________________ जिणकप्प 1488 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प क्षेत्रे भरतैरवतयोर्भवन्ति शुद्धपरिहारिकाः संहरणवर्जिता नियमादियमेषां स्थितिः। अत एव भरतैरखतभावाद्विज्ञेयम्यदत्र कालेऽपि नानात्वं, प्रतिभागाद्यभावादिति गाथार्थः / चारित्रस्थितिमभिधातुमाहतुल्ला जहण्णठाणा, संजठाणाण पढमविइआणं। तत्तो असंखलोगा-णं तू परिहारिअट्ठाणा।। 530 // तुल्यानि जघन्यस्थानानि स्वसंख्यया संयमस्थानयोः प्रथमद्वितीययोः सामायिकच्छेदोपस्थाप्याऽभिधानयोः / ततो जघन्येभ्यः संयमस्थानेभ्यः, असंख्यानां लोकानां त्वाक्षेत्र प्रदेशस्थान वृद्ध्या परिहारिकस्थानानि भवन्ति, संयममधिकृत्येति गाथार्थः / ताणवि असंखलोगा, अविरुद्धा चेव पढमीवआणं। उवरि पि तओऽसंखो, संजमठाणा उदोण्हं पि।। 531 / / तान्यपि परिहारिकसंयमस्थानानि असंख्येया लोका इति प्रदेशस्थानवृद्धौ तावन्तीत्यर्थः / तानि चाविरूद्धान्येव प्रथमद्वितीययोरिति, शुद्धिविशेषात् सामायिकच्छेदोपस्थाप्यंसंयमस्थानानीति भावः / उपर्यपि ततः परिहारिकसंयमस्थानेभ्यः, असंख्येयानि शुद्धिविशेषतः संयमस्थानानि, द्वयोरपि समायिकच्छेदोपस्थाप्ययोरिति गाथार्थः / सट्ठाणे पडिवत्ती, अण्णेसु विहोज पुव्वपडिवन्नो। तेसु वि वर्सेतो सो--ऽत / अणयं पप्प वुच्चइ उ / / 532 // स्वस्थान इति निवोगतः स्वस्थानेषु प्रतिपत्तिः कल्पस्य। अन्येष्वपि संयमस्थानेष्वधिकतरेषु भवेत् पूर्वप्रतिपन्नो व्यवसायविशेषात् तेष्वपि वर्तमानः संयमस्थानान्तरेऽपि स परिहारविशुद्धिक इत्यतीतनयं प्राप्योच्यते एव / निश्चयतस्तु न, संयमल्यानान्तराध्यासनादिति गाथार्थः। ठिअकप्पम्मी णिअमा, एमेव च भवइ दुविधालिंगे वि। लेसा-झाणा दोण्णि वि, हवंति जिणकप्पतुल्लाओ॥५३३।। स्थितकल्पे च नियमादेते भवन्ति, नास्थितकल्पे; एवमेव च भवन्ति द्विविधलिङ्गेऽपि नियमादेव; लेश्याध्याने द्वे अपि भवतः। अमीषा जिनकल्पतुल्या एव प्रतिपद्यमानादिभेदेनेति गाथार्थः / गणओ तिण्णवे कणा, जहण्ण पडिवत्ति सयसमुक्कोसा। उक्कोसजहण्णेणं, सयसो चिय पुव्वपडिवण्णा / / 534 / / गणतो मणमाश्रित्य त्रय एव गणाः,एतेषांजघन्या प्रतिपत्तिरियमादावेव शतश उत्कृष्टा प्रतिपत्तिरादावेव / तथा-उत्कृष्टजघन्येन-उत्कृष्टतो, जघन्यतश्च शतश एव पूर्वपतिपन्नाः।नवरंजघन्यपदादुत्कृष्टपदमधिकमिति गाथार्थः। सत्तावीस जहण्णा, सहस्स उक्कोसओ आपडिवत्ती। सयसो सहस्ससो वा, पडिवण्ण जहण्ण उक्कोसा।। 