________________ जिणवयण 1504 - अभिधानराजेन्द्रः - भाग 4 जिणवयण यद्वा, यथा च ध्वंसहेतोस्तदतकरणविरोधादकिञ्चित्करत्वं, तथा स्थित्युत्पादहेत्वोर्विशरारुधर्मणः स्थास्नुताकरणे विनश्वर स्वभावः किं न विनश्येत् ? अथासौ स्थास्नुस्तथापि हि स्थितिहेतोरानर्थक्यं, स्वत एव तस्य स्थितेः / तथोत्पत्तिहेतुरपि यदि भावं करोति, तदा न स्यात्किञ्चित्करत्मेवभावस्य,स्वयमेव भावाभावरूपत्वात् / अथाभावं भावरूपतां नयति, तर्हि नाशहेतुरपि भावमभावीकरोतीति कथमञ्चित्करः स्यात् ? न ह्यभावस्य भावीकरणे भावस्य वाऽभावीकरणे कश्चिद्विशेषः संभवी। अत एव च तेषामन्य तमस्य सहेतुकत्वमहेतुकत्वं चाभ्युपगच्छन् सर्वेषां तदभ्युपगन्तुमर्हति, अविशेषात्। न च भिन्नयोगक्षेमत्वात् कार्यकारणयोरेकत्वमनुपपन्नं, स्वभावभेदेऽप्येकत्वप्रतिपत्तेः। सर्वसं वित्क्षणानामे कदोत्पत्ति-विनाशवतामभिन्नयोगक्षेमत्वात कार्यकारणयोरेकत्वमनुपपन्नम्, स्वभावभेदेऽप्टोकत्वेऽपि च परस्परतः पृथभावसिद्धेः / अथात्राभिन्नयोगक्षेमेऽपि प्रतिभास भेदाढ़ेहः, तर्हि यत्रा प्रतिभासाभेदस्तत्रा भिन्नयोगक्षेमत्वेऽप्यभेदः, प्रतिभासभेदाभेदयोवस्तुभेदाभेदव्य वस्थापकत्वात् / समुदायस्य च देशकालभेदाभावात् सकृदेव संवित्त्यात्मनोत्पत्तेरेकत्वं प्रसज्येत। यदिचस्वभावभेदो वस्तु भेदलक्षणं, तदा सन्तानान्तरयोरिव विषयरूपायाः संवित्तेरेकत्वेऽपि प्रत्यक्षेतरयोऽसौ विद्यत इति नानात्वं भवेत् / यदि पुनः स्वभावभेदाविशेषेऽपि विवक्षितज्ञान क्षणाऽऽ कारयोरेव तादात्म्य, न पुनः सन्तानान्तरसवित्तीनामिति प्रत्यासत्तेः कुतश्चिद्वचवस्थाप्यते, तर्हि परस्यापि विवक्षितैकार्थो- पादानोपादेयभूतयोरेवावस्थयोस्तादात्म्य कथञ्चिद् वदतो न कश्चिद्दोषः प्रशक्तिमान् / निराकृतश्चानेकश एकान्तवादः, तत्प्रसाधकहेतुनां सर्वेषामनेकान्तव्याप्ततया विरुद्धताप्रदर्शनात्। तत्प्रदर्शनं चैकान्तवादिनिग्रहस्थान मनेकान्तवादिविजयस्येवेतर-पराजयाधिकरणप्राप्तिलक्षणत्वाद् "विरुद्धहेतुमुलाव्य, वादिन जयतीतरः / " इत्यस्य वचसो न्यायानुगतत्वात् / यदि पुनरसाधनाङ्गवचनं वादिनः पराजया धिकरणभ्युपगम्येत, तदा वादाभ्युपगमं विधाय तूर्णीभावमा ठोणासाधनाङ्गस्यावचना द्वादिनो विजयः किं न स्यात् ? प्रतिवादिनोऽपि स्वपक्षसिद्धिमकुर्वतः कथं न विजयस्तत एव भवेत् ? अय साधनाङ्गावचनमपि निग्रहस्थानं, तर्हि वादिप्रति वादिनोर्योगपद्येन निग्रहादिकरणता भवेत्. तूष्णीभावाविशेषात् / तूष्णींभावोपलम्भेन इतरो विजयवानिति चेत् ? नन्वेवमितरजयस्यान्यतरपराजयाधिकरणतैव प्राप्ता, न च स्वपक्षसिद्धिमकुर्वतः न विजयप्राप्तिः, तदप्राप्तौ च कथं तदेतरस्य पराजयः। यदपीष्टस्यार्थस्य सिद्धसाधनं तस्याङ्ग स्वभावकार्यानुपलम्भलक्षणं हेतुत्रयं पक्षधर्मत्वादि वा औरूप्यंतस्यावचनं निग्रहस्थानं वादिन इत्युक्तम् / तदप्यचारु / प्रतिवादिनोऽपि पक्षधर्मत्वाऽन्यतमस्या नुक्तावसमर्थनेवा विजया प्राप्तेः, तदप्राप्तौ च वादिनो निग्रहस्थानानुपपत्तेरितरजवनान्तरी यकत्वादित रपराजयस्य; एवं हेत्वाभासादेरसाधनाङ्ग स्य वचनं वादिनो निग्रहस्थानमिति प्रतिक्षिप्तमुक्तन्यायाद्रष्टव्यम्। अथ ततः साध्यसिद्धेर भावात्तस्य निग्रहस्थानं प्रतिक्षिप्तम् / उक्तन्यासे च तद् भूविक्षेपादेरसाधनाङ्गकरणस्य ततएव तत्प्राप्तेः, ततो वादिन मसाधनाङ्गमभिदधान कुर्वाणं वा स्वपक्ष सिद्धिं विदधदेव प्रतिवादी तत्पक्षप्रतिक्षेपेण निगृहातीत्येवदेव न्यायोपेतमुत्पश्यामः / एवं प्रतिवादिनोदोपमनुद्भावयतो न निग्रह स्थानं, तावता स्वपक्ष सिद्धिमकुर्वाणस्य वादिनो विजयप्राप्त्यव / योगात्, तत्साधनस्य सदोषत्वसंभवात् / तस्य सदोषत्वेऽपि तदुद्भवनासमर्थत्वा त्प्रतिवादिनो निग्रहस्थानं स्यादिति चेत् / न। दोषवत्साधनाभिधाना द्वादिनोऽपि पराजयाद्यविधकरणत्वाद् द्वयोरपि युगपत्पराजप्राप्तेः / अत एव प्रतिवादिनो दोषस्यानुदा वनमपि न निग्रहस्वानम् / यच्च वादिपक्षसिद्धेरप्रतिबन्धकं पक्षाऽऽदिवचनाधिक्योद्भावनं प्रतिवादि पक्षसिद्धावसाधकतम, तत्सर्व न वादिनः पराजयाधिकरणम् / अन्यथा तत्पादप्रसारि काद्युद्भावमनपि तस्य पराजयाधिकरणं स्यात् / अथ पक्षाऽऽदि वचनस्यासाधनाङ्गत्वात्तदुद्भावने वादिनस्तदपरिज्ञाननिबन्ध नपाजयाधिकरणता, तर्हि यत्सत्तसर्व क्षणिकमिति व्याप्तिवचनादेव शब्दस्यापि क्षणिकत्वसिद्धौ 'संश्च शब्दः' इत्यभिधानं, तत एव तस्य पराजयाधिकरणं भवेत्। न च शब्दे शब्दविप्रतिपत्तिः, येन तन्निरासाय सत्त्वाभिधानं तत्रापुनरुक्तं भवेत् / तद्विप्रतिपत्तौ वा तत्साधकहेतोरसिद्धत्वादिदोषत्रयानतिवृत्तेर्भवतैषाम्युपगमात्तत्साध्यत्वानुपपत्तिः / यदि च संक्षिप्तवचनात् साध्वसिद्धौ तद्विस्तराभिधानं निग्रहस्यान, तर्हि सत्त्वात् क्षणक्षबसिद्धौ कृतकत्वप्रयत्नानन्तरीयकत्वाद्यभिधानं कथं न निग्रहस्थानं स्यात् ? कथं वा कृतकप्रयत्नानन्तरीयकादिषु स्वार्थिकस्य तस्योपादानं तन्न स्यात् ? यत् सत् तत्सर्व क्षणिकमित्यादि साधनवाक्यमभिधाय पक्षादिवचनवत्तत्समर्थनमपि निग्रहस्थानं प्रसक्तम्। असमर्थितमपि स्वत एवंतत्त्वेनोक्तमेव स्वसाध्याबिनाभूतस्य हेतोः प्रदर्शनम्, आसाध्य सिद्धेः सद्भावात्। स्वभावकार्यानुपलम्भप्रकल्पनया तद्वचनं निग्रहस्थानं परस्य प्रसक्तम् / अनुपलब्धावुपलब्धिलक्षण प्राप्तस्येति विशेषणोपादानं निग्रहस्थानम् / अदृश्यानामपि व्याधिभूतगृहादीनां कुताश्चिद्यावृत्तिसिद्धिः / यदि पुनरुपलभ्बानुपलब्धेरेवाभावसिद्धिः, तदा नेदं निरात्मक जीवच्छरीरं, प्राणादिमत्त्वादित्यत्र घटादेरात्मनोऽक्षणिकस्याद्दश्यानुपलम्भादेवातत्सिद्धेः, यत्सत्तत्सर्व क्षणिकमिति सामस्त्येन व्याप्त्यसिद्धितः क्षणक्षयानुमानं नानवद्यं स्यात् / किंचदेशकालस्वभावविप्रकृष्ट भावानुपलब्धेर भावसिद्धौ सर्वत्र सदा सर्वोत्तमोऽग्निमन्तरेणानु पपत्तिमा नितिव्याप्तेरसिद्धेर्न ततस्तत्सिद्धिः स्यात् / न चाध्यक्षानुपलम्भौ तत्कार्यकारणभाव प्रबाधकावभ्युपगम्यमानौ सन्निहितविषयबलोत्पत्तेर विचारकत्वाच यतो व्यापारान् विधातु क्षमी, तत्पृष्ठभाविविकल्पस्य तन्निवर्त्तनसामर्थ्याम्भुपगमे सविकल्पकस्यानिष्ट प्रामाण्यं प्रसज्येत् / अनधिगतार्थाधिगन्तृत्वाद विसंवादित्वाच तस्याऽविकल्पकस्य तु हिंसा विरतिदानचेतसा स्वर्गाऽऽदिफल निवर्त्तनसामर्थ्य स्वभावसंवेदनस्यैव सर्वात्मना वस्तुसंवेदने ऽपि निर्णयवशादेव प्रामाण्योपपत्तेः। अन्यथाऽनु मानस्याप्रामाण्य प्रसक्तेस्तद्गृहीतग्राहितयेत्युक्तं प्रागदृश्यानामनुपलम्भा देवासिद्धावर्थक्रियया सत्ताऽभावाना व्याप्त्येत्येतदपि परस्य निग्रहस्थानमेष, ततः स्वपक्षसिद्धिरितरस्य पराजयाधिकरणं, स च परोपन्यस्तहेतोर्विरुद्धताप्रदर्शनन स्वतन्त्रानिर्दोषहेतुसमर्थनन वा परोपन्यस्तहेत्वसिद्धताऽऽदिदोषप्रतिपादनपुरः सरा कर्तव्या / अन्यथा परपराजयनिबन्धनस्य विजयायोगात् / यदा च विजिगीषुणा स्वपक्षस्थापनेन परपक्षनिरा करणेन च सभाप्रत्यायनं विधेयम्, अन्यथा जयपराजया नुपपत्तेस्तदाऽ सिद्धानै कान्ति-कत्वसाधनदोषोदा वनेऽपि वादिप्रति वादिनोर्जय पराजयौ, प्रकृतार्थपरिसमाप्तेः। अथ स्वपक्ष सिद्धेरभावाद्धेत्वा भासादसाधनाङ्गवचनं वादिनो निग्रह -