकरण्ये संभवति तद्ध्यवच्छेदाय, तत् किमत्राप्यन्येऽपि व्यवहाराः सन्ति, येन जीतव्यवहारगतमिति विशेष्ये? गुरुराह -- सन्त्यन्येऽप्यागमश्रुताऽऽज्ञाधारणा व्यवहाराख्याश्चत्वारो व्यवहाराः, तद्व्यवच्छेदायेह जीतपदम्। जीत०। येष्वपराधेषु पूर्वमहर्षयो बहुना तपः प्रकारेण शुद्धि कृतवन्तः, तेष्वपराधेषु सांप्रतं द्रव्यक्षेत्राकालभावान् विचिन्त्य संहननाऽऽदीनां च हानिमासाद्य तदुचितेन केनचित्तपःप्रकारेण यां गीतार्थाः शुद्धिं निर्दिशन्ति, तत् समयपरिभाषया जीतमुच्यते / अथवा यत्र गच्छे सूत्रातिरिक्तं न्यूनं वा कारणतः प्रायश्चित्तं प्रवर्तितं तद् जीतं, तस्य व्यवहारो जीतव्यवहारः।। सचायम्"वत्तऽणुवत्तपवत्तो, बहुसो आसेविओ महजणेणं। एसो हुजीयकप्पो, पंचमओ होइ नायव्यो॥१॥" वृत्तं पात्राबन्धग्रन्थिदानाऽऽदिक एकदा एकेन वा जातः, ततोऽनुवृत्तं पुरुषान्तरं यावत्, ततः प्रवृत्तं पुरुषप्रवाहेन अतर एव बहुश आसेवितो महाजनेन / बहुश्रुतनिर्वहने भाष्यकृताऽप्युक्तम्"वत्तो नाम एक्कसि, अणुवत्तो जो पुणो वितियवारं। तइयव्वारे पॅवत्तो, सुपरिग्गहिओ महजणेणं / / 1 / / बहुसो बहुस्सुएहिं, जो वत्तो न य निवारिओ होइ। वत्तऽणुवत्तपमाणं, जीएण कयं हवइ एयं // 682 / / " एष जीतकल्पः पञ्चमो व्यवहारो भवति ज्ञातव्यः। जीत०। प्रव० / व्य०। व्यवहारकल्पे जीतव्यवहारं दर्शयतिददुरमादिसु कल्ला--णयं तु विगलिदिएसुऽभत्तट्ठो। परियावणे एतेसिं, चउत्थमायंबिला हुंति / / 10 / / द१रोमण्डूकः, तदादिषु तत्प्रभृतिषु, मकारोऽलाक्षणिकः, प्राकृतत्वात्। तिर्यकपञ्चेन्द्रियेषु, जीविताव्यपरोपितेष्वितिशेषः / कल्याणकं त्विति। तुशब्दो विशेषणार्थः / स चैतद्विशिन-ष्टिपञ्चकल्याणप्रायश्चित्तं (विगलिंदिएसुऽभत्तट्ठो इति) विकलान्यसंपूर्णानि इन्द्रियाणि येषां ते विकलेन्द्रियाः-एकद्वित्रिचतुरिन्द्रियाः, तत्र- 'व्याख्यानतो विशेषप्रतिपत्तिः" इत्येकेन्द्रिया अनन्तवनस्पतिकायिका द्रष्टव्याः / तेषु अभक्तार्थ एव--उपवासः प्रायश्चितम्। (परियावणे एतेसिं इत्यादि) एतेषां दर्दुरादीनां परितापनायां यथासंख्यं चतुर्थाऽऽचामाम्ले प्रायश्चित्ते भवतः / इयमत्रा भावना-यदि दर्दुराऽऽदीन तिर्यक् पञ्चेन्द्रियान् गाद परितापयति, ततोऽभक्तार्थः प्रायश्चित्तम्। अथ विकलेन्द्रियान् अनन्तवनस्पतिकायप्रभृतीन गादं परिता पयति, तत आचामाम्लम् / उपलक्षणमेतत् तेनैतदपि जीत व्यवहारानुगतमवसेयम् यदि दर्दुरप्रभृतीन तिर्यक्पञ्चेन्द्रियान् मनाक् संघट्टयति, तत एकाशनकम्, अथाऽऽगाढं परितापयति, तत आचामाम्लम्; तथा अनन्तवनस्पतिकायिक चतुरिन्द्रियाणां संघट्टने पूर्वार्द्धम्, एतेषामेवानागाढपरितापने एकाशनं, तथा पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां संघट्टने निर्विकृतिकम्, अनागाढपरितापने पुरिमार्द्धम्, आगाढपरितापने एकाशनं, जीविताद् व्यपरोपणे आचामाम्लम्॥ इत इदमपि जीतमेवेति दर्शयतिअपरिण्णा कालाऽसु, अ पडिकंतस्स निव्विगइयं तु / निव्वीतिय पुरिमड्डो, अंवलि खवणा य आवासे / / 11 / /