SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ जीय 1512 - अभिधानराजेन्द्रः - भाग 4 जीयकप्पिय जीय न० (जीत) आचरिते, "जीयमिणं आणाओ।"पञ्चा०१५ विव०। स्था०। जीत० / आ० म०। आचारे, कल्प०७ क्षण | "अप्पेगइया जीयमेयं ति। जीतमेतत् कल्प एव इति कृत्वा / रा० / "कुच्छिंसी गब्भत्ताएऽवकंते तं जीयमेयं तीअपचुप्पण्णमणागयाणं " / जीतमेतत् आचार एष इत्यर्थः / कल्प०२क्षण।सर्वोनुचीर्णे, विशे० अथ जीतमिति कोऽर्थ इत्यत आह - "बहुजणमाइण्णं पुण, जीयं उचियं ति एगहूँ।" बहु भिर्जनैर्गीतार्थराचीर्ण बहुजनाऽऽचीर्णमिति वा, उचितामिति वा एकार्थम् / किमुक्तं भवति ? बहुजनाऽऽचीर्णं नाम जीतमिति / व्य०१ उ० / प्रभूतानेकगीतार्थवृत्तायां मर्यादायाम, उपचारात्तत्प्रतिपादके ग्रन्थे च / जीतं नाम-प्रभूतानेकगीतार्थ कृता मर्यादा, तत्प्रतिपादको ग्रन्थोऽप्युपचाराज्जीतम्। व्य० 1 उ०। मर्यादाकारणे सूत्रोच। जीतमिति सूत्रामुच्यते, जीतं स्थितिः, कल्पो मर्यादा, व्यवस्थेति हि पर्यायाः। मर्यादाकारणं च सूत्रमुच्यते। नं०। *जीव पुं० प्राणधारणे, प्राणिनिच। जी०। "जीय प्स विसोहणं परमं।" 'जीव' प्राणधारणे, जीवति, जिजीव, जीविष्यतीत्युपयोगलक्षणत्वेन त्रिकालमपि जीवनाजीवस्तस्य विशेषेण शोधनम् / जी० 1 प्रति०। *जीवितन० "यावत्तावजीविताऽऽवर्तमानावटप्रावारकदेवकुलैवमेवेवः1" ||8/1 / 271 / / इति प्राकृतसूत्रेण सस्वरस्य वकारस्यान्तवर्तमानस्य लुग० वा / प्रा०१पाद। जीविते, "जीयकामत्थधम्महेउं।" जीवश्च जीवितं जीतं वा। प्रश्न०१ आश्र० द्वार। जीवितमिव जीवितम्। श्रुते, मर्यादायां च / विशे० / एएहि कारणे हिं, जीयं ति कयं गणहरेहिं / / 1113|| (जीयं ति) जीवितं श्रुतं द्वादशाङ्गम्। अयमत्राभिप्रायः यथा जीवस्य जीवितमात्र नकदाचिद्व्यवच्छिद्यते, तथा अव्यवच्छित्तिनयाभिप्रायतः श्रुतमपि न कदाचिद्व्यवच्छिद्यते, ततो जीवितमिव जीवितं श्रुतमुच्यते, तद्रणधरैः सुखग्रहणाऽऽदिकारणेभ्यः कृतम्। अथवा-न सुखाऽऽदिकारणेभ्य एव किं तर्हि? (जीयं ति) जीवितं मर्यादा, ततश्च गणधराणां जीवितं धर्मो मदिवेयं यदुत तन्नामकर्मोदयतस्तत्स्वाभाव्यात् कर्तव्यमेव तैः श्रुतविरचनम्। अथवा- (जीय ति) जीवितमाचरितम्। कल्प-एवायं सर्वगणधराणां यत्तैः संदर्भणीयमेव श्रुतम्। विशे०। होइ सुहं जीयं पि य, कायव्वमिदं जओऽवस्सं // 1116|| सव्वेहिँ गणहरेहिं, जीयं ति सुयं जओ न वोच्छिन्नं / गणहरमज्जाया वा, जीयं सव्वाणुचिन्नं वा।।१११७॥ (जीयं पि य त्ति) जीवितं श्रुतम् अथवा-जीवितं मर्यादा, यदि वाजीत सर्वानुचीर्णम्। कोऽर्थः? इति / आह-''कायवं" इत्यादि / कर्तव्यमिदं, यतोऽवश्यं सर्वैर्गणधरैरित्युत्तरगाथायां संबन्धः / ततो जीवितं द्वादशाङ्ग श्रुतं, मर्यादा, सर्वगणधराऽऽ चीर्ण वेदमिति कृत्वा कृतं ग्रथितं गणधरैरिति, तदेव 'जीय' इति शब्दार्थायं भवतीति ताँस्त्रीनप्यर्थान तस्य दर्शयति- "जीयं ति सुयं" इत्यादि। विशे०। आ०म०। जीयकप्पपुं० (जीतकल्प) जीतेनावश्यंभावेन कल्प आचारो जीतकल्पः।। कल्प०५ क्षण। पूर्वपुरुषाचरितलणे आचारे, पञ्चा०६ विव०। तदात्मके कल्पभेद, पं० भा० / स चानुज्ञाकल्पस्य गौणं नामान्तरं, तथा च पञ्चकल्पभाष्येऽनुज्ञाकल्पस्य विंशतिनामधेयान्यधिकृत्य- | "तित्थकरहिं कयमिणं, गणधारीणं तु तेहि सीसाणु / तत्तो परंपरेणं, आइण्णं तेण जीयं तु // 1 // " पं०भा० / जीतकल्प आचरितकल्पो जिनप्रतिबोधनलक्षणः / स्था० 10 ठा० / जीतमाचरितं, तस्य कल्पो वर्णना प्ररूपणा जीतकल्पः / आचारवर्णने, तत्प्रतिपादके जिनभद्रगणिक्षमाश्रमणरचिते छेदश्रुतविशेषे च। जीत०। इय एस जीयकप्पो, समासओ सुविहियाणुकंपाए। कहिओ देयमयं पुण, पत्ते सुपरिच्छियगुणम्मि।।