SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ जिणकप्प 1466 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प अथैनामेव विवरीषुराहअणुपालिओ यदीहो, परियाओ वायणा वि मे दिना। निप्फाइया य सीसा, मेओ हियमप्पणो काउं / / तेनाचार्येण सूत्रार्थयोरव्यवच्छिंतिं कृत्वा, पर्यन्ते पूर्वापरा रात्राकालसमये धर्मजागरिका जाग्रतेत्थं चिन्तनीयम्। यथा-अनुपालितो | मया दीर्घः पर्यायः प्रवज्यारूपो, वाचनापि मया दत्ता, उचितेभ्यः। निष्पादिताश्च भूयांसः शिष्याः। तदेवं कृता तीर्थ स्याव्यवच्छित्तिः। तत्करणेन विहितमात्मन ऋणमोचनम्। अत उद्धे श्रेपः प्रशस्यतरं ममात्मनो हितं कर्तुम्। किं नाम हितमिति चेदुच्यतेकिं तु विहारेण ऽन्भु-ज्जएण विहरामि ऽणुत्तरगुणेणं / आउ अब्भुजयसास-णेणं विहिणा अणु मरामि / / किंतुरिति वितको अभ्युद्यतविहारेण जिनकल्पादिना, अनुत्तरगुणेनानुत्तरा। अनन्यसामान्या गुणा निर्ममत्वादयो यस्मिन् स तथा, तेनाहं विहारामि। (आउ त्ति) उताहो (अब्भुज्जयसासणेणं ति) सूत्रत्वात सूत्रस्य अभ्युद्यतमरणविशेषे शासनोक्तेन विधिना मिये। अनु पश्चात् संलेखनाद्युत्तरकालं मरणं प्रतिपद्येऽहमिति। (बृ०) इह चायं विधिः। यदि स्तोकमेवायुरवशिष्यते, ततः पादपो पगमनादीनामेकतरमभ्युद्यतमरण प्रतिपद्यते। अथ प्रचुरमायुः पर जङ्गबलपरिक्षीणः, ततो वृद्धावासमध्यास्ते, अथायुर्दीर्घ चनजङ्गाबलक्षीणस्तदाभ्युद्यतविहारं प्रतिपद्यत इति, गतम व्यवच्छित्तिमनोद्वारम्। (11) तत्रा द्वितीयमाचार्यादिरूप-पञ्चतुलनात्मकम्। पञ्चानामाचार्योपाध्यायप्रवर्तकस्थविरगणवच्छेदकानां तुलना भवति। यथा त्रयाणां अभ्युद्यतविहाराणां कतरं प्रतिपद्यामहे। चैत एव प्रावोऽभ्युद्यतविहारस्याधिकारिण इति कृत्वा पञ्चेति सङ्गानियमः कृतः। इत्थमात्मानं तोलयित्वा यदि जिनकल्पं प्रतिपित्सुस्तदा इत्थं विधि करोतिगणनिक्खेवित्तरिओ, गणिस्स जो वठविओ जहिं ठाणे। गणिन आचार्यस्य गणनिक्षेपः। इत्वरः परिमितकालापन्नो भवति। यो वा उपाध्यायदिर्या स्थाने पदे स्थापितः, स तत्पद्दमेकतुल्यगुणे साधावित्वरनिक्षेपेण निक्षिपति। आह किमर्थमसावित्वरं गणादिनिक्षेपं विदधाति, न यावजीविकम्? उच्यते-इह च काष्ठकविवरगामिता शिलीमुखेन वामलोचने पुत्रिकाया वेधनमिव दुष्करं गणाद्यनुपालनम्। अतः पश्या मस्तावदेवेति। न या-ऽऽचार्यप्रभृतयः किमस्य गणादेरनुपालनं कर्तुं यथावदीशते, वा न वा। यदि नेशते। ततो मया न प्रतिपत्तव्यो जिनकल्पः। यतो जिनकल्पानुपालनादपि श्रेष्ठतरमितरस्य यथाविधस्याभावे सूत्रोक्तनीत्या गणाद्यनुपालना बहुतरनिर्जरालाभकारणत्वात्। नच बहुगुण परित्यागेन स्वल्पगुणोपादाबं विदुषां कर्तुमुचितं। सुप्रतिष्ठित कार्यारम्भकत्वात्तेषामित्यभिसंधाय, स भगवानित्वरं गणादि निक्षेप विदधातीति। वक्तं च पञ्चवस्तुशास्त्रे इहैव प्रक्रने श्री हरि भद्रपूज्यैः"पिच्छासु ताव एए, केरिसगा होति अस्स ताणऽस्स। जोगाण वि पाएणं, निव्वणं दुक्करं होइ।। मय