535 / / सप्तविंशतिर्जधन्याः पुरुषाः सहस्राण्युत्कृष्टतश्च प्रतिपत्तिरेतावतामेकदा शतशः सहस्रशश्च यथासंख्य प्रतिपन्ना इति पूर्वप्रतिपन्ना जघन्या उत्कृष्टाश्चैतावन्त इति गाथार्थः। पडिवज्जमाण भइणा, इक्को वी हुन्ज ऊणपक्खेवे / पुव्वपडिवण्णया विउ, भइया एगो पुहत्तं वा / / 536 / / प्रतिपद्यमानका भाज्या विकल्पनीयाः / कथमित्याह-एकोऽपि भवेदूनप्रक्षेपे प्रतिपद्यमानकाः पूर्वप्रतिपन्नका अपितु भाज्याः, प्रक्षेपपक्ष एव कथमित्याह-एकः पृथक्त्वं वा यदा भूयांसः कल्पान्तरं प्रतिपद्यन्ते भूयास एव चैवमिति गाथार्थः। एअंखलु णणत्तं, एत्थं परिहारिआण जिणकप्पा। अहलंदिआण एत्तो, णाणत्तमिणं पक्क्खामि / / 537 / / एतत् खलु नानात्वमत्र यन्निदर्शितं पारिहारिकाणां जिनकल्पात् सकाशाच्छेषं तुल्यमेव यथालन्दिकानाम्, अत ऊर्ट्स नानात्वमिदं वक्ष्यमाणलक्षणं प्रवक्ष्यामि जिनकल्प इति गाथार्थः। पं०व०४द्वार / (शेषा वक्तव्यता 'अहालंद' शब्दे प्रथमभागे 867 पृष्ठे द्रष्टव्या) कयमित्थपसंगेणं, एसो अब्भुजओ इह विहारो। संलेहणासमो खलु, सुविसुद्धो होइ गायव्यो / / 553 / / कृतमत्र प्रसङ्गेन विस्तरेण, एषोऽभ्युद्यतो विहारः, इह प्रवचने संलेखनासमः खलु पश्चादासेवनात्सुविशुद्धो भवति ज्ञातव्यो यथोदितः। इति गाथार्थः। पाएण चरमकाले, जमेस भणिओ सयाणमणवज्जो। भयणाएँ अण्णया पुण, गुरुकजाईहिँ पडिबद्धा / / 554|| प्रायेण चरमकाले यदेवैष भणितः, सूत्रे सतामनवद्यः, भजनयाऽन्यदा पुनः स्याद्वा, न वा, गुरुकार्यादिभिः प्रतिबन्धादिति गाथार्थः / केई भणंति एसो, गुरुसंजमजोगओ पहाणो त्ति। थेरविहाराओ विहु, अचंतं अप्पमायाओ / / 555 / / केचन भणन्त्येषोऽभ्युद्यतविहारः, गुरुसंयमयोगतः कारणात्प्रधान इति, स्थविरविहारादपि सकाशादत्यन्तमप्रमादाद्धेतोरिति गाथार्थः। अन्ने परत्यविरहा, नेवं एसो अइह पहाणो त्ति। एअस्स वि तब्भावे, पडिवत्तिणिसेहओ चेव।। 556 / / अन्ये परार्थविरहात् कारणान्नैवमिति भणन्तित। एष चपरार्थ इह प्रधानः परलोक इति / एतस्याऽप्यभ्युद्यतविहारस्य तद्भावे परार्थभावे प्रतिपत्तिनिषेधतश्चैव, नैव भणन्ति / इति गाथार्थः / एतदेवाऽऽहअब्भुज्जयमेगयरं, पडिवजिउकाम सो वि पव्वावे / गणिगुणसलिद्धिओ खलु, एमेव अलद्धिजुत्तो वि / / 557|| अभ्युदतमेकतैरं विहारं मरणं वा प्रतिपत्तुकामः सन्नसावपि प्रव्राजयत्युपस्थितम्, अन्यथा तत्प्रव्रज्याभावे गणिगुणस्वलब्धिकः खलु तत्पालनासमर्थो न सामान्येन तच्छून्यः, स्नेहात्प्रव्रजति सति का वार्ता? इत्याह-एवमेवान्यथा तत्प्रव्रज्याभावेऽलब्धियुक्तोऽप्यभ्युद्यतप्रतिपत्तिमात्रेण गुरुनिश्रया प्रव्रजतीति गाथार्थः। एव पहाणो एसो, एगंतेणेव आगमा सिद्धो। जुत्तीए वि अनेओ, सपरूवगारो महं जम्हा।। 558 / / एवं प्रधान एषोऽभ्युद्यतविहारात् एकान्तेनैवाऽऽगमात् सिद्ध इति युक्त्याऽपिच ज्ञेयः प्रधानः, स्वपरोपकारो महान् यस्मादिति गाथार्थः। ण य एत्तो उवगारो, अण्णो णिव्वाण-साहणं परमं /