________________ जिणवयण 1503 - अभिधानराजेन्द्रः - भाग 4 जिणवयण 6 अ०। जिनवचनादन्यत्र न शरणम् / उक्तश्च - "जन्जरामरणभवेरभिदुते व्याधिवेदनाग्रस्ते / जिनवरवचनादन्यत्रानास्ति शरणं क्वचिल्लोके // 1 // " आचा०१ श्रु०२ अ०१ उ०। जिनवचनस्य सम्यक्त्वं यथाभदं मिच्छादसण - समूहमइयस्स अमयसारस। जिणवयणस्स भगवओ, संविग्गसुहाहिगम्मस्स॥१६७।। भद्रं कल्याणं, जिनवचनस्यास्त्विति संबन्धः / मिथ्यादर्शनसमूहमयस्या ननु यन्मिथ्यादर्शनसमूहमयं, तत् कथं सम्यग्रुपतामालादयति? न हि विषकणिकासमूहमयस्यामृतरूपताऽऽपत्तिः प्रसिद्धा न। परस्परनिरपेक्षसंग्रहाऽऽदिनयरूपाऽऽपन्नसांख्यादिमिथ्यादर्शनाना परस्परं सव्यपेक्षतासमासादितानेकान्तरूपाणां विषकणिकासमूह विशेषमयस्यामृतसंदोहस्यैव सम्यक्त्वाऽऽपत्तेः। दृश्यन्ते हि विषाऽऽदयोऽपि भावाः परस्परसंयोगविशेषमवाप्ताः समासादितपरिणत्यन्तरा अगदरूपतामात्मसात् कुर्वाणाः। मध्याज्यप्रभृतयस्तु विशिष्टसंयोगावाप्तद्रव्यान्तरस्वभावा मृतिप्राप्तिनिमित्त विषयरूपतामासादयन्तः। न चाध्यक्षप्रसिद्धार्थस्य पर्यनुयोगविषयता, अन्यथाऽग्न्यादेरपि दाह्यदहनशक्त्यादिपर्यनुयोगाऽऽपत्तेः / अत एव निरपेक्षा नेगमाऽऽदयो दुर्णयाः सापेक्षास्तुसुनया उच्यन्ते। अभिहितार्थसंवादि चेदं वादिवृषभस्तुतिकृत् सिद्धसेनाऽऽ-चार्यवचनम् - "नयास्तव स्यात्पदलाच्छना इमे, रसोपविष्टा इव लोहधातवः। भवत्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता--हितैषिणः" / / 1 / / इति। अथवा सांख्यादेरेकान्तवादिदर्शनसमूहमयस्य चूर्णनस्वभावस्य, मिथ्यादृष्टिपुरुषसमूहविघटनसमर्थस्य वा, यद्वामिथ्यादर्शनसमूह नैगमाऽऽदयः, एकैकनैगमाऽऽदेनयस्य शतविधत्वात्। 'एक्कक्को विसयविहो' इत्याद्यागमप्रामाण्यादवयवायस्य तन्मिथ्यादर्शनसमूहमयम्, जिनवचनस्य नैगमाऽऽदयः सापेक्षाः सप्तावयवाः, तेषामप्येकैकः शतधा व्यवस्थित इत्यभिप्रायः। समूहरूपसप्तनयावयवोदाहरणापेक्षया च सप्तभङ्गीप्रदर्शनमागमज्ञा विदधति / सामान्यविशेषाऽऽत्म कत्वाद्वस्तुतत्त्वस्य, सामान्यस्यैकत्वात्, तद्विवक्षायां यदेव घटादिद्रव्यं स्यादेकमिति प्रथमभङ्गीविषयः, तदेव देशकालप्रयोजन भेदान्नानात्वं प्रतिपद्यमानं तद्विवक्षया स्यादनेकमिति द्वितीयभङ्गविषयः, तदेवोभयाऽऽत्मकमेकदैशब्देन