बहुगुणचाएणं, अप्पगुणपसाहणं जह वुहाणं।। इह काउं कञ्जुक-सलाण सुपइट्टियाऽरंभा''।। (गतं पञ्चतुलनाद्वार) उवहिं च अहागडयं, गेण्हइ जाव ऽन्नणुप्पाए।। अथोपकरणद्वारमाह- "उवहिं च'' इत्यादि। यावदम्बं जिनकल्पप्रायोग्यं शुद्धषणायुक्त प्रमाणोपेतं चौपधिं वस्त्रादि, नोत्पादयति, तावद्यथाकृतमेव गृहति। ततः स्वकल्पप्रायोग्ये उपकरणे लब्धे सति प्राक्तनमुपकरणं व्युत्सृजतीति। गतपुपकरणद्वारम्। (12) तत्र चतुर्थ परिकर्मद्वारम्। अस्य द्विविधत्वमस्यैवाधिकारस्य (16) अङ्के द्रष्टव्यम्। परिकर्मेति वा भावनेति वा एकार्थी तत आत्मनं भावनाभिः सम्यक् भावयति। आह-सर्वेऽपि साधवस्तावद्भावितान्तरात्मनो भवन्ति। अतः किं पुनर्भावयितव्यम्? उच्यतेइंदियकसायजोगा, विनियमिया जइ वि सव्वमाहहिं। तइ विजयो कायव्यो, तज्जयसिद्धिं गणंतेणं। यद्यपि सर्वसाधुभिरिन्द्रियकषाययोगान, विविधैः प्रकार निवमिता जितास्तथाऽपि जिनकल्पं प्रतिपत्तुकामेन पुनरेतेषां जयः कर्तव्यः। तत्रौहिकाऽमुष्मिकापायपरिभावनादिना इन्द्रियाणां जयस्तथा कर्तव्यो, यथेष्टानिष्टविषयेषु गोचर मुपागतेषु रागद्वेषयोरुत्पत्तिरेव न भवति। कषायाणामपि जयस्तथा कर्त्तव्यो, यथा-आक्षेपांदुर्वचनश्रवणादि ब्राह्य कारण मवाप्यान्वितेषु तेषामुपचय एव माविर्भवति। योगानामपि मनः प्रभृतीनां जयस्तथा यतितव्यं यथा-तेषामार्तध्यानादिकं, दुष्प्राणिनामिव नोदयमासादयति। अथ किमर्थमित्थमिन्द्रिय कषाययोगानां जयः कर्तव्य इत्याह - तेषामिन्द्रियादीनां जयस्तजयेन सिद्धिर्जिन कल्पपारप्राप्तिस्तां गणयता मन्यमाने नेन्द्रियादीनां जयः करणीयाः। बृ०१ उ०। (इतोऽग्रे 'भावणा' शब्दे) (१३)ता पञ्चमं तपआदिपञ्चकानां पञ्चतुलना भावानारूपम्। द्वितीया सत्वभावना 'सत्तभावणा' शब्दे। तृतीया सूत्रभावना ‘सुत्तभावणा' शब्दे। तावत् प्रथमां तपोभावनामाहबवेण सत्तेण सुत्तेण, एगत्तेण बलेण या तुलण्णा पंचहा वुत्ता, जिणकप्पं पडिवजओ। तपसा, सत्वेन, सूत्रोण, एकत्वेन, बलेनच, एवं तुलना भावना पञ्चधा प्रोक्ता। जिनकल्पं प्रतिपद्यमानस्येति नियुक्तिगा थासमासार्थः। अथ विस्तरार्थमभिधिन्सुराह - जो जेण अणब्भत्थो, पोरिसिमाई तवो उतं तिगुणं / कुणइ छुहाविजयडे, गिरिणइसीहो य दिटुंतो / / यद्येन पौरूष्यादिकं तपोऽनभ्यस्तंसात्मीभावसमानानीतं तत् त्रिगुणं, श्रीन् वारान् करोति। यथा-प्रथमं पौरूषी वाराया ऽऽसेवनेन सात्मीभावमानीय ततः पूर्वार्द्ध तथैवासेव्य सात्मीभावमानयति। एवमेकाननिविकृतिकादिष्वपि द्रष्टव्यम्। किमर्थमित्याह-क्षुद्धिजयार्थ यथा क्षुत्परीषहसहने सात्म्यं भवतीत्यर्थः। अथ गिरिनदीसिंहेन दृष्टान्तः यथा असौ गिरिनदी तरन् परतटे चिहं करोति / यथा सुष्कप्रदेशे वृक्षाधुपलक्षिते मया गन्थ्यमिति संचरन् तीक्ष्णेनोदकवेगेनापहियते। ततो व्यावृत्य भूयः प्रगुणमेवोत्तरति। यदि हियते। ततो भूयः तथैवोत्तरति। एवं यावत् सकलामपि गिरिनदी प्रगुणमेवोत्तरीतुं शक्रोति, ता
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy