________________ धुयवाय 2766 - अभिधानराजेन्द्रः - भाग 4 धुयवाय तो गच्छतो वा स्पर्शान दुःखविशेषान् आत्मसंवेदनीयाः स्पृशन्त्यभिभवन्ति। ते चतुर्विधाः। तद्यथा-घट्टनताऽक्षिकणुकाऽऽदिना, पतनता भ्रमिमूर्छाऽऽदिना, स्तम्भनता घाताऽऽदिना, श्लेषणता तालुतः पातादड् गुल्यादेर्वा स्यात् (? / यदि वा-वातपित्तश्लेष्माऽऽदिक्षोभात् स्पर्शाः स्पृशन्ति / अथवा-निष्किञ्चनतया तृणस्पर्शदंशमशकशीतोष्णाऽऽदितापिताः स्पर्शा दुःखविशेषाः कदाचित् स्पृशन्त्यभिभवन्ति, तैश्च स्पृष्टपरीषहस्तान् स्पर्शानदुःखविशेषान् धीरोऽक्षोभ्योऽधिसहेत, नरकाऽऽदिदुःखभावनयाऽबन्ध्यकर्मोदयाऽऽपादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिक्षेदिति। कीदृक्षोऽधिसहेत? इत्यत आह-यदि वा स एवम्भूतो न केवलमात्मनखाता, तदुपदेशदानतः परेषामपीति दर्शयितुमाह-(ओए इत्यादि) ओज एको रागाऽऽदिविरहात् सम्यगितं गतं दर्शनमस्येति समितदर्शनः, सम्यग्दृष्टिरित्यर्थः / यदिवा शमितमुपशमं नीतं दर्शनं दृष्टिनिमस्येति समितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः / अथवा-समतामितं गतं दर्शनं दृष्टिरस्येति समितदर्शनः समदृष्टिरित्यथः। एवम्भूतः स्पर्शानधिसहेत यदि वा धर्ममाचक्षीतेत्युत्तर क्रियया सह सम्बन्धः।।११३|| आचा। (किमभिसन्ध्य धर्ममाचक्षीतेति 'धम्म' शब्देऽस्मिन्नेव भागे 2662 पृष्ठे दर्शितम्) किंगुणश्वाऽसौ द्वीप इव शरण्यो भवनीत्याहएवं से उहिए ठियप्पा अणिहे अचले चले अबहिलेस्से परिव्वए ||116 / संखाय पेसलं धम्म दिद्विमं परिणिव्वुडे / / 120 // तम्हा संगं ति पासहा गंथेहिं गंथिया णरा विसण्णा कामक्कंता, तम्हा लूहाओ णो परिवित्तसेज्जा / / 121|| (एवं इत्यादि) एवमिति वक्ष्यमाणप्रकारेण, स शरण्यो महामुनि वोत्थानेन संयमानुष्ठानरूपेण, उत्प्राबल्येन स्थित उत्थितः, तथा स्थितो ज्ञानाऽऽदिके मोक्षाध्वन्यात्मा यस्य स स्थिताऽऽत्मा, तथा स्निह्यतीति स्निहो, न स्निहोऽस्निहः रागद्वेषरहितत्वाद प्रतिबद्धः, तथा चन चलतीत्यचलः परीषहोपसर्गवातेरितोऽपीति। तथा चलोऽनियतविहारित्वात्तथा संयमादहिर्निर्गता लेश्याऽध्यवसायो यस्य स बहिर्लेश्य, यो न तथा सोऽबहिर्लेश्यः, स एवम्भूतः परि समन्तात्सयमानुष्ठाने व्रजेत्पविजेत्, न क्वचित्प्रतिबध्यमान इतियावत्॥११६॥ स च किमिति संयमानुष्ठाने परिव्रजेदित्याह-(संखाय इत्यादि) सङ्ख्यायाऽवधार्य्य पेशल शोभनं धर्ममविपरीतार्थं, दर्शनं दृष्टिः, सदनुष्टानं वायस्यास्त्यसौ दृष्टिमान, स कषायोपशमात् क्षयादा परि समन्तान्निर्वृतः शीतीभूतः // 120 / / यस्त्वसङ्घ यातवान् पेशलं धर्म मिथ्यादृष्टिरसौ न निर्वातीति दर्शयितुमाह-(तम्हा इत्यादि) इतिहेतोर्यस्मादिपरीतदर्शनो मिथ्यादृष्टिः सगवान्न निर्वाति तस्मात्सङ्ग मातापितृपुत्रकलत्राऽऽदिजनितं, धनधान्यहिरण्याऽऽदिजनित वा सङ्ग, विपाक वा पश्यत यूयं विवेकनावधारयत। सूत्रेणैव सङ्गमाह-(गंथेहिं इत्यादि) त एव सङ्गिनो नराः सबाह्याभ्यन्तरैन्थैिथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमग्नाः कामैरिच्छामदनरूपराक्रान्ता अवष्टब्धा न निर्वन्ति यद्येवं ततः किं कर्तव्यमित्याह-(तम्हा इत्यादि) यस्मात्कामद्वयाऽऽसक्तचेतसः