१७३। इत्यमुना प्रकारेणाऽऽद्यगाथापञ्चकेन शास्त्रप्रस्तावनामभिधाय चतर्राभिर्गाथाभिराद्यस्य, चतसृभिद्विततीयस्य, तिसृभिस्तृतीयस्य, द्वाभ्यां चतुर्थस्य, पञ्चभिः पञ्चमस्य, "उद्देसऽज्झयणेसुं, खंधंगेसु कमसो पमायस्स।" इति गाथातः प्रारभ्य 'झोसिजइ सुबहु पि हु।' इति गाथापर्यन्तीकृत्याष्टपञ्चाशद्भिर्गाथाभिमा॑नाऽऽचाराऽऽदिपञ्चकातिचारगोचरस्य षष्ठस्य तिसृभिः सप्तमस्य चतसृभिरष्टमस्य सप्तभिनवमस्य नवभिर्दशमस्य प्रायश्चित्तस्य व्याख्यानेन एष सर्वसमुदायाऽऽत्मको जीतकल्पः, जीतमाचरितं, तस्य कल्पो वर्णना प्ररूपणा, समासतः संक्षेपतः सुविहितानुकम्पया, शोभनं विहितमनुष्ठानं येषां ते सुविहितास्तेषामनुकम्पया कथितः प्ररूपितः, देयः पुनरयं पात्रे सुपरीक्षितगुणे जात्यकाञ्चनवत्तापच्छेदनिकषसहे संविज्ञे गीतार्थे, न पुनरन्यस्मिन्येनजीतकल्पदायकग्राहकौ द्वावपि कर्मनिर्जरिया शुद्धयतः सिद्धयतश्चेति / जीतः / तथा च जीतकल्पवृत्तौ, तिलकाऽऽचार्यः"इति नुतिकृत्यकृतः श्रुत रहस्यकल्पस्य जीतकल्पस्य / विवरणलवं करिष्ये, स्वस्मृतिबीजप्रबोधाय // 6 // " इह निशीथकल्पव्यवहाराऽऽदीनि भूयासि छेदश्रुतानि, तेषु चातिविस्तरेण प्रायश्चितान्यभिधीयन्ते, प्रतिदिनं च कल्पं तदवगाहसामर्थ्य प्रतिग्रन्थं नानाऽतिचारा-नाश्रित्य पुरुषाद्यौचित्ये न काऽपि क्वाप्युपपत्तिरुच्यते / ततः किं कुत्रा दानं दीयते ? कथमात्मनः परस्य वाशुद्धिर्भवति? इति व्यामुह्यन्त्यन्तेवासिनोऽतस्तेषां सुखेन प्रायश्चित्तविधिप्रतिपत्तये पूज्यश्रीजिनभद्रगणिक्षमाश्रमणः समस्तच्छेदग्रन्थानामुपनिषत्कल्पं तदपेक्षयाऽत्यल्पं जीतकल्पं कृतवान् / परं द्विधा विनेयाः-योग्याः, अयोग्याश्च। तत्रा योग्याः ये रङ्गत्संवेगतरङ्गिणीतरङ्गप्रक्षालितान्तरमलाः परिमलितबुद्धयः समस्तसिद्धान्तमहार्णवपारीणाः परिणतवयसः सार्वपथीनप्रतिभाप्राग्भारसारचेतसः सततमुत्सर्गापवादगोचराऽऽचारचतुराश्चिरप्रव्रजिताः। ये त्वेत द्विपरीतास्तिन्तिणिकाऽऽदयश्चते अयोग्याः। यदुक्तम् -"तितिणए चलचित्ते, गाणंगणिए य दुबलचरित्ते / आयरियपारिभासी, वामावट्टे य पिसुणे य॥१॥ इति। तिन्तिणिका मुहुर्मन्दमन्दस्वरभाषणशीलाः गाणङ्गणिका ये षण्मासादन्तर्गयाणाद् गणं संक्रामन्ति, एतेषामयं नदातव्यः / यतः-"आमे घडे निहत्तं, जहा जलं तं घड विणासेइ। इय सिद्धतरहस्सं, अप्पाहारं विणासेइ॥१॥' अतो योग्यानामेव दातव्यः। जीत। जीयकप्पिय पुं० (जीतकल्पिक) जीतेनावश्यंभावेन कल्प आचारो जीतकल्पः, सोऽस्ति यस्य स जीतकल्पिकः।कल्प०५ क्षण।जीतकल्प आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते यस्य स जीतकल्पिकः / जीतकल्पवति, स्था० 1 ठा०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy