________________ धुयवाय 2765 - अभिधानराजेन्द्रः - भाग 4 धुयवाय विषयकषायाणां तत आर्ता वशाऽऽतः, तथाभूतानां च कर्मानुषङ्गः। तदुक्तम्- ''सोइंदियवसट्टणं भंते ! कति कम्मपगडीओ बंधइ? गोयमा ! आउवजाओ सत्त कम्मपगडीओ० जाव अणुपरियट्टइ / कोहवसट्टे णं भंते ! जीवे किं ? एवं ते चेव।" एवं मानाऽऽदिष्वपीति तथा कातराः परीषहोपसर्गोपनिपाते सति विषयलोलुपा वा कातराः। के ते? जनाः, किं कुर्वन्ति? ते प्रतिभग्नाः सन्तोलूषका भवन्तिको ह्यष्टादशशीलाङ्गसहस्राणि धारयिष्यतीत्येवमभिसंधाय द्रव्यलिङ्ग, भावलिङ्ग वा परित्यज्य प्राणिनां विराधका भवन्ति॥११०|| तेषांव च पश्चात्कृतलिङ्गानां यत्स्यात्तदाह-(अहमेगेसिं इत्यादि) अथाऽऽनन्तर्ये, एकेषां भव्नप्रतिज्ञानां सुप्रव्रजितानां तत्समनन्तरमेवान्तर्मुहूर्तेन वा पञ्चत्वाऽऽपत्तिः स्यात्, एकेषां तु श्लोकः श्लाघारूपः पापको भवेत् स्वपक्षात्परपक्षाद्वा महत्ययशः कीर्तिर्भवति। तद्यथा-स एव पितृवनकाष्ठसमानो भोगाभिलाषी व्रजति तिष्ठति वा, नास्य विश्वसनीय, यतो नास्याकर्तव्यमस्तीति। उक्तं च-- "परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् / आत्मानं यो न सन्धत्ते, सोऽन्यस्मै स्यात्कथं हितः / / 1 / / '' इत्यादि / यदि वा सूत्रेणैवाश्लाघतां दर्शयितुमाह-(से समण इत्यादि) सोऽयं श्रमणो भूत्वा विविधं भ्रान्तो भग्नः श्रमणविभ्रान्तः श्रमणविभ्रान्तः / वीप्सयाऽत्यन्तजुगुप्सामाह // 111 / / किञ्चपासहेगे समण्णागएहिं असमण्णागए णममाणेहिं अणममाणे विरतेहिं अविरते दविएहिं अदविए अमिसमेचा पंडिए मेहावी णिट्ठियढे धीरे आगमेणं सया परक्कमेजासि त्ति वेमि // 112 / / पश्यत यूयं कर्मसामर्थ्यमेके विश्रान्तभागधेयाः समन्वागतैरुधुतविहारिभिः सह वसन्तोऽप्यसमन्वागताः शीतलविहारिणः, तथा नममानैः संयमानुष्ठानेन विनयवद्भिरनममाना निघृणतया सावद्यानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्यभूताः पापकलङ्कितत्वादैवभूतैरपि साधुभिः सह वसन्तोऽप्येवम्भूतानभिसमेत्य ज्ञात्वा, किं कर्त्तव्यमिति दर्शयतिपण्डितस्त्वं ज्ञातज्ञेयो मेधावी मर्यादाव्यवस्थितो निष्ठितार्थो विषयसुखनिष्पिपासो धीरः कर्मविदारणसहिष्णुर्भूत्वाऽs - गमेन सर्वज्ञप्रणीतोपदेशानुसारेण, सदा सर्वकालं परिक्रामयेत्, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, धूताध्ययनस्य चतुर्थोद्देशकः समाप्तः / उक्तश्चतुर्थोद्देशकः।। साम्प्रतं पञ्चम आरभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मविधूननार्थ गौरवत्रयविधूननाऽभिहिता, सा च कर्मविधूननोपसर्गविधूननाव्यतिरेकेण न संपूर्णभावमनुभवति, नापि सत्कारपुरस्कारात्मिकां समानधूननामन्तरेण गौरवविधूनना सम्पूर्णतामियादित्यत उपसर्गसमानविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनाऽऽयातस्यास्योद्देशकस्यास्खलिताऽऽदिगुणोपेतं सूत्रमुच्चारणीयम्। तच्चेदम् से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा णगरेसु वा णगरंतरेसु वा जणवएसु वा जणवयंतरेसु वा संतेगतिया जणा लूसगा संति, अदुवा फासा फुसंति, ते फासे पुट्ठो धीरो अहियासए ओएसमियदंसणे॥११३|| "से गिहेसुवा इत्यादि,०जाव धीरो अहियासए।" (से ति) स पण्डितो मेधावी निष्ठितार्थो धीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराशि एकाकिविहारितया ग्रामानुग्रामं रीयमाणः क्षुद्रतिर्यग्नरामरकृतोपसर्गप-- रीषहाऽऽपादितान् दुःखस्पर्शान्निजरार्थी सभ्यगधिस हेत / व पुनर्व्यवस्थितस्य केपरीषहोपसर्गा अभिपतेयुरितिदर्शवति-आहाराऽऽद्यर्थ प्रविष्टस्य गृहेषुवा, उचनीचमध्यमावस्थासंसूचकं बहुवचनम्। तथा गृहान्तरेषु प्रसन्ति बुद्ध्यावीन् गुणानितित्रामाः, तेषु वा तदन्तरातेषु वा। नैतेषु करोऽतीति नकराणि, तेषु वा, तदन्तरालेषु वा। जनाना लोकानां पदान्यवस्थानानि येषु ते जनपदा यवन्ह्यादयः साधुविहरणयोग्या अर्द्धषशितिः, तेषुवा, तदन्तरालेषु वा, ग्रामनगरान्तरे वा, ग्रामजनपदान्तरे वा, नगरजनपदान्तरे वा, उद्याने वा, तदन्तरे वा, विहारभूमिमागतस्य वा गच्छतो वा तदेवं तस्य भिक्षोामाऽऽदीनधिशयानस्य कायोत्सर्गाऽऽदि वा कुर्वत एके कालुष्योपहताऽऽत्मानो ये जना लूषका भवन्ति, 'लूष' हिंसायामित्यस्माद् ल्युडन्ते रूपम्। सन्ति विद्यन्ते, तत्र नारकाभावादुपसर्गकरण प्रत्यवस्तु (?) तिर्यगमरयोरपि कादाचित्कत्वान्मे तूष्णीमेवानुकूलप्रतिकूलवगावाजनग्रहणम् (?) यदि वा-जायन्त इति जनाः तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरभयोपसर्गाऽऽपादनेनोपसर्गयेयुरिति / तत्र दिव्याश्चतुविधाः। तद्यथा-हास्यात्, प्रद्वेषाद्विमर्शात, पृथग्विमात्रातो वा / तत्र केलीकिलः कश्चित् व्यन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात-यथा भिक्षार्थ प्रविष्टः क्षुल्लकैर्भिक्षालाभार्थ पललविकटतर्पणाऽऽदिनोपयाचितकं व्यन्तरस्य प्रपेदे, भिक्षाऽवाप्तौ च तज्जायमानस्य कुतश्चिदुपलभ्य विकटाऽऽदिकं तैईढोके, तेनापि केल्यैव ते क्षुल्लकाः क्षीवा इव व्यध्यायिषत प्रदेषेण यथा भगवतो माघमासरजन्यां तापसीरूपधारिण्या व्यन्तर्योदकजटाभारवल्कलविप्रभिः सेचनमकारि विमर्शार्थ मयं दृढधर्मा न वेत्यनुकूलप्रतिकूलोपसगै : परीक्षयेत् / तथा संविग्नः साधुर्भावितया कयाचिद् व्यन्तर्या स्त्रीवेषधारिण्या स्तन्यदेवकुलिकावासितः साधुरनुकूलोपसर्गरुपमर्दितो दृढधर्मेति च कृत्वा वन्दित इति / तथा पृथग्विधा मात्रा येषूपसर्गेषु ते पृथग्विमात्रा हास्याऽऽदित्रयान्यतराऽऽरब्धा अन्यतरावसायिनो भवन्ति। तद्यथा-भगवतिसंगमकेनेव विमर्शाऽऽरब्धः प्रद्वेषेध पर्यवसिता इति मानुषा अपिहास्यप्रद्वेषविमर्शकुशीलप्रतिषेधनाभेदाचतुर्धा / तत्र हास्याद्देवसेना गणिका क्षुल्लकमुपसर्गयन्ती दण्डेन ताभिता राजानमुपस्थिता, क्षुल्लकेन तथाभूतेन श्रीगृहोदाहरणेन राजा प्रतिबोधित इति / प्रद्वेषाद्गजसुकुमारस्येवश्वशुरभूतेनेति विमच्चिन्द्रगुप्तो राजा चाणक्यचोदितो धर्मपरीक्षार्थमन्तः पुरिकाभिर्धर्ममावेदयन्तं साधुमुपसर्गयति, साधुना च प्रत्यायता श्रीगृहोदाहरणं राजे निवेदितमिति / तत्र कुत्सितं शीलं कुशीलं, तस्य प्रतिसेवनं कुशीलप्रतिसेवन, तदर्थ कश्चिदुपसर्गकुर्याद्यथालुगृहपर्युषितः साधुश्चतसृभिः सीमन्तिनीभिः प्रोषितभर्तृकाभिः सकलां रजनीमेकैकया प्रतिमया उपसर्गितो, न चाऽसौ तासु लुलुभे, मन्दरवन्निष्प्रकम्पोऽभूदिति तैर्यथैता अपि भवप्रद्वेषाऽऽहारापत्यसंरक्षणभेदाचतुर्द्धव / तत्र भवात् साऽऽदिभ्यः प्रद्वेषाद्यथा गगनतवण्डकौशिकात् आहारात सिंहव्याघ्राऽऽदिभ्यः अपत्यसरक्षणात्काक्यादिभ्य इति। तदेवमुक्तविधिनोपसर्गाऽऽपादकत्वाजना लूषका भवन्ति / अथवा तेषु ग्रामाऽऽदिषु स्थानेषु तिष्ठ