स्वजनधनधान्याऽऽदिमूर्छिता। कामजैः शारीरमानसाऽऽदिभिर्दुःखैरुपतापितास्तस्मात् रूक्षात्सयमात् निःसङ्गाऽऽत्मकान्नो परिवित्रसेन्न संयमानुष्ठानादिभियात्। यतः प्रभूतनरदुःखानुषङ्गिणो हि सङ्गिन इति / / 121 / / करय पुनः संयमान्न परिवित्रसनं सम्भाव्यत इत्याह-- जस्सिमे आरंभा सव्वतो सव्वत्ताए सुपरिण्णाया भवंति, जेसिमे लूसिणो णो परिवित्तसंति, से वंता कोहं च माणं च मायं च लोहंच, एस तुट्टे वियाहिए त्ति बेमि।।१२२।। कायस्स वि वाघाए स संगामसीसे वियाहिए, से हु पारंगमे मुण अविहम्ममाणे फलगायतट्ठी कालोवणीए कंखेज कालं जाव सरीरभेदो त्ति बेमि।।१२३।। (जस्सिमे इत्यादि) यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गा आरम्भा अनन्तरोक्तत्वादतिजानतः सर्वजनाऽऽचरितत्वात्प्रत्यक्षाऽऽसन्नवाचिनेदमभिहतः सर्वतः सर्वाऽऽत्मकतया सुपरिज्ञाता भवन्ति / किम्भूता आरम्भाः ? येष्विने ग्रन्थग्रथिताः विषण्णाः कामभराऽऽक्रान्ता जना लूषिणो लूषणशीला हिंसका अज्ञातमोहोदयान्न परिवित्रसन्ति न बिभ्यति, यो ह्येवंभूताश्चाऽऽरम्भान ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरति तस्यैते सुपरिज्ञाता भवन्ति। यश्वाऽऽरम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह (सेवंता इत्यादि) स महामुनिः पूर्वव्यावर्णितस्वरूपो वान्त्वा त्यक्त्वा क्रोधं चमानं च मायां च लोभं चेति स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानम्, तत्सम्बन्धत्वान्मानस्य लोभार्थ नायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्याऽऽदावुपन्यासः, ततः स च दोषाऽऽश्रयत्वात्सर्वगुरुत्वाच सर्वोपरि लोभस्य क्षपणाक्रमं वाऽऽश्रित्यायमुपन्यास इति। चकारो हीतरेतरापेक्षया समुच्चयार्थः / स एवं क्रोधाऽऽदीन्वान्त्वा मोहनीय त्रोटयति, स चैष अपगतमोहनीयः संसारसन्ततेः, 'तुट्ठो' अपसृतो व्याख्यातस्तीर्थकृतादिभिः, इतिरधिकारपरिसमाप्तौ / ब्रवीम्येतत्पूवोक्तम् / यदि वैतद्वक्ष्यमाणमित्याह-(कायस्स इत्यादि) काय औदारिकाऽऽदित्रय, घातिचतुष्टयं वा, तस्य व्याघातो विनाशः। अथवा चीयत इति कायस्तस्य विशेषेणाङ्मऽऽदियाऽऽयुष्कक्षयाबधिलक्षणया, घ तो व्याघातः शरीरविनाश एव सङ्ग्रामशीर्षरूपतया व्याख्यातः। यथा हि-सङ्ग्रामशिरसि परानीकनिशाताऽऽकृष्टकृपाणनिर्यत्नप्रभासं चलितोद्यत्सूर्यत्विहुभूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकर्मितमतेरप्यन्यथाभावः कदाचित्स्यादतो यो मरणकाले न मुह्यति, स पारगामी मुनिः संसारस्य कर्मणो वा उक्षिप्तभारस्य वा पर्यन्तयायीति / किन-(अविहम्ममाणे इत्यादि) विविधं परीषहोपसर्ग -- हन्यमानो विहन्यमानो, न विहन्यमानोऽविहन्यमानः, न निर्विण्णः सर्वहानसंगद्धे (?) पृष्टमन्यद्वा बालमरणं प्रतिपद्यत इति / यदि वाहन्यमानोऽपि सबाह्याभ्यन्तरतया तपःपरीषहोपसर्गः फलक-वदवतिष्ठते नकातरीभवति। तथा कालेनोपनीतः कालोपनीतो मृत्युकालेनाऽऽत्मवशता नीतः सन द्वादशवर्षसङ्लेखनयाऽऽत्मानं संलिख्य गिरिगह्वराऽऽदिस्थण्डिलपादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः कालं मरणकालमायुष्कक्षयं यावच्छरीरस्य जीवेन सार्द्ध भेदो भवति, ता