यदाऽभिधातुं न शक्यते तदास्यादवक्तव्यमिति तृतीयभङ्गविषयः। तदेवावकाशदतृत्वेनासाधारणेनैकमाकाशं, तदेवावगाह्यावगाहकावगाहन क्रियाभेदादनेकं भवति, तद्रूपैर्विना तस्यावस्तुत्वाऽऽपत्तेः / प्रदेश भेदापेक्षयाऽपि च तदनेकम्। अन्यथा हिमवद्विन्ध्ययोरप्येकदेशताप्राप्तेः। तस्य च तथाविवक्षायां स्यादेकं चानेक चेति चतुर्भङ्ग विषयता / यदेकमाकाशं भवतः प्रसिद्ध तदेकस्मिन्नवयवे विवक्षिते एकमवयवस्यावयवान्तराद्भिन्नभिन्नानां वाचकस्य शब्दस्याभावादवक्तव्यं चेति।तथा-विवक्षायां स्यादेकमवक्तव्य चेति पञ्चमभङ्ग विषयः / तत् यदेवै कमाकाशं प्रसिद्धं भवतः तदवगाह्यावगाहनक्रियाभेदादनेकम् / एकानेकत्वप्रतिपादकशब्दाभावादवक्तव्यं चातः स्यादने कमवक्तव्यं चेति षष्टभङ्ग विषयः / यदेवैकमाकाशात्मकतयाऽऽकाशं भवतः प्रसिद्ध, तदेव तथैकमवगाह्यावगाहनक्रि यापेक्षयाऽनेकं, युगपत्प्रतिपादनापेक्षयाऽवक्तव्यं चेति स्यादेकमनेवक्तव्यं चेति सप्तमभङ्गविषयः। एवं स्यात्सर्वगतः स्यादसर्वगतो | घटादिरित्यादि काऽपि सप्तभङ्गी वक्तव्या, यतो य एव पार्थिवाः परमाणवो वटस्स एव विससाऽऽदिपरिणति वशाज्जलानिलानलावन्यादिरूपतामात्मसात्कुर्वाणाः स्यात् सर्वगतो घट इत्यादि सप्तभङ्ग विधवा यथोक्तन्वायात् कथं नासादयन्ति ? न च घटपरमाणूनां पुद्गल-- रूपतापरित्यागे पूर्वपर्यायापरित्यागे च घटपर्यावाऽऽपत्तिः, क्षणिकाक्षणिकै कान्तयोरर्थक्रिवानुपपत्तेर सत्त्वापत्तेः, परिणामिन एव सुवर्णात्मना ऽवस्थितस्य केयूराऽऽत्मकविनाशमनुभवतः कटकाद्यात्मनोत्पद्यमानस्य वस्तुनः सत्त्वात्, अन्यथा वचित्कस्यचित्कदाचिदनुपलब्धेः। न चाध्वक्षादन्यद्गरिष्ट प्रमाणान्तरमस्ति, यतस्त द्विपरीतभावाभ्युपगमः क्रियते / अन्तर्बहिश्च हर्षविषादाऽऽचनेका ऽऽकार विताऽऽत्मक चैतन्यस्य स्थासकोशकुशूला ऽऽद्यने काऽऽकार स्वीकृतैकमृत्पिण्डादेः स्वसंवेदनाऽक्षजाध्यक्षतः प्रतिपत्तेः / सर्वथोपलभ्यमध्यक्षरूपं पूर्वापरकोट्योरसदिति वदतः सर्वप्रमाण-विरोधात् कुण्डलाङ्गगदा ऽऽदिषु पर्यायषु तादृग्भूतसुवर्णद्रव्योपलब्धेः कार्योत्पत्ती कारण स्य सर्वथा निवृत्यनुपलब्धेन च सादृश्य विप्रलम्भात्त दध्यवसावकल्पनेति वक्तुं तदेकान्तभेदसाधकप्रमाणस्यापास्तत्वात् / न च कथञ्चित्स्वभावभेदेऽपि तादात्म्यक्षतिः, ग्राह्यग्राहकाऽऽकारसं-- विद्वद्विविक्तपरमाणुषु स्थूलैकघटाऽऽ दिप्रतिभासबद्धा ग्राह्य ग्राहकाऽ5कारविविक्तसंवित्प्रकल्पने ऽध्यक्षधियोऽपि विवक्षिताऽऽकारविवेकाविवेकानुपलब्धेः / अध्यक्षेतरस्वभावभ्यां विरोधस्वरूपासिद्धावन्यत्रापि कः प्रद्वेषः ? तथाहि-शक्यमन्य-त्रापि एवमभिधातुम्-एकमेव पार्थिवद्रव्यं लोचनाऽऽदिसामग्रीविशेषात् चूर्णादिप्रतिपत्तिभेदेऽपि भिन्नमिव प्रतिभाति, प्रत्यासन्नेतर रूपताव्यवस्थितैकविषयत्वात्। न हि स्पष्टा-स्पष्टनिर्भासभेदेऽपि तदेकत्वक्षतिः, तद्वदिहापि रूपाऽऽदिप्रतिभासा भेदेप्येक त्वं किं न स्यात? प्रतीतेरविशेषात्। एवं च स्याद्वा दिनोऽग्ने रप्यनुष्ण त्वप्रशक्तिरित्यसङ्गतमभिधानम् / यतस्तत्रापि स्यादुष्णोऽग्निरिति स्पर्शविशेषेणोष्णस्य भास्वराऽऽकारेण पुनरनुष्णस्यतस्यैकस्य नानास्वभावशक्तेरबाधितप्रमाणविषयस्यैवं नो दोषाऽऽसङ्गासंभवात्, तस्मादेकस्यैव सामग्रीभेदवशात्तथाप्रतिभासाविरोधः। कारणस्य च कार्याऽऽत्मनोत्पत्तौ न किञ्चिदपेक्षणीयमस्ति, यत्तथोत्पित्सुस्वभावता न भवेत् / अत एव मृदादिभावो घटस्वभावेन नश्वरः, कपालस्वरूपेण चोत्पत्तौ तिष्टतीति स्वभावत एव नश्वरः, उत्पित्सुः स्थास्नुश्चान्यतमापाये पदार्थस्यैवासंभवात्, त्रितयभावं प्रत्यनपेक्षत्वाच / न हद्युत्पन्नः पदार्थः किञ्चित् स्थितिं प्रत्यपेक्षते, स्थित्यात्मकत्वादुत्पादस्य, न चावस्थित उत्पत्तौ किञ्चिदपेक्षते, उत्पत्तिस्वभावत्वात् स्थितेः। न च विनष्ट उत्पत्ति प्रति हेत्वन्तरापेक्षो, विनाशस्योत्पत्त्यात्मकत्वात्, ततः पूर्वापरस्वभावपरित्यागावाप्तिलक्षणं परिणाममासादयन् भावो व्यवतिष्ठते ! इति प्रत्यक्षादिप्रमाणगोचरमेतदेव / शब्दविद्युतप्रदीपादेरपि निरन्च्यविनाश कल्पनाऽसङ्ग तैव, तेषामादौ स्थितिदर्शनादन्तेऽपि तत् स्वभावान तिक्रमात् / न हि भावः स्वस्वभावं त्यजति, प्रागपि तत्स्व भाव परित्यागप्रशक्तेः, अन्ते च क्षयदर्शनात्प्रागपि नश्वरस्वभावादादायुत्पत्ति समये स्थितिदर्शनादन्ते स्थितिः किं नाभ्युपेयते? न च विद्युत्प्रदीपादेस्तैजसरूपपरित्यागात्तामसरूपस्वीकरणे किञ्चिदविरुद्धं भवेत्। न च स्वभावभे दस्तदेकत्वविघातकृत् ग्राह्यग्राहकाऽऽकारसंवेदनवद् ये द्यवेदकाऽऽकारविवेक परोक्षापपरोक्ष परोक्षसं वित्ति -